मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)
Mulamadhyamakakarika of Nagarjuna with Prasannapada Commentary
आचार्य नागार्जुन (टीकाकार: आचार्य चन्द्रकीर्ति) द्वारा
पृष्ठम् १०२
यदि देवपुद्गलदुःखं मनुष्यपुद्गलेन कृतत्वात्परकृतं भवति, ननु, मनुष्यपुद्गलस्य
स्वयंकृतमेव तद्भवति । एतच्च नास्तीत्युक्तम् । ततः स्वयंकृतस्याप्रसिद्धेर्यदा मनुष्यपुद्गलेन स्वयं
तद्दुःखं न कृतम्, तदा कुतः परपुद्गलस्य देवास्येर^y तद्दुःखं परकृतं भविष्यतीति । अतोऽपि
परकृतं दुःखं न संभवति ॥ ७ ॥
इदानीं प्रकरणान्तरेणापि पक्षद्वयासंभवं प्रतिपादयन्नाह —
न तावत्स्वकृतं दुःखं न हि तेनैव तत्कृतम् ।
परो नात्मकृतश्चेत्स्याद्दुःखं परकृतं कथम् ॥ ८ ॥
इतश्च स्वपराभ्यां दुःखस्य करणं न युज्यते, यस्मान्न तावत्स्वकृतं दुःखम् । किं
कारणम् ? यस्मान्न तेनैव हि तत् कृतम्, स्वात्मनि वृत्तिविरोधात्, अतः स्वकृतं नास्ति । न
परकृतमपि, यस्माद्योऽसौ परः करोतीति परिकल्प्यते, स एव तावन्नात्मना कृतो नात्मना निष्पन्नः,
तस्यापि हेत्वन्तरापेक्षणात् । यश्च स्वात्मना न निष्पन्नः, स कथमविद्यमानस्वभावः सन् परं
करिष्यतीति न युक्तमेतत् ॥ ८ ॥
इदानीमुभयकृतमपि दुःखमसदित्याह —
स्यादुभाभ्यां कृतं दुःखं स्यादेकैककृतं यदि ।
यदि हि एकैकेन दुःखस्य करणं स्यात्, स्यात्तदानीमुभाभ्यां कृतं दुःखम् । न चैकैक-
कृतं तत्, उक्तदोषात् । न चैकैकेन प्राणातिपाते कृते द्वाभ्यां कृत इति व्यपदेशो दृष्टः ॥
इदानीं निर्हेतुकमपि दुःखं यथा नास्ति, तथा प्रतिपादयन्नाह —
पराकारात्स्वयंकारं दुःखमहेतुकं कुतः ॥ ९ ॥
परेण अकारो अकरणं यस्येति पराकारम् । न स्वयंकारोऽस्येत्यस्वयंकारम् । यदि
दुःखं स्वयंकृतं नास्ति, परकृतमपि नास्ति यथोक्तेन न्यायेन, तदिदानीं कुत एव निर्हेतुकं
भविष्यति खपुष्पसौगन्ध्यवत् ? दुःखभावात्कुतस्तस्याश्रयभूत आत्मा ॥ ९ ॥
यथा च चतुर्धा विचार्यमाणं दुःखमसत्, एवं बाह्या अपि बीजाङ्कुरघटपटादयो भावा
वेदितव्याः, इति प्रतिपादयन्नाह—
न केवलं हि दुःखस्य चातुर्विध्यं न विद्यते ।
सर्वेषां
बाह्यानामपि भावानां चातुर्विध्यं न विद्यते ॥ १० ॥
पूर्ववत्सर्वं समं योज्यम् । यदि खल्वेषां दुःखादीनां चातुर्विध्यासंभवः, तत्कतमेन तर्हि
इदानीं प्रकारेण एषां सिद्धिरिति । उच्यते । स्वभावतो यदि एतानि दुःखादीनि स्युः, नियतमेषां
चतुर्णां प्रकाराणामन्यतमेन प्रकारेण सिद्धिः स्यात् । न त्वस्ति । तस्मात्स्वभावतो न सन्ति
दुःखादीनीत्यवसीयते । अथ विपर्यासमात्रलब्धात्मसत्ताकाया दुःखदिक्संवृतेः प्रतीत्यसमुत्पाद-
पादटिप्पण्यः :
१. T om. अकारो.
२. The Com. seems to read सर्वेषां for बाह्यानां.
पृष्ठम् १०३
[R1] व्यवस्था मृग्यते, तदा कर्मकारकपरीक्षाप्रकरणविहितविधिना यथोदितपक्षचतुष्टयतिरस्कारेण
[R2] इन्द्रप्रत्ययतामात्रार्थप्रतीत्यसमुत्पादसिद्ध्या सिद्धिरभ्युपेया । यथोक्तम्—
[R3] स्वयंकृतं परकृतं द्वाभ्यां कृतमहेतुकम् ।
[R4] तार्किकैरिष्यते दुःखं त्वया तूक्तं प्रतीत्यजम् ॥ इति ॥
[R5] [लोकातीतस्तव — १९]
[R6] उक्तं च भगवता आर्योपालिपृच्छायाम् —
[R7] .......................................
[R8] तथो —
[R9] संवृति भाषितु धर्म जिनेन
[R10] संस्कृतऽसंस्कृत पश्यथ एव ।
[R11] नास्तिह भूततु आत्म नरो वा
[R12] एत्तकु लक्षण सर्वजगस्य ॥
[R13] कृष्णशुभं च न नश्यति कर्म
[R14] आत्मन कृत्व च वेदयितव्यम् ।
[R15] नोऽपि तु संक्रम कर्मफलस्य
[R16] नो च अहेतुक प्रत्यनुभोति ॥
[R17] सर्वि
Here is the complete, line-by-line transcription of the Sanskrit text from the image into clean Markdown, preserving original Devanagari characters, chapter headings, verse numbers, footnotes, and line markers.
[Left Page]
१३
संस्कारपरीक्षा त्रयोदशमं प्रकरणम्।
यतश्चैवं समनन्तरतिक्रान्तप्रकरणविधिना स्वपरोभयकृतत्वमहेतुसमुत्पन्नत्वं च निरूप्यमाणं
भावानामसत्, अन्यथोत्पादको विधिरसन्, उत्पन्नरूपत्वेन चैते भावा अविद्यातिमिरोपहतमतिनयनानां
बालपृथग्जनानां ख्यान्ति, तस्मान्निःस्वभावा एव सन्तो बालानां विसंवादका मायाकरितुरगादिवत्
तदनभिज्ञानां न तु विज्ञानाम् । अत एव सर्वधर्मस्वाभाव्यापरोक्षधीनयनः समुन्मूलिताशेषा-
विद्यावासनः चतुर्विपर्यासविवर्यस्तात्राणसत्त्वपरित्राणाय अविपरीतनिःस्वाभाव्योपदेशतत्परो बुद्धो
जगद्विबोधको महाकारुणिकः –
तन्मृषा मोषधर्म यद्भगवानित्यभाषत ।
सर्वे च मोषधर्माणः संस्कारास्तेन ते मृषा ॥ १ ॥
सूत्रे उक्तम्—तन्मृषा मोषधर्म यदिदं संस्कृतम् । एतद्धि खलु भिक्षवः परमं सत्यं
यदिदममोषधर्मं निर्वाणम् । सर्वसंस्काराश्च मृषा मोषधर्माणः इति । तथा – नास्यत्र तथतो
अवितथता वा । मोषधर्मकमप्येतत् । प्रलोपधर्मकमप्येतत् इति । तदनेन न्यायेन यन्मोधर्म
तन्मृषेत्येवं यस्मादुक्तवांस्तथागतो भगवान्, सर्वे च मोषधर्माणः संस्काराः, तस्मान्मोषधर्मकत्वेन
ते संस्कारा मृषा भवन्ति चित्रैकरयन्त्रदारिकावत्, लक्षणोपेतयन्त्रमयवारणवञ्चितोदयन-
वत्सराजवत् । तत्र विसंवादकं मोषधर्मकं वितथहत्यालातचक्रवत् । अतो निःस्वभावत्वेन मृषा
सर्वसंस्काराः मोषधर्मकत्वात् मरीचिकादिजलवत् । यत्तु सत्यं न तन्मोधर्मकम्, तथ्या निर्वाण-
मेकैम् । ततश्च विहितया उपपत्त्या अस्माचागमात् सिद्धं सर्वभावानां निःस्वाभाव्यम् । शून्याः
सर्वधर्मा निःस्वभावयोगेन इति च प्रज्ञापारमिता-अर्थशतिकापाठात् ॥ १ ॥
अत्राह – यद्येवं मोषधर्मकत्वेन सर्वसंस्काराणां मृषात्वं प्रतिपादितं भवता, नन्वेवं सति न
सन्ति सर्वे भावा इति सर्वपदार्थापवादिनी मिथ्यादृष्टिरेव स्यात् । उच्यते । सत्यं मोषधर्मकाः
सर्वसंस्काराः, येऽद्यापि भवन्तं मुष्णन्ति । ननु च भोः,
तन्मृषा मोषधर्म यद्यदि किं तत्र मुष्यते ।
यदा अस्माभिः तन्मृषा मोषधर्मकम् इत्युक्तम्, तदा किं तत्र मुष्यते ? किं तत्राभावो
भवति ? कश्चिद्यदि पदार्थोऽभविष्यत्, स्यात्तस्यापवादादभावदर्शनान्मिथ्यादृष्टिः । यदा तु पदार्थमेव
कांचन्न पश्यामः, तदा किं तत्र मुष्यते ? नैव किंचिदभावो भवतीत्ययुक्तोऽयमुपालम्भो भवतः ॥
अत्राह-यदि अभावदर्शनमपि न प्रतिपाद्यते, किं पुनरनेनागमेन प्रतिपाद्यत इति ? उच्यते-
एतच्चोक्तं भगवता शून्यतापरिदीपकम् ॥ २ ॥
यदेतदुक्तं भगवता, तन्न भावानामाभावपरिदीपकम् किं तर्हि शून्यतापरिदीपकम्
स्वभावानुत्पादपरिदीपकमित्यर्थः । यथोक्तमनवतप्तह्रदापसंक्रमणसूत्रे –
[Left Page Footnotes]
१. P तथता वा for तथता against Mss. and T. २. T विनाशधर्मकमेतत् ; Pप्रलाप° for प्रलोप°.
३. T om. चित्रकरयन्त्रदारिकावत्, लक्षणोपेतयन्त्रमयवारणवञ्चितोदयनवत्सराजवत्. ४. T om. एकम्.
[Right Page]
-१३.४ ] संस्कारपरीक्षा त्रयोदशमं प्रकरणम् । १०५
यः प्रत्ययैर्जायति स ह्यजातो
नो तस्य उत्पादु स्वभावतोऽस्ति ।
यः प्रत्ययाधीनु स शून्य उक्तो
यः शून्यतां जानति सोऽप्रमत्तः ॥
इति ॥ २ ॥
अत्राह – नायमागमो भावस्वभावानुत्पादं परिदीपयति, किं तर्हि निःस्वभावत्वम्, स्वभाव-
स्थानवस्थायित्वम्, विनाशित्वम्, इति । कुत एतदिति चेत्,
भावानां निःस्वभावत्वमन्यथाभावदर्शनात् ।
विचार्यमाणानामन्यथात्वं विपरिणामदर्शनात् इत्यर्थः । एतदुक्तं भवति – यदि भावानां
स्वभावो न स्यात्, तदानीं नैवैषामन्यथात्वमुपलभ्येत । उपलभ्यते च परिणामः । तस्मात्स्वभावानव-
स्थायित्वमेव सूत्रार्थ इति विज्ञेयम् ॥
इतश्चैतदेवम् । यस्मात् –
अस्वभावो भावो नास्ति भावानां शून्यता यतः ॥ ३ ॥
यो ह्यस्वभावो भावः, स नास्ति । भावानां च शून्यता धर्म इष्यते । न च असति धर्मिणि
तदाश्रितो धर्म उपपद्यते । न हि असति वन्ध्यातनये तच्छायामतीवोपपद्यत इति । तस्मादस्त्येव
भावानां स्वभाव इति ॥ ३ ॥
अपि च –
कस्य स्यादन्यथाभावः स्वभावश्चेन्न विद्यते ।
यदि भावानां स्वभावो न स्यात्, योऽयं विपरिणामलक्षणः अन्यथाभावः, स कस्य स्यादिति ?
