सामग्री पर जाएँ
सर्वकोश
मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)

मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)

Mulamadhyamakakarika of Nagarjuna with Prasannapada Commentary

आचार्य नागार्जुन (टीकाकार: आचार्य चन्द्रकीर्ति) द्वारा

DevanagariSanskritpublished176 पृष्ठ

पृष्ठ 78, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 78

[पृष्ठम् १२६]

१२६ मध्यमशास्त्रे [४ १६.-
संस्काराणां न निर्वाणं कथंचिदुपपद्यते ।
सत्त्वस्यापि न निर्वाणं कथंचिदुपपद्यते ॥ ४ ॥
यदि निर्वाणं नाम किंचित् स्यात्, तत् परिकल्प्यमानं संस्काराणां नित्यानां वा
परिकल्प्येत अनित्यानां वा ? तत्र नित्यानामविकारिणां किं निर्वाणं कुर्यात् ? अनित्यानामपि
असंविद्यमानानां किं निर्वाणं कुर्यादिति सर्वं पूर्वेण तुल्यम् । न कथंचिदिति न केनापि
प्रकारेणेत्यर्थः ॥
अथ सत्त्वस्य निर्वाणं परिकल्प्यते, तदपि नित्यस्य वा अनित्यस्य वा पूर्ववन्नोपपद्यते ॥
अथ नित्यानित्यत्वेनावाच्यस्य परिकल्प्यते, नन्वेवं सति निर्वाणेऽप्यात्मास्तीत्यभ्युपेतं
भवति संसार इव । अपि च । सोपादानस्यैवात्मनः अवाच्यता युज्यते । न च निर्वाणे उपादान-
मस्तीति कुतोऽस्य अवाच्यता ? भवतु वा तत्त्वान्यत्वावाच्यता आत्मनः, अपि तु किमसो निर्वाणेऽस्ति
उत नास्ति ? यदि अस्ति, तदा मोक्षेऽपि तस्य सद्भावान्नित्यता स्यात् । अथ नास्ति, तदा
अनित्य आत्मा स्यात् । ततश्च तत्त्वान्यत्वावाच्यतावन्नित्यानित्यत्वेनापि आत्मनः अवक्तव्यतेति
न स्यात् । अथ निर्वाणेऽपि आत्मनः अस्तित्वनास्तित्वेनावाच्यतैव इष्यते, एवमपि किमसौ
विज्ञेयः, अथ न ? यदि विज्ञेयः, न तर्हि निरुपादानोऽसावात्मा निर्वाणे विज्ञेयत्वात् संसार इव ।
अथ न विज्ञायते, तत्रासौ अविज्ञेयस्वरूपत्वात् खपुष्पवन्नास्त्येवेति कुतोऽस्य अवाच्यता ? तदेवं
निर्वाणमपि नास्ति । तदभावान्नास्ति संसार इति । अत एवोक्तं भगवत्यामष्टसाहस्रिकायाम्—
निर्वाणमप्यायुष्मन् सुभूते 'मायोपमं स्वप्नोपमम् । बुद्धधर्मा आयुष्मन् सुभूते मायोपमाः
स्वप्नोपमा इत्यादि । सचेत् कुलपुत्र निर्वाणादप्यधिकतरोऽन्यो धर्मोऽभविष्यत्, तमप्यहं मायोपमं
स्वप्नोपममिति वदामि ॥
[ अष्टसाहस्रिका - ४० ]
तथा आर्यसमाधिराजभट्टारके—
परमार्थसत्य सुपिनेन समं
निर्वाणं स्वप्नसमोधरतौ ।
मन एवमोतरति येन विदु
मनसंवरः कथितु श्रेष्ठु अयम् ॥
[ समाधिराजसूत्र - ३८.९१ ]
तथा—
निरोधसत्यं सुपिनं यथैव
स्वप्नस्वभावमथ निर्वृतिं च ।
येनेह वाचोत्तरि बोधिसत्त्वो
अयं खु सो वुच्चति वाचसंवरः ॥
[ समाधिराजसूत्र - ३८.७०]

१ Mss. मोक्ष तस्य for मोक्षेऽपि तस्य. Our text is based on T.


[पृष्ठम् १२७]

-१६. ६] बन्धमोक्षपरीक्षा षोडशं प्रकरणम् । १२७
अत्राह — यद्यपि त्वया संसारनिर्वाणे प्रतिषिद्धे, तथापि बन्धमोक्षौ विद्येते । न चाविद्य-
मानस्य भावस्वभावस्य बन्धमोक्षौ संभवतः । तस्माद् बन्धमोक्षसद्भावाद् विद्यत एव भावानां स्वभाव
इति । उच्यते । स्याद्भावानां स्वभावः, यदि बन्धमोक्षावेव स्याताम् । न तु स्तः इत्याह —
न बध्यन्ते न मुच्यन्ते उदयव्ययधर्मिणः ।
संस्काराः पूर्ववत्सत्त्वो बध्यते न न मुच्यते ॥ ५ ॥
इह य इमे रागादयः क्लेशाः बद्धानामस्वतन्त्रीकरणे बन्धनमिति व्यपदिश्यते, यैश्च बद्धाः
पृथग्जनाः त्रैधातुकं नातिक्रामन्तीति व्यवस्थाप्यते, तदेतद्रागादिकं बन्धनत्वेन परिकल्प्यमानमुदय-
व्ययधर्मिणां तावत् क्षणिकानां संस्काराणामुत्पादानन्तरवर्त्तिनां नष्टानामसत्त्वान्न संभवति ।
रागादिबन्धनविच्छेदलक्षणोऽपि मोक्षः अनित्यानां संस्काराणामविद्यमानत्वान्नैव संभवति । पूर्ववत्
पूर्वोक्त