सामग्री पर जाएँ
सर्वकोश
मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)

मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)

Mulamadhyamakakarika of Nagarjuna with Prasannapada Commentary

आचार्य नागार्जुन (टीकाकार: आचार्य चन्द्रकीर्ति) द्वारा

DevanagariSanskritpublished176 पृष्ठ

पृष्ठ 72, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 72

१५

स्वभावपरीक्षा पञ्चदशमं प्रकरणम् ।

अत्राह — विद्यत एव भावानां स्वभावः, तन्निष्पादकहेतुप्रत्ययोपादानात् । इह यन्नास्ति
न तस्य निष्पादकहेतुप्रत्ययोपादानमस्ति यथा खपुष्पस्य । उपादीयन्ते च बीजाविद्यादयो
हेतुप्रत्यया अङ्कुरसंस्कारादीनां निष्पादकाः, इत्यतो विद्यत एव भावस्वभाव इति । उच्यते ।
यदि भावानां संस्काराङ्कुरादीनां स्वभावोऽस्ति, किमिदानीं विद्यमानानां हेतुप्रत्ययैः प्रयोजनम् ?
यथा वर्तमानीभूतानां संस्काराङ्कुरादीनां भूयोनिष्पत्तये अविद्याबीजादीनामुपादानं क्रियते,
एवमन्यदपि तदुत्पत्तये नै कर्तव्यं स्यात्, तत्स्वभावस्य विद्यमानत्वादिति प्रतिपादयन्नाह —
न संभवः स्वभावस्य युक्तः प्रत्ययहेतुभिः ।
अथ स्यात् — नैवोत्पादात्पूर्वं कस्यचिद्भावस्य स्वभावोऽस्ति यतोऽस्य विद्यमानत्वादुत्पत्ति-
वैय्यर्थ्यं स्यात्, किं तर्हि उत्पादात्पूर्वमविद्यमानस्यैव स्वभावस्य हेतुप्रत्ययान् प्रतीत्य पश्चादुत्पादो
भवतीति । एवमपीष्यमाणे —
हेतुप्रत्ययसंभूतः स्वभावः कृतको भवेत् ॥ १ ॥
अथ स्यात् — इष्यत एव हेतुप्रत्ययसंभूतत्वात्स्वभावस्य कृतकत्वम्, तस्मात्कृतकस्यैव
स्वभावस्याभ्युपगमात् कृतकत्वप्रसङ्गो नास्माकं बाधक इति, एतदपि न युक्तमित्याह —
स्वभावः कृतको नाम भविष्यति पुनः कथम् ।
कृतकश्चेति स्वभावश्चेति परस्परविरुद्धत्वादसंगतार्थमेतत् । इह हि स्वो भावः स्वभाव इति
व्युत्पत्तेः, यः कृतकः पदार्थः, स लोके नैव स्वभाव इति व्यपदिश्यते, तद्यथा अपामौष्ण्यं
धातु॑पिशाचप्रत्ययनिष्पादितः कर्केतनादीनां पद्मरागादिभावश्च । यस्तु अकृतकः स स्वभावः,
तद्यथा अग्नेरौष्ण्यं जातानां पद्मरागादीनां पद्मरागादिस्वभावश्च । स हि तेषां पदार्थान्तर-
संपर्काजनितत्वात्स्वभाव इत्युच्यते । तदेवमकृतकः स्वभाव इति लोकव्यवहारे व्यवस्थिते वयमिदानीं
ब्रूमः—यदेतदौष्ण्यं तदग्नेः स्वभावो न भवतीति गृह्यतां कृतकत्वात्, इह मणीन्धननादित्य-
समागमादरणिंनिर्षर्षणादेश्च अग्नेर्हेतुप्रत्ययसापेक्षतैव उपलभ्यते । न च अग्निव्यतिरिक्तर्मौष्ण्यं
संभवति । तस्मादौष्ण्यमपि हेतुप्रत्ययजनितम्, ततश्च कृतकम्, कृतकत्वाच्चापामौष्ण्यवत्
स्वभावो नैव भवतीति स्फुटमवसीयते ॥
ननु च गोपालाङ्गनाजनप्रसिद्धमेतद् अग्नेरौष्ण्यं स्वभाव इति । किं खलु अस्माभिरुक्तं
न प्रसिद्धमिति ? एतत्तु वयं ब्रूमः—नायं स्वभावो भवितुमर्हति स्वभावलक्षणवियुक्तत्वात् ।
अविद्याविपर्यासानुगमात्तु लोको निःस्वभावमेव भावजातं सस्वभावत्वेन प्रतिपन्नः । यथा हि


पादटिप्पणी:
१ T. नोपादानौकर्तव्यं for न कर्तव्यं. २ T does not confirm the reading धातुपिशाचं. P's note misses the point as the extraordinary powers of some metal in bringing about a change in inferior stones to superior stones is indicated by the term पिशाच here.