अत्रोच्यते । एवमपि परिकल्प्यमाने
कस्य स्यादन्यथाभावः स्वभावो यदि विद्यते ॥ ४ ॥
इह यो धर्मो यं पदार्थं न व्यभिचरति, स तस्य स्वभाव इति व्यपदिश्यते, अप्रप्रति-
बद्धत्वात् । अग्नेरौष्ण्यं हि लोके तदव्यभिचारित्वात् स्वभाव इत्युच्यते । तदेव औष्ण्यमप्सूपलभ्यमानं
परप्रत्ययसंभूतत्वात्कृत्रिमत्वात्र स्वभाव इति । यदा चैवमव्यभिचारिणा स्वभावेन भवितव्यम्, तदा
अस्य अव्यभिचारित्वादन्धथाभावः स्यादभावः । न हि अग्नेिः शैत्यं प्रतिपद्यते । एवं भावानां
सति स्वभावानुपगमेऽन्यथात्वमेव न संभवेत् । उपलभ्यते चैषामन्यथात्वम् । अतो नास्ति
स्वभावः ॥ ४ ॥
अपि च । अयमन्यथाभावो भावानां नैव संभवति, यद्दर्शनात्सस्वभावता स्यात् । यथा च
न संभवति, तथा प्रतिपादयन्नाह –
[Right Page Footnotes]
१. T om. विचार्यमाणानां. २. Mss. निःस्वभावो. Our reading is supported by T.
३ Mss. wrongly नास्वभावश्च भावो नास्ति. Our text is supported by T and Com.
४ P अग्नेः for अनिः.
म. १४
पृष्ठम् १०६
१०६ मध्यमकशास्त्रे [१३.५-
तस्यैव नान्यथाभावो नाप्यन्यस्यैव युज्यते ।
युवा न जीर्यते यस्माद्यस्माज्जीर्णो न जीर्यते ॥ ५ ॥
तस्यैव तावत् प्रागवत् प्रागवस्थायां वर्तमानस्य भावस्यान्यथात्वं नोपपद्यते । तथा हि
यूनो युवावस्थायामेव वर्तमानस्य नास्ति अन्यथात्वम् । अथापि अवस्थान्तरप्राप्तस्यैव अन्यथात्वं
परिकल्प्यते, तदपि नोपपद्यते । अन्यथात्वं नाम जरायाः पर्यायः । तद्यदि यूनो नेष्यते,
अन्यस्यैव जीर्णस्य भवतीति, तदपि न युज्यते । यस्मान्न हि जीर्णस्य पुनर्जरया संबन्धः,
निष्प्रयोजनत्वात् । किं हि जीर्णस्य पुनर्जरया संबन्धः कुर्यात् ? तदागमनान्तरेण जीर्णताभावा-
ज्जीर्णो जीर्यत इति न युज्यते । अथ यून एवान्यथाभावः, तदयुक्तम्, अप्राप्तजरावस्थस्य
युवेति व्यपदेशात्, अवस्थाद्वयस्य च परस्परविरुद्धत्वात् ॥ ५ ॥
अपि च ।
तस्य चेदन्यथाभावः क्षीरमेव भवेद्दधि ।
अथ स्यात् — क्षीरावस्थापरित्यागेन दध्यवस्था भवति, अतः न क्षीरमेव दधि भवतीति ।
उच्यते । यदि क्षीरं दधि भवतीति नेष्यते परस्परविरोधात् —
क्षीरादन्यस्य कस्याथ दधिभावो भविष्यति ॥ ६ ॥
किमुदकस्य दधिभावो भवतु ? तस्मादसंबद्धमेव तदन्यस्य दधिभावो भविष्यतीति ।
तदेवमन्यथात्वासंभवात् कुतस्तद्दर्शनात् सस्वभावता भावानां प्रसेत्स्यतीति न युक्तमेतत् । यथोक्त-
मार्यरत्नाकरमहायानसूत्रे —
यो न पि जायति नो चुपपद्यी
नो च्यवते न पि जीर्यति धर्मः ।
तं जिनु दर्शयती नरसिंह
तत्र निदेशयि सत्त्व महर्षी ॥
यस्य स्वभाव न विद्यति कश्चि
नोऽपरभावतु केनचि लब्धः ।
नान्तरतो न पि बाहिरतो वा
लभ्यति तत्र निवेशयि नाथः ॥
शान्त गती कथिता सुगतेन
नो च गती उपपद्यति काचि ।
तत्र च व्योहरसी गतिमुक्तो
मुक्तकु मोचयसी बहुसत्त्वान् ॥
पादटिप्पणी:
१ T तदन्तरेण for तदागमनान्तरेण. २ P क्षीरादन्यस्य कस्यचिद् for क्षीरादन्यस्य कस्याथ which is supported by Mss. and T. ३ Mss. देशयति for दर्शयती. ४ T तत्र निवेशयि सत्त्वशतानि for the line. ५. P suggests उपलभ्यति for उपपद्यति.
पृष्ठम् १०७
[१३.७] संस्कारपरीक्षा त्रयोदशं प्रकरणम् । १०७
सर्वै वदेसि निरात्मक धर्मान्
सत्त्वँतु ग्राहतु मोचसि लोकम् ।
मुक्त स्वयं गतितो गतिमुक्तो
तेन सि पारगतो न च तीर्णः ॥
पारगतोऽसि भवार्णवतीर्णः
पारगतो न च लम्यति कश्चि ।
पारु न विद्यति नापि अपारु
पारगतोऽस्मि वदेसि च वाक्यम् ॥
वाच न विद्यति यां च वदेसि
यं पि वदेसि न विद्यति तं पि ।
यस्य वदेसि न विद्यति सोऽपि
योऽपि विजानति सोऽपि असन्तो ॥
तत्र प्रणष्टु जगं इमु सर्वं
वितथविकल्पनिवेशवशेन ।
शान्त विजानति यो नरु धर्मा-
स्तेहि तथागतु दृष्ट स्वयंभूः ॥
शान्त प्रजानति धर्मं प्रणीतान्
प्रीति स विन्दति तोषति सत्त्वान् ।
सो भवती जिनु ज्विलैन क्लेशान्
आत्म...................... ॥
तेन विजानित बोधि जिनानां
बुद्धिय बोधयते स जगं पि ।
इत्यादि ॥ ६ ॥
यच्चोक्तम् — अस्वभावो भावो नैवास्ति, शून्यता च भावानामिष्यते, तस्मादस्ति
शून्यताश्रयो भावस्वभाव इति, एतदपि न युज्यते इत्याह —
यद्यशून्यं भवेत्किंचित्स्याच्छून्यमिति किंचन ।
न किंचिदस्त्यशून्यं च कुतः शून्यं भविष्यति ॥ ७ ॥
यदि शून्यता नाम काचित् स्यात्, तदा तदाश्रयो भावस्वभावः स्यात् । न त्वेवम् ।
इह हि शून्यता नामेति सर्वधर्माणां सामान्यलक्षणमित्यभ्युपगमात् अशून्यधर्माभावादशून्यतैव
नास्ति । यदा च अशून्याः पदार्था न सन्ति, अशून्यता च नास्ति, तदा प्रतिपक्षनिरपेक्षत्वा-
पादटिप्पणी:
१. Mss. वदामि for वदेसि. २. Mss. सर्वतु but the sense and T suggest सत्त्वंतु (सत्त्वग्राहात्). ३. T लभ्यति for विद्यति. ४. Mss. ये न च for यो नरु. ५. Mss. ज्वित्व च for ज्विलैन.
च्छून्यतापि खपुष्पमालावान्नास्तीत्यवसीयताम् । यदा च शून्यता नास्ति, तदा तदाश्रया अपि
पदार्था न सन्तीति स्थितमविकलम् ॥ ७ ॥
अत्राह — त्रीणि विमोक्षमुखानि शून्यतानिमित्ताप्राणिहिताख्यानि विमुक्तये विनेयेभ्यो
भगवता निर्दिष्टानि सर्वतीर्थिकसमयासाधारणानि सौगत एव प्रवचने समुपलभ्यन्ते । येषामुप-
देशार्थमेव बुद्धा भगवन्तोऽशेषतीर्थ्यवादमहामोहान्धकारानुगतजगति जगदेकप्रदीपा नैरात्म्योप-
देशाविच्छिन्नशिखा उत्पद्यन्ते । स भवांस्तथागतप्रवचनन्यायस्यान्यायेन इदानीं तामेव शून्यतां
प्रतिषेधुमारब्धवान्, इत्यलं भवता स्वर्गापवर्गमार्गसमुच्छेदकेनेति । उच्यते । अहो बत भवानत्यु-
न्मुख इव अत्यन्तविपर्यासान्निर्वाणपुरगामिनं शिवमृजुं परमं पन्थानमवधूय भावाभिनिवेशव्या-
कुलितं संसारकान्तारानुगमेव मार्गं मोक्षपुरगामित्वेन समाश्रितो निर्गुर्मुक्षुः सन् संसारारटवीकान्तारः
सद्भिस्पालम्ब्य एव सन् अभिमानाभिनिवेशग्रहपरवशतया तानेवोपालभते । ननु भोः, निरवशेष-
क्लेशाव्याधिचिकित्सकैर्महावैद्यराजैः —
शून्यता सर्वदृष्टीनां प्रोक्ता निःसरणं जिनैः ।
येषां तु शून्यता दृष्टिसान्नासाध्यान् बभाषिरे ॥ ८ ॥
इह सर्वथैव दृष्टिकृतानां सर्वग्रहाभिनिवेशानां यन्निःसरणमप्रवृत्तिः सा शून्यता । न च
दृष्टिकृतानां निवृत्तिमात्रं भावः । ये तु तस्यामपि शून्यतायां भावाभिनिवेशिनः, तान् प्रति
अवाचका वयमिति कुतोऽस्मदुपदेशात् सकलकल्पनाव्यावृत्त्या मोक्षो भविष्यति ? यः नकिंचिदपि
ते पण्यं दास्यामीत्युक्तः, स चेत् 'देहि भोस्तदेव मह्यं नकिंचिन्नाम पण्यम्,' इति ब्रूयात्,
स केनोपायेन शक्यः पण्याभावं ग्राहयितुम् ? एवं येषां शून्यतायामपि भावाभिनिवेशः, केनेदानीं
स तेषां तस्यां भावाभिनिवेशो निषिध्यतामिति ? अतो महाभैषज्येऽपि दोषसंज्ञित्वात् परमचिकि-
त्सकैर्महावैद्यैस्तथागतैः प्रत्याख्याता एव ते । यथोक्तं भगवता आर्यरत्नकूटसूत्रे—
यन्न शून्यता धर्मान् शून्यान् करोति, अपि तु धर्मा एव शून्याः । यन्नानिमित्तेन
धर्माननिमित्तान् करोति, अपि तु धर्मा एवानिमित्ताः । यन्नाप्रणिहितेन धर्मानप्रणिहितान् करोति,
अपि तु धर्मा एवाप्रणिहिताः । यैवं प्रत्यवेक्षा, इयमुच्यते काश्यप मध्यमा प्रतिपद्धर्माणां
भूतप्रत्यवेक्षा । ये हि काश्यप शून्यतोपलम्भेन शून्यतां प्रतिसरन्ति, तानहं नष्टप्रणष्टानिति
वदामि ॥
इति प्रवचनात् ॥
तथा —
वरं खलु काश्यप सुमेरुमात्रा पुद्गलदृष्टिराश्रिता, न त्वेव अभावाभिनिवेशिकस्य शून्यता-
दृष्टिः । तत्कस्य हेतोः ? सर्वदृष्टिकृतानां हि काश्यप शून्यता निःसरणं। यस्य खलु पुनः
शून्यतैव दृष्टिः, तमहमचिकित्स्यमिति वदामि । तद्यथा काश्यप ग्लानः पुरुषः स्यात् । तस्मै
१ Mss. and P सर्वतीर्थिकामरमतासाधारणानि for सर्वतीर्थिकसमयासाधारणानि which is based
on T. २ T om. निर्गुमुक्षुः सन् संसारारटवीकान्तारः.
