सामग्री पर जाएँ
सर्वकोश
मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)

मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)

Mulamadhyamakakarika of Nagarjuna with Prasannapada Commentary

आचार्य नागार्जुन (टीकाकार: आचार्य चन्द्रकीर्ति) द्वारा

DevanagariSanskritpublished176 पृष्ठ

पृष्ठ 85, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 85

पृष्ठम् १५०

अकृताभ्यागमभयं स्यात्कर्माकृतकं यदि ।
अब्रह्मचर्यवासश्च दोषस्तत्र प्रसज्यते ॥ २३ ॥
यदि हि अकृतं कर्म भवेत्, तदा अकृताभ्यागमभयं स्यात् । येनापि हि प्राणातिपाता-
दिकं न कृतम्, तस्यापि अकृतमपि सत् तत् कर्म अस्त्येवेति तेनाप्यस्य संबन्धादकृताभ्या-
गमभयं स्यात् । अब्रह्मचर्यवासश्च तत्र पक्षे प्राप्नोति । किं कारणम् ? परिशुद्धब्रह्मचर्यवासान्न
कस्यचिन्निर्वाणेन भवितव्यं स्यात् ॥ २३ ॥
किं चातः ?
व्यवहारा विरुध्यन्ते सर्व एव न संशयः ।
पुण्यपापकृतोर्नैव प्रविभागत्व युज्यते ॥ २४ ॥
ये हि एते कृषिवाणिज्यागोरक्षादयः क्रियारम्भाः फलार्थमारभ्यन्ते, तेषां सर्वेषामकृतानामेव
विद्यमानत्वात् प्रारम्भवैयर्थ्यं स्यात् । घटं कुरु, पटं कुरु, इत्येवमादयश्च सर्व एव लौकिकव्यवहारा
विरुध्यन्ते, घटादीनां सर्वेषामेव विद्यमानत्वात् । पुण्यकृदयम्, पापकृदयम्, इति च प्रविभागो
न प्राप्नोति, उभयोरपि पुण्यपापकृतोः अकृतयोरपि पुण्यपापयोः प्रत्येकं विद्यमानत्वात् ॥ २४ ॥
किं च —
तद्विपक्वविपाकं च पुनरेव विपेक्ष्यति ।
कर्म व्यवस्थितं यस्मात्तस्मात्स्वाभाविकं यदि ॥ २५ ॥
विपकविपाकस्यापि कर्मणः पुनर्विपाकदानमापद्यते स्वरूपादप्रच्युतत्वात्, अविपक्व-
विपाकावस्थायामिव । तदेवं यदि कर्म स्वाभाविकमिति मन्यसे, यस्मात् तत्कर्म व्यवस्थितमस्ति,
तस्मान्निःसंशयं यथोपावर्णिता दोषाः प्राप्नुवन्ति सस्वभावत्वे । तस्मान्निःस्वभावं कर्म, यतश्च निःस्वभावं
कर्म, तस्माच्छाश्वतोच्छेददर्शनप्रसङ्गो नैवास्माकमेवं व्याचक्षाणानामापद्यते इति ॥ २५ ॥
अत्राह — विद्यत एव स्वभावतः कर्म, तत्कारणसद्भावात् । यह नास्ति, न तस्य
कारणमस्ति [कूर्म] रोमकूपप्रावारस्येव । अस्ति च कर्मणः कारणं क्लेशाः । अविद्याप्रत्ययाः
संस्काराः, ....उपादानप्रत्ययो भवः, इति वचनात् । तस्माद्विद्यत एव कर्म स्वभावतः इति ।
उच्यते । अयुक्तमेव । किं कारणम् ? यस्मात्—
कर्म क्लेशात्मकं चेदं ते च क्लेशा न तत्त्वतः ।
न चेत्ते तत्त्वतः क्लेशाः कर्म स्यात्तत्त्वतः कथम् ॥ २६ ॥
इहेदं कर्म क्लेशात्मकं क्लेशहेतुकम् । ते च क्लेशास्तत्त्वतो न सन्ति । वक्ष्यति हि —
शुभाशुभविपर्यासान् संभवन्ति प्रतीत्य ये ।
ते स्वभावात्र विद्यन्ते तस्मात्क्लेशा न तत्त्वतः ॥ इति ।
[ मध्यमकशास्त्र — २३.२ ]
तदेवं तावत् न तत्त्वतः क्लेशाः, तद्धेतुकं कर्म तदानीं कुतस्तत्त्वतो भविष्यति ?
तस्मान्नास्ति कर्म स्वभावतः ॥ २६ ॥