-१५.२ ] स्वभावपरीक्षा पञ्चदशमं प्रकरणम् । ११५

तैमिरिकाः तिमिरप्रपञ्चादसन्तमेव केशादिस्वभावं सस्वभावत्वेनाभिनिविष्टाः, एवमविद्यातिमिरोप-
हतमतिनयनतया बाला निःस्वभावं भावजातं सस्वभावत्वेनाभिनिविष्टा यथाभिनिवेशं लक्षणामाचक्षते
अग्नेरौष्ण्यं स्वलक्षणम् । ततोऽन्यत्रानुपलम्भादसाधारणत्वेन स्वमेव लक्षणमिति कृत्वा ।
बालजनप्रसिद्धयैव च भगवता तदेवैषां संवृतं स्वरूपमभिधर्मे व्यवस्थापितम् । साधारणं
त्वनित्यत्वादिकं सामान्यलक्षणमिति चोक्तम् । यदा तु विगताविद्यातिमिरावदातप्रज्ञाचक्षुषां
दर्शनमपेक्ष्यते, तदा वितिमिरैः तैमिरिकोपलब्धकेशादर्शनवत् बालजनमतिपरिकल्पितानुपलब्ध-
स्वभावैरार्यैः पुर उच्यते परोहितव्यापारैः, नायं स्वभावो भावानामिति । यथोक्तमार्यलङ्कावतारसूत्रे—
केशोण्डुकं यथा मिथ्या गृह्यते तैमिरिकैर्जनैः ।
तथा भावविकल्पोऽयं मिथ्या बालैर्विकल्प्यते ॥
न स्वभावो न विज्ञप्तिर्न च वस्तु न चालयः ।
बालैर्विकल्पिता ह्येते शवभूतैः कुतार्किकैः ॥ इति ।
[ लङ्कावतारसूत्र-३०५१; १०.७९; ३.४८; १०.९ ]
तथा—
स्वभावानुत्पत्तिं संधाय महामते मया सर्वधर्मा अनुत्पन्ना इत्युक्ताः ॥ इति विस्तरः ॥
अत्राह — यदि खलु इदमग्न्यादेरौष्ण्यादिकं हेतुप्रत्ययसंभूतत्वेन कृतकत्वान्निःस्वभाव-
मित्युच्यते, किमिदानीं तत्स्वभावस्य लक्षणं कश्चासौ स्वभाव इति वक्तव्यम् । उच्यते—
अकृत्रिमः स्वभावो हि निरपेक्षः परत्र च ॥ २ ॥
इह स्वो भावः स्वभाव इति यस्य पदार्थस्य यदात्मीयं रूपं तत्तस्य स्वभाव इति
व्यपदिश्यते । किं च कस्यात्मीयं यद्यस्याकृत्रिमम्, यत्तु कृत्रिमं न तत्तस्यात्मीयं तद्यथा अपा-
मौष्ण्यम् । यच्च यस्यायत्तं तदपि तदात्मीयं तद्यथा स्वे भृत्याः, स्वानि धनानि । यत्तु यस्य
परायत्तं न तत्तस्यात्मीयं तद्यथा तावत्कालिकायाचितकमस्वत्तन्त्रम् । यतश्चैवं कृत्रिमस्य पर-
सापेक्षस्य च स्वभावत्वं नेष्टम्, अत एव औष्ण्यमग्नेर्हेतुप्रत्ययप्रतिबद्धत्वात्पूर्वमभूत्वा पश्चादुत्पादेन
कृतकत्वान्न स्वभाव इति युज्यते । यतश्चैतदेवम्, अतो यदेवाग्नेः कालत्रयेऽप्यव्यभिचारि निजं
रूपमकृत्रिमम्, पूर्वमभूत्वा पश्चाच्च न भवति, यच्च हेतुप्रत्ययसापेक्षं न भवति अपामौष्ण्यवत्
पारावारवत् दीर्घह्रस्ववद्वा, तत् स्वभाव इति व्यपदिश्यते । किं खलु अग्नेः तदित्थं स्वरूप-
मस्ति ? नैं तदस्ति, न चापि नास्ति स्वरूपतः । यद्यपि एवम्, तथापि श्रोतॄणामुत्रासपरि-
वर्जनार्थं संवृत्या समारोप्य तदस्तीति ब्रूमः । यथोक्तं भगवता—
अनक्षरस्य धर्मस्य श्रुतिः का देशना च का ।
श्रूयते देश्यते चापि समारोपादनक्षरः ॥ इति ।
[ ]
इहापि च वक्ष्यति —


पादटिप्पणी:
१ T om. परहितव्यापारैः. २ CT om. न तदस्ति.