वैद्यो भैषज्यं दद्यात् । तस्य तद्भैषज्यं सर्वदोषानुच्चार्य स्वयं कोष्ठगतं न निःसरेत् । तत्किं मन्यसे
काश्यप अपि तु स पुरुषस्ततो ग्लान्यान्मुक्तो भवेत् ? नो हीदं भगवन् । गाढतरं तस्य पुरुषस्य
ग्लान्यं भवेत्, यस्य तद्भैषज्यं सर्वदोषानुच्चार्य कोष्ठगतं न निःसरेत् । भगवानाह—एवमेव काश्यप
सर्वदृष्टिकृतानां शून्यता निःसरणम् । यस्य खलु पुनः शून्यतैव दृष्टिः, तमहमचिकित्स्यमिति
वदामि ॥ इति ॥ ८ ॥
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ
संस्कारपरीक्षा नाम त्रयोदशमं प्रकरणम् ॥
१४
संसर्गपरीक्षा चतुर्दशमं प्रकरणम्।
अत्राह—अस्त्येव भावस्वभावः, तत्संसर्गोपदेशात्। इह यन्नास्ति, न तस्य संसर्गः, तद्यथा
वन्ध्यासुतदुहित्रोः। अस्ति च संस्काराणां संसर्गोपदेशः। चक्षुः प्रतीत्य रूपाणि चोत्पद्यते
चक्षुर्विज्ञानम्, त्रयाणां संनिपातः स्पर्शः, स्पर्शसहजा वेदनेति विस्तरः। तथा संज्ञा च वेदना
च संस्कृतावेतौ धर्मों नासंसृष्टाविति संस्काराणां संसर्गोपदेशः। तदेवं संसर्गोपदेशाद्विद्यत एव
भावस्वभाव इति। उच्यते। स्यादेतदेवम्, यदि संसर्ग एव भवेत्तो भवेत्, न त्वस्ति, यस्मात्—
द्रष्टव्यं दर्शनं द्रष्टा त्रीण्येतानि द्विशो द्विशः।
सर्वशश्च न संसर्गमन्योन्येन व्रजन्त्युत॥ १॥
तत्र द्रष्टव्यं रूपम्, दर्शनं चक्षुः, द्रष्टा विज्ञानम्। एषां त्रयाणां द्विशो द्विशः संसर्गो
नास्ति। चक्षुषो रूपस्य च, चक्षुषो विज्ञानस्य च, विज्ञानस्य रूपस्य च संसर्गो नास्ति।
इत्येवं द्विशो द्विशः संसर्गो न भवति। सर्वशोऽपि त्रयाणामप्येषां युगपच्च संसर्गो नास्ति॥ १॥
यथा च द्रष्टव्यदर्शनद्रष्टॄणां द्विशो द्विशः सर्वशश्च संसर्गाभावः,
एवं रागश्च रक्तश्च रञ्जनीयं च दृश्यताम्।
रागस्य रक्तस्य च संसर्गो नास्ति, रागस्य रञ्जनीयस्य च, त्रयाणामपि युगपत्संसर्गो
नास्ति। यथा चैषाम्, एवम्—
त्रैधेन शेषाः क्लेशाश्च शेषाण्यायतनानि च॥ २॥
अन्योन्येन संसर्गं न व्रजन्ति। त्रयः प्रकारास्त्रिधा, त्रिधाभावस्त्रैधम्। तेन त्रैधेन शेषाः क्लेशा
द्वेषमोहादयः, ते एते द्वेषद्विष्टद्वेषणीयादिना त्रैधेन श्रोत्रश्रोतुःश्रोतव्यादिना च॥ २॥
कस्मात्पुनरेतेषां संसर्गो नास्तीत्याह—
अन्येनान्यस्य संसर्गस्तच्चान्यत्वं न विद्यते।
द्रष्टव्यप्रभृतीनां यन्न संसर्गं व्रजन्त्यतः॥ ३॥
यदित्ययं यस्मादर्थे। यदि द्रष्टव्यादीनां परस्परमन्यत्वं स्यात्, तदा क्षीरोदकयोरिव अन्येन
अन्यस्य संसर्गः स्यात्। तच्चान्यत्वं यस्मादेषां द्रष्टव्यप्रभृतीनां न संभवति, अतो नैते संसर्गं
व्रजन्ति॥ ३॥
अपि च।
न च केवलमन्यत्वं द्रष्टव्यादेर्न विद्यते।
कस्यचित्केनचित्सार्धं नान्यत्वमुपपद्यते॥ ४॥
न च केवलं कार्यकारणभावस्थितानां द्रष्टव्यादीनामन्यत्वं न संभवति, घटपटादीनामपि
पदार्थानां सर्वेषां नैव संभवतीत्यवसीयताम्॥ ४॥
१ P. om. भवतो against Mss. २ Mss. रञ्नीयश्च for रञ्जनीयं च. ३ Mss. रागस्य रक्तस्य
रञ्जनीयस्य च, but it appears that we should add after: रागस्य रञ्जनीयस्य च.
-१४.६.] संसर्गपरीक्षा चतुर्दशमं प्रकरणम्। १११
यथा चैषां द्रष्टव्यप्रभृतीनां परस्परतोऽन्यत्वमसत्, तथा प्रतिपादयन्नाह—
अन्यदन्यत्प्रतीत्यान्यन्नान्यदन्यदृतेऽन्यतः।
यत्प्रतीत्य च यत्तस्मात्तदन्यन्नोपपद्यते॥ ५॥
इह यदेतद् घटाह्वयं वस्तु पटादन्यदिति व्यपदिश्यते, तदेतदन्यदन्यत्प्रतीत्य अन्यद्भवति।
अन्यवस्तुनः ऋते, ऋतेऽन्यतः, विना अन्यत्, अन्यदन्यन्न भवति। यच्च पटाख्यं वस्तु
अन्यद् घटाह्वयं वस्तु प्रतीत्य अन्यद्भवति, तस्मात्पटाख्याद्वस्तुनः तद् घटाह्वयं वस्तु नान्यद्भवती-
त्यवसीयताम्। यस्मात्, यत्प्रतीत्य यद्भवति, तस्मात्तदन्यन्न भवति, सापेक्षित्वाद् बीजाङ्कुरवत्
ह्रस्वदीर्घवच्चेति। तथा च वक्ष्यति—
प्रतीत्य यद्यद्भवति न हि तावत्तदेव तत्।
[L
११२ मध्यमशास्त्रे [ १४.७ -
अत्राह — यदि पदार्थान्तरे पदार्थान्तरसापेक्षा परबुद्धिः स्यात्, स्यादेष दोषः — तस्मात्तद्-
न्यन्न भवतीति। न त्वेवं ब्रूमः। किं तर्हि इह अन्यत्वं नाम सामान्यविशेषोऽस्ति, तच्चत्र समवेतम्,
स पदार्थः पदार्थान्तरनिरपेक्षोऽपि पर इत्युच्यते, तस्मादुक्तदोषानवसरोऽस्मत्पक्षे इति । उच्यते ।
स्यादेतदेवम्, यदि अन्यत्वमेव स्यात्, न त्वस्ति । इहेदमन्यत्वं कल्प्यमानमन्यस्मिन् वा कल्प्येत,
5 अनन्यस्मिन् वा ? उभयथा च नोपपद्यत इति प्रतिपादयन्नाह —
नान्यस्मिन् विद्यतेऽन्यत्वमनन्यस्मिन्न विद्यते ।
तत्र अन्यस्मिन्नन्यत्वमस्तीति कल्प्यते, किं तदानीमन्यत्वपरिकल्पनया ? अन्यव्यपदेश-
सिद्धयर्थं हि भवता अन्यत्वं परिकल्प्यते । स च अन्यव्यपदेशो विनाप्यन्यत्वेन सिद्ध एव, यस्मा-
ल्लब्धान्यव्यपदेश एव पदार्थेऽन्यस्मिन् अन्यत्वं कल्प्यते, इत्येवं तावदन्यस्मिन्नन्यत्वं न संभवति ।
10 इदानीमनन्यस्मिन्नपि अन्यत्वं नास्ति, यस्मादनन्य उच्यते एकः, तत्र च अन्यत्वविरुद्धमेकत्वमस्तीति ।
यतः विरोधादनन्यस्मिन्नपि अन्यत्वं न संभवति । यच्च इदानीं नान्यस्मिन्ननन्यस्मिन् विद्यते,
B 255 तद्व्यतिरिक्तस्य पदार्थन्तरस्यासंभवाद् एतद्व्यतिरिक्तेऽपि पदार्थे न संभवति, तन्नैवास्ति । यदा
चैवमन्यत्वमेव नास्ति, तदा अन्यत्वसमवायनिबन्धनः अन्यबुद्धिव्यनिवृत्तिहेतुरन्योऽपि पदार्थो
नास्तीति सिद्धम् ॥
15 अत्राह-यद्यपि अन्यत्वं नास्ति, तथापि अन्यस्तावदस्ति । न च असति अन्यत्वे अन्यो
भवितुमर्हति, अतोऽन्यत्वं भविष्यतीति । उच्यते —
अविद्यमाने चान्यत्वे नास्त्यन्यद्वा तदेव वा ॥ ७ ॥
यदा अन्यत्वमेव नास्तीति प्राक् प्रतिपादितम्, तदा कुतः असति अन्यत्वे अन्यद्वा
तदेव वा भविष्यति ? तदेवेति अनन्यत्वमित्यर्थः । तस्मान्नास्ति अन्यद्वा तदेव वा ॥ ७ ॥
20 अत्राह-विद्यन्त एव दर्शनादयः, संसर्गसद्भावात् । इह दर्शनादीनां यद्यपि अन्यत्वं
नास्तीति प्रतिपादितम्, तथापि त्रयाणां संनिपातः संगतिः स्पर्श इति संसर्गोऽस्ति । ततश्च
संसर्गसद्भावाद् विद्यन्त एव दर्शनादय इति । उच्यते । स्युरेवम्, यदि तेषां संसर्ग एव स्यात् ।
न त्वस्ति । यथा च नास्ति, तथा प्रतिपादयन्नाह-
न तेन तस्य संसर्गो नान्येनान्यस्य युज्यते ।
25 इह यदि दर्शनादीनां संसर्गः स्यात्, स एकत्वेन वा परिकल्प्येत अन्यत्वेन वा ? तत्र
एकत्वे नास्ति संसर्गः । न हि एकं क्षीरमुदकनिरपेक्षमुदकेन संसृज्यत इत्युच्यते । पृथक्त्वेऽपि
B 256 संसर्गो नास्ति । न हि उदकात्पृथगवस्थितं क्षीरमुदकेन संसृज्यत इति कथ्यते । एवं दर्शनादीनां
यदि एकत्वे सति संसर्गः परिकल्प्यते, सोऽनुपपन्नः । एककस्यापि चक्षुषः संसृष्टिप्रसङ्गात् ।
अथ पृथक्त्वम्, एवमप्यनुपपन्नः । एककस्यापि चक्षुषो रूपादिभ्यः पृथग्भूतस्य संसृष्टिप्रसङ्गात् ।
30 असति संसर्गे नास्ति दर्शनादिकमिति सिद्धम् ॥
अत्राह - यद्यपि संसर्गो नास्ति, तथापि संसृज्यमानं संसृष्टं संस्रष्टा चास्ति, तदप्रति-
षेधात् । न च संसर्गमन्तरेण संसृज्यमानं संसृष्टं संस्रष्टा च संभवति । तस्मात्संसर्गोऽपि भविष्य-
तीति । उच्यते । एतदपि न युक्तम् । यस्माद्यदा संसर्ग एव नास्तीति प्रतिपादितम्, असति च
-१४.८ ] संसर्गपरीक्षा चतुर्दशमं प्रकरणम् । ११३
संसर्गे तदा कुतः संसृज्यमानादिकम् ? तत्र वर्तमानसंसर्गक्रियासाधनकर्मभूतं संसृज्यमानम्,
संसृष्टं निष्पन्नसंसर्गक्रियम्, संस्रष्टा कर्ता क्रियानिष्पत्तौ स्वातन्त्र्येणावस्थितः । तदत्र संसर्गा-
भावादेव संसृज्यमानादिकमपरंयस्तत्प्रतिषेधं निगमयन्नाह —
संसृज्यमानं संसृष्टं संस्रष्टा च न विद्यते ॥ ८ ॥
इति । यथोक्तं भगवता [ उपालिपरिपृच्छायाम् ]
5 सर्वसद्योगि तु पश्यति चक्षु-
स्तन्न पश्यति प्रत्ययहीनम् ।
[ नैव च ] चक्षु पपश्यति [ रूपं ]
तेन संयोगवियोगविकल्पः ॥
10 आलोकसमाश्रित पश्यति चक्षु
रूप मनोरम चित्रविचित्रम् ।
येन च योगसमाश्रित चक्षु-
स्तेन न पश्यति चक्षु कदाचि ॥
B 257 ते परिनिर्वृत लौकिक शूरा
15 येहि स्वभावत ज्ञातिमि धर्माः ।
कामगुणैर्हि चरन्ति असङ्गाः
सङ्ग विवर्जिय सत्त्व विनेन्ति ॥
नो पि च सत्त्व न जीविह कश्चि
सत्त्वहितं च करोन्ति जिनेन्द्राः ।
20 १ ............................................
सत्त्वु न अस्ति करोन्ति च अर्थम् ॥
सङ्गु न विद्यति अत्र कदाचि
............................................
............................................
25 तस्य न विद्यति वेदन लोके ॥
तथा — B 258
भावितु मार्ग पवर्तिंतु ज्ञान
शून्यक धर्म निरात्मक सर्वं ।
येन विभावित भोन्तिमि धर्मा-
स्तस्य भवेत्प्रतिभानमनन्तम् ॥
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ
संसर्गपरीक्षा नाम चतुर्दशमं प्रकरणम् ॥
१ Mss. damaged.
म. १५
१५
स्वभावपरीक्षा पञ्चदशमं प्रकरणम् ।
अत्राह — विद्यत एव भावानां स्वभावः, तन्निष्पादकहेतुप्रत्ययोपादानात् । इह यन्नास्ति
न तस्य निष्पादकहेतुप्रत्ययोपादानमस्ति यथा खपुष्पस्य । उपादीयन्ते च बीजाविद्यादयो
हेतुप्रत्यया अङ्कुरसंस्कारादीनां निष्पादकाः, इत्यतो विद्यत एव भावस्वभाव इति । उच्यते ।
यदि भावानां संस्काराङ्कुरादीनां स्वभावोऽस्ति, किमिदानीं विद्यमानानां हेतुप्रत्ययैः प्रयोजनम् ?