१. Mss. क्लेशा यदतत्त्वहेतुकं for क्लेशाः, तद्धेतुकं which is confirmed by T.


पृष्ठम् १५१

अत्राह — विद्यन्त एव क्लेशाः कर्माणि च, तत्कार्यसद्भावात् । इह हि क्लेशकर्मणां
देहाख्यं कार्यमुपलभ्यते । यस्य च कार्यमुपलभ्यते तदस्ति, अविद्यमानस्य खपुष्पादेः कार्यादर्शनात्
इति । उच्यते । स्युः क्लेशाः कर्माणि च, यदि तत्कार्ये देहा विद्येरन् । न तु विद्यन्ते इत्याह —
कर्म क्लेशाश्च देहानां प्रत्ययाः समुदाहृताः ।
कर्म क्लेशाश्च ते शून्या यदि देहेषु का कथा ॥ २७ ॥
यथा कर्म क्लेशाश्च शून्याः, तथा प्रतिपादितम् । ततश्च कर्म क्लेशा यदा न सन्ति,
तदा तत्कार्याणां देहानामसत्त्वे का कथा भविष्यति ? नास्तित्वं तेषां पूर्वमेव सिद्धं यस्मात् ,
तस्मान्नात्र कश्चिद्वक्तव्यविशेषोऽस्तीत्यभिप्रायः ॥ २७ ॥
अत्राह — विद्यत एव स्वभावतः कर्म, तत्फलभोक्तृसद्भावात् । यन्नास्ति, न तस्य
फलोपभोक्तास्ति, तद्यथा गगनच्युतफलस्येति । अस्ति च कर्मणः फलोपभोक्ता —
अविद्यानिवृतो जन्तुस्तृष्णासंयोजनश्च सः ।
स भोक्ता स च न कर्तुरन्यो न च स एव सः ॥ २८ ॥
तत्र अविद्या अज्ञानं तमः संमोह इति पर्यायाः । अविद्यया निवृत्तःच्छादितः । पाञ्चगतिक-
संसारे पुनः पुनर्ज्ञायत इति जन्तुः । सत्त्वः पुद्गलः प्राणीति तस्यैव पर्यायाः । तृष्णा रागः
सक्तिरभिसक्तिरिति पर्यायाः । संयोजनं बन्धनम् । तृष्णा संयोजनमस्येति तृष्णासंयोजनः तृष्णाबन्धन
इत्यर्थः । यथोक्तं सूत्रे – अविद्यानिवृताः सत्त्वास्तृष्णासंयोजनाः इति । अथ च पुनरिदं पापं कर्म
स्वयमेव कृतम्, अस्य स्वयमेव विपाकः प्रत्यनुभवितव्यः इति वचनात् । स च भोक्ता
कर्मफलस्य । स च न कर्तुरन्यः, न च स एव सः । तत्त्वान्यत्वावाच्यत्वात् । तस्मात्
फलोपभोक्तृसद्भावादस्त्येव कर्मेति ॥ २८ ॥
अत्रोच्यते — स्यात्कर्मणः कर्ता कर्मफलस्य चोपभोक्ता यदि कर्मैव स्यात् । न त्वस्ति ।
कथं कृत्वा ?
न प्रत्ययसमुत्पन्नं नाप्रत्ययसमुत्थितम् ।
अस्ति यस्मादिदं कर्म तस्मात्कर्तापि नास्त्यतः ॥ २९ ॥
कर्म चेन्नास्ति कर्ता च कुतः स्यात्कर्मजं फलम् ।
असत्यथ फले भोक्ता कुत एव भविष्यति ॥ ३० ॥
यदि कर्म नाम किंचित्स्यात् , तत् प्रत्ययसमुत्पन्नं वा भवेत्, अप्रत्ययसमुत्पन्नं वा ? यदि
तावत् प्रत्ययसमुत्पन्नमिष्यते, तन्न युक्तम्, प्रत्ययपरीक्षायामुक्तदोषत्वात् । अथ अप्रत्ययजनितं
निर्हेतुकम्, तदपि – हेतावसति कार्यं च कारणं च [म० शा० ८.४] इत्यादिना कर्मकारकपरीक्षायां
विस्तरेण प्रतिपादितम् । यतश्चैवं प्रत्ययसमुत्पन्नं वा अप्रत्ययसमुत्पन्नं वा कर्मेदं न संभवति,
तस्मादस्य कर्मणः कर्तापि न संभवति । यदा चैवं कर्म च कर्ता च नास्ति, तदा निर्हेतुकं
कर्मजं फलं कुतो भविष्यतीति, असति च फले कुत एव फलभोक्ता भविष्यतीति, सर्वमेतत्
स्वभावतोऽसंविद्यमानमेवेति विज्ञेयम् ॥