यथा वर्तमानीभूतानां संस्काराङ्कुरादीनां भूयोनिष्पत्तये अविद्याबीजादीनामुपादानं क्रियते,
एवमन्यदपि तदुत्पत्तये नै कर्तव्यं स्यात्, तत्स्वभावस्य विद्यमानत्वादिति प्रतिपादयन्नाह —
न संभवः स्वभावस्य युक्तः प्रत्ययहेतुभिः ।
अथ स्यात् — नैवोत्पादात्पूर्वं कस्यचिद्भावस्य स्वभावोऽस्ति यतोऽस्य विद्यमानत्वादुत्पत्ति-
वैय्यर्थ्यं स्यात्, किं तर्हि उत्पादात्पूर्वमविद्यमानस्यैव स्वभावस्य हेतुप्रत्ययान् प्रतीत्य पश्चादुत्पादो
भवतीति । एवमपीष्यमाणे —
हेतुप्रत्ययसंभूतः स्वभावः कृतको भवेत् ॥ १ ॥
अथ स्यात् — इष्यत एव हेतुप्रत्ययसंभूतत्वात्स्वभावस्य कृतकत्वम्, तस्मात्कृतकस्यैव
स्वभावस्याभ्युपगमात् कृतकत्वप्रसङ्गो नास्माकं बाधक इति, एतदपि न युक्तमित्याह —
स्वभावः कृतको नाम भविष्यति पुनः कथम् ।
कृतकश्चेति स्वभावश्चेति परस्परविरुद्धत्वादसंगतार्थमेतत् । इह हि स्वो भावः स्वभाव इति
व्युत्पत्तेः, यः कृतकः पदार्थः, स लोके नैव स्वभाव इति व्यपदिश्यते, तद्यथा अपामौष्ण्यं
धातु॑पिशाचप्रत्ययनिष्पादितः कर्केतनादीनां पद्मरागादिभावश्च । यस्तु अकृतकः स स्वभावः,
तद्यथा अग्नेरौष्ण्यं जातानां पद्मरागादीनां पद्मरागादिस्वभावश्च । स हि तेषां पदार्थान्तर-
संपर्काजनितत्वात्स्वभाव इत्युच्यते । तदेवमकृतकः स्वभाव इति लोकव्यवहारे व्यवस्थिते वयमिदानीं
ब्रूमः—यदेतदौष्ण्यं तदग्नेः स्वभावो न भवतीति गृह्यतां कृतकत्वात्, इह मणीन्धननादित्य-
समागमादरणिंनिर्षर्षणादेश्च अग्नेर्हेतुप्रत्ययसापेक्षतैव उपलभ्यते । न च अग्निव्यतिरिक्तर्मौष्ण्यं
संभवति । तस्मादौष्ण्यमपि हेतुप्रत्ययजनितम्, ततश्च कृतकम्, कृतकत्वाच्चापामौष्ण्यवत्
स्वभावो नैव भवतीति स्फुटमवसीयते ॥
ननु च गोपालाङ्गनाजनप्रसिद्धमेतद् अग्नेरौष्ण्यं स्वभाव इति । किं खलु अस्माभिरुक्तं
न प्रसिद्धमिति ? एतत्तु वयं ब्रूमः—नायं स्वभावो भवितुमर्हति स्वभावलक्षणवियुक्तत्वात् ।
अविद्याविपर्यासानुगमात्तु लोको निःस्वभावमेव भावजातं सस्वभावत्वेन प्रतिपन्नः । यथा हि
पादटिप्पणी:
१ T. नोपादानौकर्तव्यं for न कर्तव्यं. २ T does not confirm the reading धातुपिशाचं. P's note misses the point as the extraordinary powers of some metal in bringing about a change in inferior stones to superior stones is indicated by the term पिशाच here.
-१५.२ ] स्वभावपरीक्षा पञ्चदशमं प्रकरणम् । ११५
तैमिरिकाः तिमिरप्रपञ्चादसन्तमेव केशादिस्वभावं सस्वभावत्वेनाभिनिविष्टाः, एवमविद्यातिमिरोप-
हतमतिनयनतया बाला निःस्वभावं भावजातं सस्वभावत्वेनाभिनिविष्टा यथाभिनिवेशं लक्षणामाचक्षते
अग्नेरौष्ण्यं स्वलक्षणम् । ततोऽन्यत्रानुपलम्भादसाधारणत्वेन स्वमेव लक्षणमिति कृत्वा ।
बालजनप्रसिद्धयैव च भगवता तदेवैषां संवृतं स्वरूपमभिधर्मे व्यवस्थापितम् । साधारणं
त्वनित्यत्वादिकं सामान्यलक्षणमिति चोक्तम् । यदा तु विगताविद्यातिमिरावदातप्रज्ञाचक्षुषां
दर्शनमपेक्ष्यते, तदा वितिमिरैः तैमिरिकोपलब्धकेशादर्शनवत् बालजनमतिपरिकल्पितानुपलब्ध-
स्वभावैरार्यैः पुर उच्यते परोहितव्यापारैः, नायं स्वभावो भावानामिति । यथोक्तमार्यलङ्कावतारसूत्रे—
केशोण्डुकं यथा मिथ्या गृह्यते तैमिरिकैर्जनैः ।
तथा भावविकल्पोऽयं मिथ्या बालैर्विकल्प्यते ॥
न स्वभावो न विज्ञप्तिर्न च वस्तु न चालयः ।
बालैर्विकल्पिता ह्येते शवभूतैः कुतार्किकैः ॥ इति ।
[ लङ्कावतारसूत्र-३०५१; १०.७९; ३.४८; १०.९ ]
तथा—
स्वभावानुत्पत्तिं संधाय महामते मया सर्वधर्मा अनुत्पन्ना इत्युक्ताः ॥ इति विस्तरः ॥
अत्राह — यदि खलु इदमग्न्यादेरौष्ण्यादिकं हेतुप्रत्ययसंभूतत्वेन कृतकत्वान्निःस्वभाव-
मित्युच्यते, किमिदानीं तत्स्वभावस्य लक्षणं कश्चासौ स्वभाव इति वक्तव्यम् । उच्यते—
अकृत्रिमः स्वभावो हि निरपेक्षः परत्र च ॥ २ ॥
इह स्वो भावः स्वभाव इति यस्य पदार्थस्य यदात्मीयं रूपं तत्तस्य स्वभाव इति
व्यपदिश्यते । किं च कस्यात्मीयं यद्यस्याकृत्रिमम्, यत्तु कृत्रिमं न तत्तस्यात्मीयं तद्यथा अपा-
मौष्ण्यम् । यच्च यस्यायत्तं तदपि तदात्मीयं तद्यथा स्वे भृत्याः, स्वानि धनानि । यत्तु यस्य
परायत्तं न तत्तस्यात्मीयं तद्यथा तावत्कालिकायाचितकमस्वत्तन्त्रम् । यतश्चैवं कृत्रिमस्य पर-
सापेक्षस्य च स्वभावत्वं नेष्टम्, अत एव औष्ण्यमग्नेर्हेतुप्रत्ययप्रतिबद्धत्वात्पूर्वमभूत्वा पश्चादुत्पादेन
कृतकत्वान्न स्वभाव इति युज्यते । यतश्चैतदेवम्, अतो यदेवाग्नेः कालत्रयेऽप्यव्यभिचारि निजं
रूपमकृत्रिमम्, पूर्वमभूत्वा पश्चाच्च न भवति, यच्च हेतुप्रत्ययसापेक्षं न भवति अपामौष्ण्यवत्
पारावारवत् दीर्घह्रस्ववद्वा, तत् स्वभाव इति व्यपदिश्यते । किं खलु अग्नेः तदित्थं स्वरूप-
मस्ति ? नैं तदस्ति, न चापि नास्ति स्वरूपतः । यद्यपि एवम्, तथापि श्रोतॄणामुत्रासपरि-
वर्जनार्थं संवृत्या समारोप्य तदस्तीति ब्रूमः । यथोक्तं भगवता—
अनक्षरस्य धर्मस्य श्रुतिः का देशना च का ।
श्रूयते देश्यते चापि समारोपादनक्षरः ॥ इति ।
[ ]
इहापि च वक्ष्यति —
पादटिप्पणी:
१ T om. परहितव्यापारैः. २ CT om. न तदस्ति.
[पृष्ठम् ११६]
११६ | मध्यमशास्त्रे | [१५. ३-
शून्यमिति न वक्तव्यमशून्यमिति वा भवेत्।
उभयं नोभयं चेति प्रज्ञप्त्यर्थं तु कथ्यते ॥
[मध्यमशास्त्र – २२-११]
यदि खलु तदव्यारोपाद्भावाङ्कुरस्तीत्युच्यते, कीदृशं तत् ? या सा धर्माणां धर्मता नाम, सैव
तत्स्वरूपम् । अथ केयं धर्माणां धर्मता ? धर्माणां स्वभावः। कोऽयं स्वभावः ? प्रकृतिः। का चेयं
[B 265] प्रकृतिः ? येयं शून्यता । केयं शून्यता ? नैःस्वाभाव्यम् । किमिदं नैःस्वाभाव्यम् ? तथता । केयं
तथता ? तथाभावोऽविकारित्वं सदैव स्थायिता । सर्वथानुपपाद एव ह्यग्न्यादीनां परनिरपेक्षत्वाद-
कृत्रिमत्वात्स्वभाव इत्युच्यते ॥
एतदुक्तं भवति — अविद्यातिमिरप्रभावोपलब्धं भावजातं येनात्मना विगताविद्यातिमिराणा-
मार्याणामदर्शनयोगेन विषयत्वमुपयाति, तदेव स्वरूपमेषां स्वभाव इति व्यवस्थाप्यते । तस्य
चेदं लक्षणम्—
अकृत्रिमः स्वभावो हि निरपेक्षः परत्र च ।
इति व्यवस्थापयांबभूवुराचार्या इति विज्ञेयम् । स चैष भावानामनुत्पादात्मकः स्वभावः
आकिंचित्कत्वेन अभावमात्रत्वादस्वभाव एवेति कृत्वा नास्ति भावस्वभाव इति विज्ञेयम्। यथोक्तं भगवता —
भावानाभावानिति यः प्रजानाति
स सर्वभावेषु न जातु सज्जते ।
यः सर्वभावेषु न जातु सज्जते
स आनिमित्तं स्पृशते समाधिम् ॥
इति ॥ २ ॥
अत्राह — यद्यपि स्वभावो नास्ति भावानाम्, तथापि परभावस्तावदस्ति, तदप्रतिषेधात्
सति च परभावे स्वभावोऽपि भविष्यति । स्वभावमन्तरेण परभावाप्रसिद्धेरिति । उच्यते —
कुतः स्वभावस्याभावे परभावो भविष्यति ।
स्वभावः परभावस्य परभावो हि कथ्यते ॥ ३ ॥
[B 266] इह स्वभाव एव हि लोके कश्चित्स्वभावान्तरापेक्षया पर इति व्यपदिश्यते । यदि हि
अग्नेरौष्ण्यं स्वभावः स्यात्, द्रवस्वभावसलिलापेक्षया परभाव इति व्यपदिश्येत । यदा तु
मुमुक्षुभिर्विचार्यमाणस्य कस्यचित्स्वभाव एव नास्ति, तदा कुतः परत्वं स्यात् ? परभावाच्च
स्वभावोऽपि नास्ति इति सिद्धम् ॥ ३ ॥
अत्राह — यद्यपि स्वभावपरभावौ न स्तः, तथापि भावस्तावदस्ति, अप्रतिषेधात् । स च
भावो भवन् स्वभावो वा भवेत्, परभावो वा । तस्मात्स्वभावपरभावावपि भविष्यत इति । उच्यते —
स्वभावपरभावाभ्यामृते भावः कुतः पुनः ।
स्वभावे परभावे वा सति भावो हि सिध्यति ॥ ४ ॥
१ Mss. and P सर्वदा for सर्वथा which it confirmed by T.
[पृष्ठम् ११७]
-१५.७] | स्वभावपरीक्षा पञ्चदशमं प्रकरणम्। | ११७
भावो हि परिकल्प्यमानः स्वभावो वा भवेत्, परभावो वा । तौ च पूर्वोक्तविधिना न
स्तः, इति तयोरभावाद्भावोऽपि नास्तीत्यवधार्यताम् ॥ ४ ॥
अत्राह — यद्यपि भवता भावः प्रतिषिद्धः, तथाप्यभावोऽस्ति, प्रतिषेधाभावात् । ततश्च
भावोऽपि भविष्यति प्रतिद्वन्द्विसद्भावात्, अभाववदिति । उच्यते । स्याद्भावः, यदि अभाव एव
स्यात् । न त्वस्तीत्याह —
भावस्य चेदप्रसिद्धिर्भावो नैव सिध्यति ।
भावस्य ह्यन्यथाभावमभावं ब्रुवते जनाः ॥ ५ ॥ [B 267]
इह हि यदि भावो नाम कश्चिदभविष्यत्, स्यात्तस्यान्यथाभावादभावः। घटादयो हि
वर्तमानावस्थायाः प्रच्युताः सन्तः अन्यथाभावमापन्नाः अभावध्वनिवाच्या भवन्ति लोके । यदा
त्वमी घटादयो भावरूपत्वेनैवासिद्धाः, तदा कुतोऽविद्यमानस्वभावानामन्यथात्वमिति । अतः
अभावोऽपि नास्ति ॥ ५ ॥
तदेवं सर्वथा स्वभावपरभावभावाभावेषु अनुपपद्यमानेषु अविद्यातिमिरोपहतमतिनयनतया
विपरीतम् —
स्वभावं परभावं च भावं चाभावमेव च ।
ये पश्यन्ति न पश्यन्ति ते तत्त्वं बुद्धशासने ॥ ६ ॥
ये हि तथागतप्रवचनाविपरीतव्याख्यानाभिमानितया पृथिव्याः काठिन्यं स्वभावः, वेदनाया
विषयानुभवः, विज्ञानस्य विषयप्रतिविज्ञप्तिः स्वभावः, इत्येवं स्वभावं भावानां वर्णयन्ति, अन्य-
द्विज्ञानम्, अन्यद्रूपम्, अन्यैव च वेदना, इत्येवं परभावं वर्णयन्ति, वर्तमानावस्थं च
विज्ञानादिकं भावत्वेन ये वर्णयन्ति, विज्ञानादिकमेव च अतीततामापन्नमभाव इति, न ते
परमगम्भीरस्य प्रतीत्यसमुत्पादस्य तत्त्वं वर्णयन्ति। यस्माद्यथोदितोपपत्तिविरुद्धं स्वभावपरभावादी-
नामस्तित्वम्, न चोपपत्तिविरुद्धं पदार्थस्वभावमनुवर्णयन्ति तथागताः। स्वयमविपरीताशेषपदार्थ-
तत्त्वसंबोधात् । अत एव बुद्धानामेव भगवतां वचनं प्रमाणमित्युपवर्णयन्ति विचक्षणाः, सोपपत्ति- [B 268]
कत्वेनाविसंवादकत्वात् । अत एव च आप्तेभ्यः प्रहीणाशेषदोषेभ्य आगतत्वात्, आगमयतीति [B 269]
समन्तात् तत्त्वं गमयतीति वा, आभिमुख्येनागमनाद्वा तदाश्रयेण लोकस्य निर्वाणगमनात्
संबुद्धवचनस्यैव आगमत्वं व्यवस्थाप्यते । तदन्यमतानां तु उपपत्तिवियुक्तत्वान्न प्रामाण्यम्,
आगमाभासत्वं च व्यवस्थाप्यते ॥ ६ ॥
यस्माच्च एतानि स्वभावपरभावभावाभावदर्शनानि युक्तिविधुरत्वान्न तत्त्वानि, अत एव
मुमुक्षूणां विनेयजनानाम् —
कात्यायनाववादे चास्तीति नास्तीति चोभयम् ।
प्रतिषिद्धं भगवता भावाभावविभाविना ॥ ७ ॥
उक्तं हि भगवता आर्यकात्यायनाववादसूत्रे —
"
Line 15:
"तथा —"
Line 16:
"अस्तीति नास्तीति उभेऽपि अन्ता"
Line 17:
"शुद्धी अशुद्धीति इमेऽपि अन्ता ।"
Line 18:
"तस्मादुभे अन्त विवर्जयित्वा"
Line 19:
"मध्येऽपि स्थानं न करोति पण्डितः ॥"
Line 20:
"अस्तीति नास्तीति विवाद एषः"
Line 21:
"शुद्धी अशुद्धीति अयं विवादः ।"
Line 22:
"विवादप्राप्त्या न दुःखं प्रशाम्यति"
Line 23:
"अविवादप्राप्त्या च दुःखं निरुध्यते ॥ इति ।"
Line 24:
"[ समाधिराजसूत्र — ९.२७-२८ ]"
Line 25:
"अत्राह — यदि पुनरेवमग्न्यादीनां स्वभावत एवास्तित्वं स्यात्, को दोषः स्यात् ?"
Line 26:
"उक्तदोषः —"
Line 27:
"हेतुप्रत्ययसंभूतः स्वभावः कृतको भवेत् ।"
Line 28:
"इत्यादिना ॥ ७ ॥"
Line 29:
"अपि च । यदि अयमेषामग्न्यादीना
[पृष्ठम् १२०]
१२० | मध्यमशास्त्रे | [ १५.११-
यत् स्वभावेन अस्तीत्युच्यते, स्वभावस्यानपायित्वान्न तत् कदाचिदपि नास्तीति, एवं
भावस्यास्तित्वाभ्युपगमे सति शाश्वतदर्शनापद्यते । पूर्वं च वर्तमानावस्थायां भावस्वरूपमभ्युपेत्य
इदानीं तन्निष्टत्वानास्तीति पश्चादभ्युपगच्छतः उच्छेददर्शनं प्रसज्यते । यस्य तु भावस्वभाव एव
नोपपद्यते, न तस्य शाश्वतोच्छेददर्शनप्रसङ्गः, भावस्वभावानुपलम्भात् ॥
ननु च भावानां स्वभावो नास्तीत्यभ्युपगच्छतो मा भूद्भावदर्शनाभावाच्छाश्वतदर्शनम्,
उच्छेददर्शनं तु नियतं प्रसज्यते इति । नैवमभावदर्शनं भवति । यो हि पूर्वं भावस्वभावमभ्युपेत्य
पश्चात् तन्निवृत्तिमालम्बते, तस्य पूर्वोपलब्धस्वभावापवादात् स्यादभावदर्शनम् । यस्तु
तैमिरिकोपलब्धकेशेष्विव वितैमिरिको न किंचिदुपलभते, स नास्तीति ब्रुवन् किंचिन्नास्तीति ब्रूयात्
प्रतिषेध्याभावात् । विपर्यस्तानां तु मिथ्याभिनिवेशनिवृत्त्यर्थमतैमिरिका इव वयं ब्रूमः — न सन्ति
सर्वभावाः इति । न चैवं ब्रुवतामस्माकं पराहितव्यापारपरायणानामुच्छेददर्शनप्रसङ्गः । यथोक्तं सूत्रे—
यो हि भगवन् पूर्वं रागद्वेषमोहाभावमभ्युपगमं कृत्वा पश्चान्न सन्ति रागद्वेषमोहाभावा इति
ब्रवीति, स भगवन् वै नास्तिको भवति । इति विस्तरः ॥
यस्तु परतन्त्रचित्तचैत्तवस्तुमात्रमभ्युपेत्य तस्य परिकल्पितस्वभावाभावादस्तित्वदर्शनं
परिहरति, संक्लेशव्यवदाननिबन्धनस्य च परतन्त्रवस्तुमात्रसद्भावान्नास्तित्वदर्शनं परिहरति,
तस्य परिकल्पितस्याविद्यमानत्वात् परतन्त्रस्य च विद्यमानत्वाद् अस्तित्त्वनास्तित्वदर्शनद्वयस्यापि
उपनिपातात् कुतोऽन्तद्वयपरिहारः ? हेतुप्रत्ययजनितस्य च सस्वभावेनायुक्तत्वप्रतिपादनाद्-
युक्तमेवास्य व्याख्यानम् । तदेवं मध्यमकदर्शने एव अस्तित्त्वनास्तित्वदर्शनद्वयस्याप्रसङ्गः, न
विज्ञानवादिदर्शनादिष्विति विज्ञेयम् । अत एवोक्तमार्यरत्ननावल्याम्—
ससांख्योल्लूक्यनिग्र्रन्थपुद्गलस्कन्धवादिनम् ।
पृच्छ लोकं यदि वदत्यस्तिनास्तित्वतिक्रमम् ॥
धर्मयौतकमित्यास्मादस्तिनास्तित्वतिक्रमम् ।
विद्धि गम्भीरमित्युक्तं बुद्धानां शासनामृतम् ॥ इति ॥
तथाविविनेयजनबोधनुरोधात्तु परमार्थदर्शनस्य उपायभूतत्वात् नेयार्थत्वेन भगवता
महाकरुणापरतन्त्रतया विज्ञानादिवादो देशितः सामितीयपुद्गलवादवत्, न नीतार्थः इति विज्ञेयम् ॥
यथोक्तमार्यसमाधिराजभट्टारके—
नीतार्थसूत्रान्तविशेष जानति
यथोपदिष्टा सुगतेन शून्यता ।
यस्मिन् पुनः पुद्गल सत्त्व पूरुषो
नेयार्थतो जानति सर्वधर्मान् ॥
[ समाधिराजसूत्र—७.५ ]
पाठान्तराणि टिप्पणी च :
१ Mss. नास्तीति for अस्तीति. 4. Our reading is confirmed by T.
२ Mss. corrupt. Text based on T and is reconstructed.
[पृष्ठम् १२१]
-१५.१० ] | स्वभावपरीक्षा पञ्चदशमं प्रकरणम् । | १२१
एतच्च आर्यक्षयमतिनिर्देशादिषु विस्तरेण बोद्धव्यमिति। भावाभावदर्शनद्वयप्रसङ्गो
यावत् तावत्संसार इत्यवेत्य मुमुक्षुभिरतद्दर्शनद्वयनिरसेन सद्भिर्मध्यमा प्रतिपद् भावनीया यथा-
वदिति। एतच्चोक्तं भगवता—
भाव अभाव विभावयि ज्ञानं
सर्व्वि अचिन्तिय सर्व्वि अमूतं ।
ये पुन चित्तवशानुग बालाः
ते दुखिता भवकोटिशतेषु ॥
भावांनभावानिति यः प्रजानाती
स सर्वभावेषु न जातु सज्जते।
यः सर्वभावेषु न जातु सज्जते
स आनिमित्तं स्पृशते समाधिम्॥ इति।
[ समाधिराजसूत्र - ३८.११ ]
तथा—
स्मराम्यहं पूर्वमतीत अध्वनि
अचिन्तिये कल्पि नराणमुत्तमः ।
उत्पन्नु लोकार्थकरो महर्षी
नामेन सोडभावसमुद्गतोऽभूत् ॥
स जातमात्रो गगने स्थितित्वा
सर्वीण धर्मांणभाव देशयि।
तदानुरूपं कृत नामधेयं
शब्देन सर्वं त्रिसहस्र विज्ञयी ॥
देवापि सर्वे प्रमुमोचु शब्दं
अभावनामेति जिनो भविष्यति ।
यो जातमात्रः पद सप्त प्रक्रमन्
अभाव धर्मार्ण समं प्रकाशयी ॥
बुद्धो यदा मेष्यति धर्मराजः
सर्वाण धर्मार्ण प्रकाशको मुनिः ।
तृणगुल्मवृक्षोषधिशैलपर्वते
अभाव धर्मार्ण रवो भविष्यति ॥
पाठान्तराणि टिप्पणी च :
१ T om. this stanza.
२ नाम्ना ह्यसौ for नामेन सो.
३ T कीर्तिं for विज्ञयी.
४ BTS धर्मार्ण ब्रवीति नायकः.
म. १६
पृष्ठम् १२२
१२२ मध्यमशास्त्रे [१५.१०-
यावन्ति शब्दास्तहि लोकधातौ
सर्व्वे ह्यभावा न हि कश्चि भावः ।
तावन्ति खो तस्य तथै¹गतस्य
रवु निश्चरी लोकविनायकस्य ॥ इति ।
[समाधिराजसूत्र- ८०१-५]
²भवतीति भावः सत्ता । न विद्यते सत्ता स्वभावः सर्वभावानामित्यभावाः सर्वधर्माः, शून्याः
सर्वधर्मा निःस्वभावयोगेनेति प्रज्ञापारमितापाठात् भावस्वभावस्यानुपपत्तेः ।
³अभाव धर्माण रवो भविष्यति
इत्यादिना सूत्रार्थोऽवगन्तव्यः ॥
[B 279] यावन्ति शब्दास्तहि लोकधातौ
सर्व्वे ह्यभावा न हि कश्चि भावः । इत्यादि ।
भूत्वा अभावप्रतिषेधविविक्षितत्वाद् भावाभावार्थ एव स्वभावाभावार्थः ॥
इत्याचार्यचन्द्रकीर्त्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ
स्वभावपरीक्षा नाम पञ्चदशमं प्रकरणम् ॥
१ T om. तथागतस्य. २ T om. from भवतीति up to पाठात्. ३ From अभाव down to स्वभावाभावार्थः, the text is reconstructed from T.
पृष्ठम् १२३
१६
बन्धमोक्षपरीक्षा षोडशमं प्रकरणम् ।
अत्राह—विद्यत एव भावानां स्वभावः, संसारसद्भावात् । इह संसरणं संसृतिः गतेर्गत्य- [B 280]
न्तरगमनं संसार इत्युच्यते । यदि भावानां स्वभावो न स्यात्, कस्य गतेर्गत्यन्तरगमनं संसारः
स्यात् ? न हि अविद्यमानानां वन्ध्यासूनुसंस्काराणां संसरणं दृष्टम् । तस्मात् संसारसद्भावात्
विद्यत एव भावानां स्वभाव इति । उच्यते । स्याद्भावानां स्वभावः, यदि संसार एव भवेत् ।
न त्वस्ति । इह यदि संसारः स्यात्, स नियतं संस्काराणां वा भवेत् सत्त्वस्य वा ? किं चातः ?
उभयथा च दोष इत्याह—
संस्काराः संसरन्ति चेन्न नित्याः संसरन्ति ते ।
संसरन्ति च नानित्याः सत्त्वेऽप्येष समः क्रमः ॥ १ ॥
तत्र यदि संस्काराः संसरन्तीति परिकल्प्यते, किं ते नित्याः संसरन्ति उत अनित्याः ?
तत्र न नित्याः संसरन्ति निष्क्रियत्वात्, अनित्यानां च घटादीनां सक्रियत्वोपलम्भात् । अथ
अनित्याः, ये हि अक्रियाः, ते उत्पादसमनन्तरमेव विनष्टाः । ये च विनष्टाः, कुतस्तेषामविद्यमान-
त्वाद्बन्ध्यासूनुसंस्काराणामिव कश्चिद् गमनम् ? इत्येवमनित्यानामपि नास्ति संसारः ॥ [B 281]
अथापि स्यात्—अनित्या एव सन्तो हेतुफलसंबन्धपरंपरया अविच्छिन्नक्रमाः संतानेन [B 282]
च प्रवर्त्तमानाः संस्काराः संसरन्तीति । एतदपि नोपपद्यते । कुतः ? यत् तावदुत्पद्यते कार्यम्,
तस्य संसारो नास्ति, कुतश्चिदनागमनात् कचिच्चागमनात् । यच्च कारणं नष्टम्, तस्यापि संसारो
नास्ति, कुतश्चिदनागमनात् कचिच्चागमनात् । संस्कारमात्रव्यतिरेकेण अतीतानागतयोरसिद्धत्वात्,
नष्टाजातत्वेन अविद्यमानत्वात्¹ ॥
उत्तरस्मिन् क्षणे उत्पन्ने पूर्वेः संसरतीति चेत्, यदि पूर्वोत्तरयोः क्षणयोरेकत्वं स्यात्,
स्यादेतदेवम् । न तु एकत्वमस्ति कार्यकारणभावात्, चक्षूरूपचक्षुर्विज्ञानानां नास्ति च । किं च
एकत्वे सति 'पूर्वोत्तरक्षणवाच्यतैव न स्यात् । न हि एको देवदत्तः एकदा पूर्वश्चोत्तरश्चेति व्यपदिश्यते ।
एवमिहापि एकत्वात् पूर्वोत्तरक्षणव्यपदेश एव न स्यात् । अपि च । पूर्वक्षणो नष्ट इति न
स्यादुत्तरक्षणवद्व्यतिरिक्तत्वात् । उत्तरक्षण उत्पन्न इति न स्यात्, पूर्वक्षणवद्व्यतिरिक्तत्वात् ।
अथ अन्यत्वे सति संसरणं स्यात्, एवं सति अर्हतामपि संसरणं स्यात् । अन्यस्य पृथग्जनस्य
संसारोत्पत्तिसद्भावात् । निर्वृत्तश्च प्रदीपः प्रदीपात्तरे ज्वलतीति स्यात् । किं चान्यत् ।
नष्टाद्वा पूर्वक्षणादुत्तरस्य क्षणस्योदयः स्यादनष्टाद्नश्यमानाद्वा ? तत्र यदि नष्टादिष्यते,
वह्निदग्धादपि बीजादङ्कुरोदयः स्यात्, ततश्च निर्हेतुकः स्यात् । अथ अनष्टात्,
एवमपि अविकृतेऽपि बीजेऽङ्कुरोदयः स्यात्, कार्यकारणयोश्च यौगपद्यं स्यात्, निर्हेतुक-
श्चोत्पादः स्यात् । नश्यमानादिति चेत् । नष्टानष्टव्यतिरेकेण नश्यमानाभावात्, नष्टानष्टयोश्च
१ After अविद्यमानत्वात् T adds च.
विहितदोषत्वात्प्रत्ययमानावपि नास्त्युत्पत्तिरिति, कुतः कार्यकारणव्यवस्था पूर्वोत्तरक्षणव्यवस्था
वा भविष्यति ? यदा च पूर्वोत्तरक्षणव्यवस्था कार्यकारणव्यवस्था चे नास्ति, तदा
संतानोऽपि नास्ति, तदभावान्नास्ति भवतां संसार इति अनित्यानामपि संस्काराणां नास्ति
संसार इति ॥
अत्रैकै वर्णयन्ति - सत्यं संस्कारा न संसरन्ति उत्पत्तिविधुरत्वात्, किं तर्हि सत्त्वः
संसरतीति । उच्यते । सर्व्वेऽप्येष समः क्रमः । सत्त्वः संसरतीत्युच्यमाने किमसौ नित्यः
संसरति, उत अनित्यः, इति विचार्यमाणे य एव संस्काराणां संसरणाद्यनुपपत्तिक्रमः, स
समैवात्सत्त्वेऽपि समो निपतात। तस्मात्सत्त्वोऽपि न संसरति ॥ १ ॥
अत्राह-नैव हि सत्त्वसंस्काराणां संसारानुपपत्तिक्रमः समो भवितुमर्हति, यस्मादिह
संस्काराणां नित्यानित्यभूतानां संसरणं नास्तीत्युक्तम् । न चैवमात्मा नित्यानित्यभूतः। तस्य हि
स्कन्धेभ्यस्तत्त्वान्यत्वार्वैक्तव्यतावत् नित्यत्वेनानित्यत्वेनाव्यक्तव्यता व्यवस्थायते । तस्मादात्मैव
संसरतीति न चोक्तदोषप्रसङ्ग इति । उच्यते -
पुद्गलः संसरति चेत्स्कन्धायतनधातुषु ।
पञ्चधा मृग्यमाणोऽसौ नास्ति कः संसरिष्यति ॥ २ ॥
यदि पुद्गलो नाम कश्चित् स्यात्, स संसरेत् । न त्वस्ति । यस्मात् स्कन्धायतनधातुषु
पञ्चधा मृग्यमाणो नास्ति । कथं कृत्वा ?
इन्धनं पुनरग्निर्न नाग्निरन्यत्र चेन्धनात् ।
नाग्निरिन्धनवानाग्नाविन्धनानि न तेषु सः ॥
[मध्यमकशास्त्र -१०.१४ ]
अग्नीन्धनाभ्यां व्याख्यात आत्मोपादानयोः क्रमः ॥
[मध्यमकशास्त्र -१०.१५ ]
इत्येवं स्कन्धायतनधातुस्वभाव आत्मा न भवति । नापि तेभ्यो व्यतिरिक्तः । न स्कन्धायतनधातु-
मान् । न स्कन्धायतनधातुष्वात्मा । नात्मनि स्कन्धायतनधातवः । इत्येवं पञ्चधा मृग्यमाण
आत्मा न संभवति पूर्वोदितेन न्यायेन । यश्चेदानीं स्कन्धायतनधातुष्वेवं विचार्यमाणः पञ्चधा
न संभवति, स कथमविद्यमानः सन् संसरिष्यतीति ? एवमात्मनोऽपि नास्ति संसारः, वन्ध्या-
सुतस्येव अविद्यमानत्वात् ॥ २ ॥
अपि च। अयमात्मा-
उपादानानुपादानं संसरन् विभवो भवेत् ।
विभवश्चानुपादानः कः स किं संसरिष्यति ॥ ३ ॥
१ Mss. om. च which is based on T. २ T om. भवतां. ३. T om. समत्वात्.
४ Mss. corrupt. Our text is based on T.
भवतु कामात्मनः संसारः, यदि अनुपादानस्य सतोऽस्य संसारो युक्तः स्यात् । कथं
पुनरस्य अनुपादानता प्रसज्यत इति प्रतिपादयन्नाह-
उपादानादुपादानं संसरन् विभवो भवेत् इति ।
इह हि मनुष्योपादानाद्देवोपादानं गच्छन् परित्यज्य वा मनुष्योपादानं देवोपादानं
गच्छेदपरित्यज्य वा ? यदि तावत्परित्यज्य गच्छतीत्युच्यते, तदा पूर्वोपादानस्य परित्यागादुत्तरस्य
चानुपादानात्तदन्तराले विभवः स्यात् । विगतो भवो विभवः । भवः पञ्चोपादानस्कन्धाः, तद्रहितः
स्यात् । यश्च विभवोऽनुपादानः, स स्कन्धरहितत्वात् प्रज्ञप्युपादानकारणरहितत्वान्निर्हेतुकः
स्यात् । यश्च अनुपादानो निरञ्जनोऽव्यक्तो निर्हेतुकः, कः सः ? न कश्चित् सः । नास्त्येव
स इत्यर्थः । तस्मिन्नसति तदभावादेव उपादानमपि निरूपादात्कं नास्तीति किं संसरिष्यति ?
नास्त्येव तत्, यत्संसरिष्यतीत्यर्थः । अथवा, किमित्येतत् संसरणक्रियाविशेषणम् । ततश्च
अविद्यमानत्वात् नैव संसरणक्रियां करिष्यति । एवं तावत्पूर्वोपादानपरित्यागेन संसरणमयुक्तम् ।
अथ अपरित्यज्यान, तथापि नोपपद्यते । किं कारणम् ? पूर्वस्यापरित्यागादुत्तरस्य च ग्रहणाद्
यस्मादेकस्यात्मनो द्वयात्मकता स्यात् । न चैतदिष्यत इति । तस्मादपरित्यागेनापि संसरणं नास्ति ॥
अथ पूर्वोत्तरयोर्भवयोर्मध्ये ऽन्तराभविकस्त्वभिसंबन्धात्, तैश्च सोपादानत्वात् सोपादानं
संसरतोऽपि न विभवताप्सङ्ग इति । तदपि न युक्तम्, पूर्वभवपरित्यागापरित्यागाभ्यामन्तरा-
भविकस्कन्धसंसारेऽपि तुल्यप्रसङ्गत्वात् ॥
युगपत्यागोपादानाद्दोष इति चेत्, उच्यते । किमेकदेशेन पूर्वोपादानं त्यजते
एकदेशेनान्तराभवोपादानं संचरति, अथ सर्वात्मना ? तत्र यदि अवयवेनेति परिकल्प्यते, तदा
द्वयात्मकताप्सङ्गादित्युक्तदोषः । अथ सर्वात्मना, एवमपि स एव विभवताप्रसङ्ग आपद्यते ।
एतावांस्तु विशेषः, यदन्तराभवसंचारेऽतिसामीप्यात् सूक्ष्मं कालमनुपादानः स्यात् । न च सर्वात्मना
एकस्य पदार्थस्य अभिन्नपदार्थस्य विषये युगपत् त्यागोपादाने दृष्टे । न हि एकस्य देवदत्तस्य
सर्वात्मना गृहाद्गृहं संचरतः एकदा त्यागोपादानक्रिये द्वे संभवतः । अथ एकेन पादेनं एकस्य
परित्यागादपरस्य चोपादानाद् युगपत्यागोपादाने परिकल्प्येते, ननु एवं सति पादद्वयवद्
द्वयात्मकता आत्मनः स्यात् । अंशेन पूर्वत्रावस्थानादंशेन चोत्तरत्रावस्थानादनेकावयवता प्रसज्येत ।
तस्माद् यौगपद्येनापि त्यागोपादाने न संभवतः इत्यपरिहार एवायम् । तस्मादन्तराभवोपादानेऽपि
स एव दोषप्रसङ्ग इति सर्वथा आत्मनोऽपि नास्ति संसारः ॥
यदा च संस्काराणामात्मनश्च संसारो नास्ति, तदा नास्त्येव संसार इति स्थितम् ॥ ३ ॥
अत्राह - विद्यत एव संसारः, प्रतिद्वन्द्विसद्भावात् । इह यो नास्ति, न तस्य प्रतिद्वन्द्वी
विद्यते, तथथा वन्ध्यासूनोरिति । अस्ति च संसारस्य प्रतिद्वन्द्वि निर्वाणम् । तस्मादस्ति संसार
इति । उच्यते । स्यात्संसारः, यदि तत्प्रतिद्वन्द्वि निर्वाणं स्यात् । न त्वस्तीत्याह-
१ Mss. अन्तराभविकं for आन्तरा०. २ Mss. अन्तराभवपर्युपादानस्य for अन्तराभवोपादानेऽपि
which is based on T.
[पृष्ठम् १२६]
१२६ मध्यमशास्त्रे [४ १६.-
संस्काराणां न निर्वाणं कथंचिदुपपद्यते ।
सत्त्वस्यापि न निर्वाणं कथंचिदुपपद्यते ॥ ४ ॥
यदि निर्वाणं नाम किंचित् स्यात्, तत् परिकल्प्यमानं संस्काराणां नित्यानां वा
परिकल्प्येत अनित्यानां वा ? तत्र नित्यानामविकारिणां किं निर्वाणं कुर्यात् ? अनित्यानामपि
असंविद्यमानानां किं निर्वाणं कुर्यादिति सर्वं पूर्वेण तुल्यम् । न कथंचिदिति न केनापि
प्रकारेणेत्यर्थः ॥
अथ सत्त्वस्य निर्वाणं परिकल्प्यते, तदपि नित्यस्य वा अनित्यस्य वा पूर्ववन्नोपपद्यते ॥
अथ नित्यानित्यत्वेनावाच्यस्य परिकल्प्यते, नन्वेवं सति निर्वाणेऽप्यात्मास्तीत्यभ्युपेतं
भवति संसार इव । अपि च । सोपादानस्यैवात्मनः अवाच्यता युज्यते । न च निर्वाणे उपादान-
मस्तीति कुतोऽस्य अवाच्यता ? भवतु वा तत्त्वान्यत्वावाच्यता आत्मनः, अपि तु किमसो निर्वाणेऽस्ति
उत नास्ति ? यदि अस्ति, तदा मोक्षेऽपि तस्य सद्भावान्नित्यता स्यात् । अथ नास्ति, तदा
अनित्य आत्मा स्यात् । ततश्च तत्त्वान्यत्वावाच्यतावन्नित्यानित्यत्वेनापि आत्मनः अवक्तव्यतेति
न स्यात् । अथ निर्वाणेऽपि आत्मनः अस्तित्वनास्तित्वेनावाच्यतैव इष्यते, एवमपि किमसौ
विज्ञेयः, अथ न ? यदि विज्ञेयः, न तर्हि निरुपादानोऽसावात्मा निर्वाणे विज्ञेयत्वात् संसार इव ।
अथ न विज्ञायते, तत्रासौ अविज्ञेयस्वरूपत्वात् खपुष्पवन्नास्त्येवेति कुतोऽस्य अवाच्यता ? तदेवं
निर्वाणमपि नास्ति । तदभावान्नास्ति संसार इति । अत एवोक्तं भगवत्यामष्टसाहस्रिकायाम्—
निर्वाणमप्यायुष्मन् सुभूते 'मायोपमं स्वप्नोपमम् । बुद्धधर्मा आयुष्मन् सुभूते मायोपमाः
स्वप्नोपमा इत्यादि । सचेत् कुलपुत्र निर्वाणादप्यधिकतरोऽन्यो धर्मोऽभविष्यत्, तमप्यहं मायोपमं
स्वप्नोपममिति वदामि ॥
[ अष्टसाहस्रिका - ४० ]
तथा आर्यसमाधिराजभट्टारके—
परमार्थसत्य सुपिनेन समं
निर्वाणं स्वप्नसमोधरतौ ।
मन एवमोतरति येन विदु
मनसंवरः कथितु श्रेष्ठु अयम् ॥
[ समाधिराजसूत्र - ३८.९१ ]
तथा—
निरोधसत्यं सुपिनं यथैव
स्वप्नस्वभावमथ निर्वृतिं च ।
येनेह वाचोत्तरि बोधिसत्त्वो
अयं खु सो वुच्चति वाचसंवरः ॥
[ समाधिराजसूत्र - ३८.७०]
१ Mss. मोक्ष तस्य for मोक्षेऽपि तस्य. Our text is based on T.
[पृष्ठम् १२७]
-१६. ६] बन्धमोक्षपरीक्षा षोडशं प्रकरणम् । १२७
अत्राह — यद्यपि त्वया संसारनिर्वाणे प्रतिषिद्धे, तथापि बन्धमोक्षौ विद्येते । न चाविद्य-
मानस्य भावस्वभावस्य बन्धमोक्षौ संभवतः । तस्माद् बन्धमोक्षसद्भावाद् विद्यत एव भावानां स्वभाव
इति । उच्यते । स्याद्भावानां स्वभावः, यदि बन्धमोक्षावेव स्याताम् । न तु स्तः इत्याह —
न बध्यन्ते न मुच्यन्ते उदयव्ययधर्मिणः ।
संस्काराः पूर्ववत्सत्त्वो बध्यते न न मुच्यते ॥ ५ ॥
इह य इमे रागादयः क्लेशाः बद्धानामस्वतन्त्रीकरणे बन्धनमिति व्यपदिश्यते, यैश्च बद्धाः
पृथग्जनाः त्रैधातुकं नातिक्रामन्तीति व्यवस्थाप्यते, तदेतद्रागादिकं बन्धनत्वेन परिकल्प्यमानमुदय-
व्ययधर्मिणां तावत् क्षणिकानां संस्काराणामुत्पादानन्तरवर्त्तिनां नष्टानामसत्त्वान्न संभवति ।
रागादिबन्धनविच्छेदलक्षणोऽपि मोक्षः अनित्यानां संस्काराणामविद्यमानत्वान्नैव संभवति । पूर्ववत्
पूर्वोक्त
tra that follows is omitted in T."
Poussin's edition: what did Poussin print?
Let's look at the reprint: this is the Vaidya edition (Buddhist Sanskrit Texts, No. 10, Darbhanga)!
P.L. Vaidya based his edition on Poussin's edition.
In Vaidya, page 129:
Line 15:
Wait, Poussin p. 296:
Let's check Vaidya's text:
"तस्मान्मुमुक्षुणा सर्वमेतत् परित्याज्यम् । यथोक्तं भगवता आर्य..."
Wait, what did Poussin have? In Poussin, MS had some corrupted name, maybe "आर्यतथागतमुष्टिसूत्रे"?
Wait, look at the Darbhanga edition font:
Let's zoom in very closely to line 15:
"तस्मान्मुमुक्षुणा सर्वमेतत् परित्याज्यम् । यथोक्तं भगवता आर्यत्यायित्तमुष्टिसूत्रे -"
Wait! Look at the letters:
- 'आ'
- 'र्य'
- 'त' with subscript 'य'? Or 'त्य'? No, it is 'त' + 'य' = 'त्य'?
Wait, look at the next letter: 'ा' = त्या?
Then 'यि'? A 'य' with an 'ि' on it: 'यि'.
प्रतिलीयते"? Look at line 7:
"चित्तं १ प्रतिलीयते" or "चित्तं प्रैतिलीयते"?
Ah! Look at line 7, above 'प्रै': there is a small '१' above 'प्र'!
Yes, it's a superscript 1: "चित्तं प्रतिलीयते १" or "चित्तं प्र१तिलीयते"!
Wait, let's check line 51:
"स्वप्रोपलब्धदहनज्वालानिर्वाणवत् तदनिलसल्लिलैरिति ॥ १० ॥"
Wait, is it स्वप्र or स्वप्न?
In the print, look at "स्वप्रोपलब्ध": it is spelled with 'प्र' or 'प्न'?
Look at the letter: 'स्व', then 'प्र' or 'प्न'? It looks like 'प्र'! But standard is स्वप्न. In many Sanskrit prints, 'प्न' looks like half-प + न, which sometimes gets typeset or misread as 'प्र', but let's look closely:
Is it 'प्न'? No, it has a diagonal slash across the stem of प: 'प्र'! "स्वप्रोपलब्ध..." Wait, let's look at line 14: "दृष्टाः", line 22: "विस्तरः". In line 51: "स्वप्रोपलब्ध" or "स्वप्नोपलब्ध"? Actually, looking at the loop: it is 'स्व', then 'प्' attached
Here is the complete, faithful line-by-line transcription of both pages.
[Left Page]
१७
B 302 कर्मफलपरीक्षा सप्तदशमं प्रकरणम् ।
अत्राह — विद्यत एव संसारः, कर्मफलसंबन्धाश्रयत्वात् । यदि इह संतानाविच्छेदक्रमेण
जन्ममरणपरंपरया$^१$ हेतुफलभावप्रवृत्त्या संस्काराणामात्मनो वा संसरणं स्यात्, स्यात्तदानीं कर्म-
फलसंबन्धः । यथावर्णित$^२$ संसाराभावे तु उत्पत्त्यनन्तरविनाशित्वाच्चित्तस्य $^३$कर्माक्षयकाले च
विपाकस्यासद्भावात् कर्मफलसंबन्धाभाव एव स्यात् । संसारसद्भावे तु सति इह कृतस्य कर्मणो
B 303 जन्मान्तरेऽपि विपाकफलसंबन्धात् कर्मणां फलसंबन्धो न विरोधितो भवति । तस्माद्विद्यत एव
संसारः कर्मफलसंबन्धाश्रयत्वादिति । कानि पुनस्तानि कर्माणि किं वा तत्फलमिति तत्प्रभेद-
विवक्षयेदमुच्यते—
[L10
-र्थः" -> प-रि-भो-ग-ा-न्व-य-म-ि-त्य-र्थः ॥
Wait, does it have an extra म? No, "परिभोगान्वयमित्यर्थः ।"
Then: "तद्यथा देवकुलादिप्रतिष्ठापनम्, यत्र"
Line 14:
सत्त्वा हन्यन्ते । यथा यथा हि तत्कीर्तौ प्राणिनो हन्यन्ते, तथा तथा तद्देवकुलाद्युपभोगात् तत्कर्तॄणां
Wait, "तत्कीर्तौ" or "तत्तीर्थे"?
Look at line 14:
"य-था य-था हि त-त्की-र्त्तौ" or "त-त्ती-र्थे"?
Wait! देवकुलादिप्रतिष्ठापनम् यत्र सत्त्वा हन्यन्ते।
Is it तत्कीर्तौ? त-त्की-र्त्तौ: त, त्की with ī-kāra, r-repha, au-kāra?
Wait, look at the letters:
त (ta)
त्की (tkī) or त्ती (ttī)?
It has an upper horizontal stroke: त्ती! Then र्थे!
Wait, is it "तत्तीर्थे" (tat-tīrthe)?
Look at the top: it has a repha and an e-kāra or au-kāra?
Wait, look at line
पृष्ठम् १३६
तदत्र यथोदितकर्मप्रभेदव्याख्याने दश कुशलाः कर्मपथा व्याख्याताः । ते च —
धर्मस्य साधनोपायाः शुक्लाः कर्मपथा दश ।
फलं कामगुणाः पञ्च धर्मस्य प्रेत्य चेह च ॥ ११ ॥
त एते दश कुशलाः कर्मपथा धर्मस्य साधनोपाया निष्पत्तिहेतुभूता इत्यर्थः ॥
कः पुनरसौ कुशलकर्मपथव्यतिरिक्तो धर्मो नाम, यस्यैते साधनोपायत्वेन व्यवस्थाप्यन्ते ?
उच्यते । चित्तविशेष एव कश्चित् धर्मशब्देनोक्तः ॥
आत्मसंयमकं चेतः परानुग्राहकं च यत् ।
मैत्रं स धर्मः
[ मध्यमकशास्त्र-१७.१ ]
इत्यनेन । अथवा । परिनिष्ठितरूपा एते दश कुशलाः कर्मपथा धर्मशब्दवाच्या भवन्ति,
क्रियमाणरूपास्तु कुशलकर्मपथवाच्या भवन्ति । तदस्य उक्तलक्षणस्य एते दश कुशलाः कर्मपथा
निष्पत्तौ हेतुत्वेन व्यवस्थाप्यन्ते । कथं पुनरत्र प्रक्रान्ते कर्मविभागे दश कुशलाः कर्मपथा इति ?
उच्यते —
वाग्विष्पन्दोऽविरतयो याश्चाविज्ञप्तिसंज्ञिताः ।
[ मध्यमकशास्त्र-१७.४ ]
इत्यादिना कायिकास्त्रयः कर्मपथाः वाचिकाश्चत्वारो व्याख्याताः । चेतना चेत्यनेन अभिध्यायपाद-
सम्यग्दृष्ट्याख्यास्त्रयो मानसा व्याख्याताः । इत्येवं दशापि कुशलाः कर्मपथा अत्र व्याख्याताः । ते
च यथोदितस्य धर्मस्य निष्पत्तिहेतवो भवन्ति । अस्य च धर्मस्य रूपशब्दगन्धरसस्प्रष्टव्यलक्षणाः
पञ्च कामगुणाः । प्रेत्य च अदृष्टे परलोके इत्यर्थः, इह चेति इहलोके इत्यर्थः, फलमुपभुज्यते
इति ॥ ११ ॥
एवं तावदेकनिकायिकैराक्षेपपरिहारे वर्णिते सति, तान् प्रति अपरे दोषमुद्भाव्य
अन्याक्षेपपरिहारं वर्णयन्तः आहुः —
बहवश्च महान्तश्च दोषाः स्युरपि कल्पना ।
यद्येषा तेन नैवैषा कल्पनात्रोपपद्यते ॥ १२ ॥
यदि बीजाङ्कुरसाधर्म्येण चित्तसंताने शाश्वतोच्छेददर्शनद्वयदोषप्रसङ्गपरिहारः स्यात्, तदा
बहवश्च दोषाः संख्याबहुत्वेन महान्तश्च दृष्टादृष्टविरोधेन परपक्षे प्राप्नुवन्ति । कथं कृत्वा ?
यदि हि बीजसंतानदृष्टान्तेन शालिबीजात् शाल्यङ्कुरादिसंतान एव प्रवर्त्तते, न विजातीयः,
शाल्यङ्कुरादिसंतानाच्च शालिफलमेव उपजायते, न बिल्वफलम्, भिन्नजातीयत्वात्, एवमिहापि
कुशलचित्तात् कुशलचित्तसंतान एव स्यात्, समानजातीयत्वात्, न अकुशलव्यावृत्तचित्त-
संतानः, विजातीयत्वात् । एवमकुशलव्यावृत्तचित्तादकुशलव्यावृत्तचित्तसंतान एव स्यान्नान्यः,
भिन्नजातीयत्वात् । कामरूपारूप्यावचरानास्रवचित्तेभ्यः सदृशानामेव चित्तानां कामरूपारूप्याव-
पादटिप्पण्यः :
१. T अनभिध्या° for अभिध्या°. २. Mss. कुशलसंतानः for कुशलचित्तसंतान which reading is confirmed by T. ३. Mss. and T om. °चित्त.°
पृष्ठम् १३७
चरानास्रवाणामुत्पादः स्यात्, न भिन्नजातीयानाम् । मनुष्यचित्तान्मनुष्यचित्तमेव स्यान्न
देवनारकतिर्यगाद्यन्यचित्तम् । ततश्च यो देवः स देव एव स्यात्, यो मनुष्यः स मनुष्य एव
स्यादित्यादि । ततश्च अकुशलमपि कुर्वतां देवमनुष्याणां गतियोनिवृत्तिबुद्धीन्द्रियबलरूपभोगादि-
वैचित्र्यं न स्यादपायपतनं च । इष्यते चैतत्सर्वमिति । एवं बहवश्च महान्तश्च दोषा यस्माद्बीज-
संतानसाधर्म्यकल्पनायां प्रसज्यन्ते, तस्मान्नैषा कल्पना अत्रोपपद्यते ॥ १२ ॥
इमां पुनः प्रवक्ष्यामि कल्पनां यात्र योज्यते ।
बुद्धैः प्रत्येकबुद्धैश्च श्रावकैश्चानुवर्णिताम् ॥ १३ ॥
का चासौ कल्पनेत्याह —
पत्रं यथाविप्रणाशस्तथर्णमिव कर्म च ।
चतुर्विधो धातुतः स प्रकृत्याव्याकृतश्च सः ॥ १४ ॥
इह कुशलं कर्म कृतं सत् उत्पादनन्तरमेव निरुध्यते, न च तस्मिन्निरुद्धे फलाभावप्रसङ्गः ।
यस्माद् यदैव तत्कर्म उत्पद्यते, तदा एतस्य कर्मणोऽविप्रणाशो नाम विप्रयुक्तो धर्मः कर्तुः संताने
समुपजायते ऋणपत्रस्थानीयः । तदेवं पत्रं यथा अविप्रणाशः तथा वेदितव्यः । यस्य च असौ
अविप्रणाशाख्यो धर्म उत्पद्यते, ऋणमिव तत्कर्म वेदितव्यम् । यथा च ऋणपत्रव्यवस्थानात्
प्रयुक्तेऽपि धने धनिनो न धननाशो भवति, संबध्यत एव स कालान्तरेण पञ्चमेन धनस्कन्धेन,
तथा विनष्टेऽपि कर्मणि अविप्रणाशाख्यधर्मान्तरावस्थानात् तन्निमित्तेकेन फलेन अभिसंबध्यत एव
कर्ता । यथा च ऋणपत्रं दातुर्धनाभ्यागमं कृत्वा निर्भुक्तं सत् पुनरपि विद्यमानं वा अविद्यमानं वा
न धनाभ्यागमे समर्थम्, एवमविप्रणाशोऽपि दत्तविपाकः सन् विद्यमानो वा अविद्यमानो वा न
शक्नोति निर्भुक्तपत्रवत् कर्तुः पुनरपि विपाकसंबंधं कर्तुम् ॥
यश्चायमविप्रणाशोऽस्माभिरुक्तः सूत्रान्तरोक्तः, चतुर्विधो धातुतः स कामरूपारूप्यावचराना-
स्रवभेदात्, प्रकृत्या अव्याकृतश्च सः । कुशलाकुशलत्वेन अव्याकरणादव्याकृत एवाविप्रणाशः ।
यदि असौ अकुशलानां कर्मणामकुशलः स्यात्, तदा कामं वीतरागाणां न स्यात् । यदि च
कुशलानाम्, कुशलः स्यात्, समुच्छिन्नकुशलमूलानां स न स्यात् । तस्मात् प्रकृत्यव्याकृत
एवासौ ॥ १४ ॥
किं च ।
प्रहाणतो न प्रहेयो भावनाहेय एव वा ।
स चायमविप्रणाशः प्रहाणतो न प्रहेयः । पार्थग्जनकानि कर्माणि दर्शनमार्गेणैव
प्रहीयन्ते मा भूदार्यः पृथग्जनकर्मसमन्वागत इति । अविप्रणाशस्तु तत्कर्मप्रहाणेऽपि दर्शनमार्गेण
न प्रहीयते, किं तु भावनामार्गेण वा तस्या प्रहाणं भवति । धातुसमतिक्रमणप्रहेय एवेति
वाशब्दो विकल्पार्थः ॥
यतश्चैवमविप्रणाशः कर्मविनाशेऽपि न नश्यति, कर्मप्रहाणेऽपि न प्रहीयते,
तस्मादविप्रणाशेन जायते कर्मणां फलम् ॥ १५ ॥
पादटिप्पण्यः :
१. T om. पञ्चमेन.
म. १८
An accurate line-by-line transcription of the provided Sanskrit text:
[Left Page]
१३८ मध्यमशास्त्रे [ १७.१६ -
यदि पुनरपि अस्य अविप्रणाशस्य कर्मणः प्रहाणेन प्रहाणात्प्रहाणतः प्रहाणं स्यात्,
कर्मणश्च संक्रमेण कर्मणो विनाशेन कर्मान्तरसंमुखीभावेन विनाशः स्यात्, को दोषः
स्यादिति ? उच्यते-
प्रहाणतः प्रहेयः स्यात्कर्मणः संक्रमेण वा ।
यदि दोषाः प्रसज्येरंस्तत्र कर्मवधादयः ॥ १६ ॥
B 321 यदि दर्शनमार्गेण पार्थग्जनिककर्मवदविप्रणाशः प्रहीयेत, तदा कर्मणो विनाश एव
स्यात् । कर्मविनाशाच्च आर्याणामिष्टानिष्टकर्मफलविपाकः पूर्वकर्मफलहेतुको न स्यात् । अकृत-
स्यैव कर्मणः फलोदयः स्यात् । कर्मफलाभावदर्शनाच्च मिथ्यादर्शनं स्यादिति । एवं कर्मवधादयो
दोषाः प्रसज्यन्ते प्रहाणतः प्रहेयत्वमभ्युपगमे सति अविप्रणाशस्य
पृष्ठम् १५०
अकृताभ्यागमभयं स्यात्कर्माकृतकं यदि ।
अब्रह्मचर्यवासश्च दोषस्तत्र प्रसज्यते ॥ २३ ॥
यदि हि अकृतं कर्म भवेत्, तदा अकृताभ्यागमभयं स्यात् । येनापि हि प्राणातिपाता-
दिकं न कृतम्, तस्यापि अकृतमपि सत् तत् कर्म अस्त्येवेति तेनाप्यस्य संबन्धादकृताभ्या-
गमभयं स्यात् । अब्रह्मचर्यवासश्च तत्र पक्षे प्राप्नोति । किं कारणम् ? परिशुद्धब्रह्मचर्यवासान्न
कस्यचिन्निर्वाणेन भवितव्यं स्यात् ॥ २३ ॥
किं चातः ?
व्यवहारा विरुध्यन्ते सर्व एव न संशयः ।
पुण्यपापकृतोर्नैव प्रविभागत्व युज्यते ॥ २४ ॥
ये हि एते कृषिवाणिज्यागोरक्षादयः क्रियारम्भाः फलार्थमारभ्यन्ते, तेषां सर्वेषामकृतानामेव
विद्यमानत्वात् प्रारम्भवैयर्थ्यं स्यात् । घटं कुरु, पटं कुरु, इत्येवमादयश्च सर्व एव लौकिकव्यवहारा
विरुध्यन्ते, घटादीनां सर्वेषामेव विद्यमानत्वात् । पुण्यकृदयम्, पापकृदयम्, इति च प्रविभागो
न प्राप्नोति, उभयोरपि पुण्यपापकृतोः अकृतयोरपि पुण्यपापयोः प्रत्येकं विद्यमानत्वात् ॥ २४ ॥
किं च —
तद्विपक्वविपाकं च पुनरेव विपेक्ष्यति ।
कर्म व्यवस्थितं यस्मात्तस्मात्स्वाभाविकं यदि ॥ २५ ॥
विपकविपाकस्यापि कर्मणः पुनर्विपाकदानमापद्यते स्वरूपादप्रच्युतत्वात्, अविपक्व-
विपाकावस्थायामिव । तदेवं यदि कर्म स्वाभाविकमिति मन्यसे, यस्मात् तत्कर्म व्यवस्थितमस्ति,
तस्मान्निःसंशयं यथोपावर्णिता दोषाः प्राप्नुवन्ति सस्वभावत्वे । तस्मान्निःस्वभावं कर्म, यतश्च निःस्वभावं
कर्म, तस्माच्छाश्वतोच्छेददर्शनप्रसङ्गो नैवास्माकमेवं व्याचक्षाणानामापद्यते इति ॥ २५ ॥
अत्राह — विद्यत एव स्वभावतः कर्म, तत्कारणसद्भावात् । यह नास्ति, न तस्य
कारणमस्ति [कूर्म] रोमकूपप्रावारस्येव । अस्ति च कर्मणः कारणं क्लेशाः । अविद्याप्रत्ययाः
संस्काराः, ....उपादानप्रत्ययो भवः, इति वचनात् । तस्माद्विद्यत एव कर्म स्वभावतः इति ।
उच्यते । अयुक्तमेव । किं कारणम् ? यस्मात्—
कर्म क्लेशात्मकं चेदं ते च क्लेशा न तत्त्वतः ।
न चेत्ते तत्त्वतः क्लेशाः कर्म स्यात्तत्त्वतः कथम् ॥ २६ ॥
इहेदं कर्म क्लेशात्मकं क्लेशहेतुकम् । ते च क्लेशास्तत्त्वतो न सन्ति । वक्ष्यति हि —
शुभाशुभविपर्यासान् संभवन्ति प्रतीत्य ये ।
ते स्वभावात्र विद्यन्ते तस्मात्क्लेशा न तत्त्वतः ॥ इति ।
[ मध्यमकशास्त्र — २३.२ ]
तदेवं तावत् न तत्त्वतः क्लेशाः, तद्धेतुकं कर्म तदानीं कुतस्तत्त्वतो भविष्यति ?
तस्मान्नास्ति कर्म स्वभावतः ॥ २६ ॥
१. Mss. क्लेशा यदतत्त्वहेतुकं for क्लेशाः, तद्धेतुकं which is confirmed by T.
पृष्ठम् १५१
अत्राह — विद्यन्त एव क्लेशाः कर्माणि च, तत्कार्यसद्भावात् । इह हि क्लेशकर्मणां
देहाख्यं कार्यमुपलभ्यते । यस्य च कार्यमुपलभ्यते तदस्ति, अविद्यमानस्य खपुष्पादेः कार्यादर्शनात्
इति । उच्यते । स्युः क्लेशाः कर्माणि च, यदि तत्कार्ये देहा विद्येरन् । न तु विद्यन्ते इत्याह —
कर्म क्लेशाश्च देहानां प्रत्ययाः समुदाहृताः ।
कर्म क्लेशाश्च ते शून्या यदि देहेषु का कथा ॥ २७ ॥
यथा कर्म क्लेशाश्च शून्याः, तथा प्रतिपादितम् । ततश्च कर्म क्लेशा यदा न सन्ति,
तदा तत्कार्याणां देहानामसत्त्वे का कथा भविष्यति ? नास्तित्वं तेषां पूर्वमेव सिद्धं यस्मात् ,
तस्मान्नात्र कश्चिद्वक्तव्यविशेषोऽस्तीत्यभिप्रायः ॥ २७ ॥
अत्राह — विद्यत एव स्वभावतः कर्म, तत्फलभोक्तृसद्भावात् । यन्नास्ति, न तस्य
फलोपभोक्तास्ति, तद्यथा गगनच्युतफलस्येति । अस्ति च कर्मणः फलोपभोक्ता —
अविद्यानिवृतो जन्तुस्तृष्णासंयोजनश्च सः ।
स भोक्ता स च न कर्तुरन्यो न च स एव सः ॥ २८ ॥
तत्र अविद्या अज्ञानं तमः संमोह इति पर्यायाः । अविद्यया निवृत्तःच्छादितः । पाञ्चगतिक-
संसारे पुनः पुनर्ज्ञायत इति जन्तुः । सत्त्वः पुद्गलः प्राणीति तस्यैव पर्यायाः । तृष्णा रागः
सक्तिरभिसक्तिरिति पर्यायाः । संयोजनं बन्धनम् । तृष्णा संयोजनमस्येति तृष्णासंयोजनः तृष्णाबन्धन
इत्यर्थः । यथोक्तं सूत्रे – अविद्यानिवृताः सत्त्वास्तृष्णासंयोजनाः इति । अथ च पुनरिदं पापं कर्म
स्वयमेव कृतम्, अस्य स्वयमेव विपाकः प्रत्यनुभवितव्यः इति वचनात् । स च भोक्ता
कर्मफलस्य । स च न कर्तुरन्यः, न च स एव सः । तत्त्वान्यत्वावाच्यत्वात् । तस्मात्
फलोपभोक्तृसद्भावादस्त्येव कर्मेति ॥ २८ ॥
अत्रोच्यते — स्यात्कर्मणः कर्ता कर्मफलस्य चोपभोक्ता यदि कर्मैव स्यात् । न त्वस्ति ।
कथं कृत्वा ?
न प्रत्ययसमुत्पन्नं नाप्रत्ययसमुत्थितम् ।
अस्ति यस्मादिदं कर्म तस्मात्कर्तापि नास्त्यतः ॥ २९ ॥
कर्म चेन्नास्ति कर्ता च कुतः स्यात्कर्मजं फलम् ।
असत्यथ फले भोक्ता कुत एव भविष्यति ॥ ३० ॥
यदि कर्म नाम किंचित्स्यात् , तत् प्रत्ययसमुत्पन्नं वा भवेत्, अप्रत्ययसमुत्पन्नं वा ? यदि
तावत् प्रत्ययसमुत्पन्नमिष्यते, तन्न युक्तम्, प्रत्ययपरीक्षायामुक्तदोषत्वात् । अथ अप्रत्ययजनितं
निर्हेतुकम्, तदपि – हेतावसति कार्यं च कारणं च [म० शा० ८.४] इत्यादिना कर्मकारकपरीक्षायां
विस्तरेण प्रतिपादितम् । यतश्चैवं प्रत्ययसमुत्पन्नं वा अप्रत्ययसमुत्पन्नं वा कर्मेदं न संभवति,
तस्मादस्य कर्मणः कर्तापि न संभवति । यदा चैवं कर्म च कर्ता च नास्ति, तदा निर्हेतुकं
कर्मजं फलं कुतो भविष्यतीति, असति च फले कुत एव फलभोक्ता भविष्यतीति, सर्वमेतत्
स्वभावतोऽसंविद्यमानमेवेति विज्ञेयम् ॥