सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

Mrigendra Tantra / Agama with Narayanakantha Vritti

महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा

DevanagariSanskritpublished448 पृष्ठ

६४ मृगेन्द्रतन्त्रे । [ ११२
अथ किं तदन्यदर्शनानामस्फुटत्वमित्याह
वेदान्तेष्वेक एवात्मा
चिदचिद्व्यक्तिलक्षितः ।
'आत्मैवेदं जगत्सर्वं नेह नानास्ति किंचन ।'
तथा
'एको वशी सर्वभूतान्तरात्मा
एकं विश्वं बहुधा यः करोति ॥' (क० ५।१२)
इत्यादिश्रुतिभिः परमात्मैव सकलचिद्-
चिद्भावाविर्भावतिरोभावप्रकृतिभूतः परिपूर्ण-
षाड्गुण्यवैभवस्वतन्त्रः एकोऽपि सन् संसृत्यर्थं
तत्तद्विविचमनोलक्षणोपाधिभेदेन स्वभावा-
न्तरानुविधायी यथावदवगतोऽभ्युदयाय भ-
वतीति वेदान्तविदः प्रतिपन्नाः । स एव हि
सत्त्वात्मनि शान्त उपाधौ शान्त इव, रजो-
बहुले तु भगवानिव, अज्ञानात्मके च तमसि
मुग्ध इवास्ते, नतु ततोऽन्यत् पृथक् किंचिद्-
वतिष्ठते तस्यैव तथा तथा वैचित्र्येणावस्थितेः
सत्यत्वात्, द्वैतप्रतिभासस्य द्विचन्द्रादिज्ञानवत्
भ्रान्तत्वात् । तथाचाह तत्रभवान् भर्तृहरिः

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । ६५
'यथा विशुद्धमाकाशं तिमिरोपप्लुतो जनः ।
संकीर्णमिव मात्राभिश्चित्राभिरभिमन्यते ॥
तथेदममृतं ब्रह्म निर्विकारमविद्यया ।
कलुषत्वमिवापन्नं भेदरूपे प्रवर्तते ॥'
इति । एवं चाभिन्नमेवेदं परं ब्रह्म परमात्म-
लक्षणम् । मनसां हि संसारधर्मैः सुखदुःखादि-
भिर्योगः, परमात्मा तु सूर्य इवाम्भःप्रतिबिम्ब-
भेदैरुपाधिभिरभिन्नोऽपि भिन्न इव प्रतिभाति ।
तथाच श्रुतिः
'यथा ह्ययं ज्योतिरात्मा विवस्वा-
नपो भिन्ना बहुधैकोऽनुगच्छन् ।
उपाधिना क्रियते भेदरूपो
देवः क्षेत्रेष्वेवमजस्तथात्मा ॥'
इति ॥
तदेतन्नोपपद्यते, यतः
प्रतिज्ञामात्रमेवेदं
निश्चयः किंनिबन्धनः ॥ १२ ॥
ओमित्युपपत्त्यनुपपत्तिपर्यालोचनपरिहारेण
यद्येतदङ्गीक्रियते, काममवतिष्ठतां, नतु प्रा-
माणिकरीत्या । यस्मात्प्रतिज्ञामात्रमेवैतत्, न
९

६६ मृगेन्द्रतन्त्रे । [ १२
त्वत्र हेतुदृष्टान्तादिसंभवः । तद्भावान्निश्चयः
किंनिबन्धनः किमाश्रयः । प्रमाणनिबन्धनो
हि निश्चयस्तत्तत्प्रमेयव्यवस्थापनसमर्थो भवति,
नान्यथा ॥ १२ ॥
नन्वत्र प्रमाणमागमस्तावच्छ्रुतिरूपः प्रद्-
र्शित एवेत्याह
अथ प्रमाणं तत्रात्मा
प्रमेयत्वं प्रपद्यते ।
यत्रैतदुभयं तत्र
चतुष्टयमपि स्थितम् ॥ १३ ॥
यदि प्रमाणमसत्यरूपं परमार्थतः परमा-
त्मन एव सत्यत्वात्, तथाविधेन प्रमाणेनैतत्प्र-
मीयमाणं मनोनिर्मितेन प्रदीपेन सन्तमसा-
वस्थितपदार्थप्रविवेचनप्रायम् । अथ सत्यमेव
प्रमाणम्, एवं तर्हि स परमात्मा प्रमेयत्वेन
स्थितः । प्रमाणं हि प्रमेयं परिच्छिन्दत् प्रमा-
णतामासादयति, इतरथा प्रमाणतैवास्य न
स्यात् । किंच अतः । किमन्यत्, यत्रैतद्द्वितयं प्र-
माणप्रमेयलक्षणं, तत्र प्रमातृप्रमित्यात्मकमन्य-

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ६७
दपि द्वयमन्योन्यसत्त्वव्यपेक्षत्वात् स्थितमेव ।
नहि प्रमातारं कर्तारमन्तरेण प्रमाणप्रमेययोः
क्वचित् किंचित्करत्वं करणकर्मणोः क्रियासिद्धौ
कर्त्राश्रयत्वात् । प्रमितिरपि क्रियारूपो व्यापा-
रस्त्वेभ्यः पृथगेवान्वयव्यतिरेकाभ्यामुपलभ्यत
इति चतुष्टयमवश्यंभावि । यदाह आक्षपादः
'चतसृषु चैवंविधासु सर्वोऽपि व्यवहारः परिसमाप्यते।'
(सू० १ वा० भा०)
इति ॥ १३ ॥
किं चात इत्यत आह
अद्वैतहानिरेवं स्या-
न्निष्प्रमाणकतान्यथा ।
भोगसाम्याविमोक्षौ च
यौ नेष्टावात्मवादिभिः ॥ १४ ॥
प्रमाणप्रमेयव्यवहाराङ्गीकरणे सति अद्वैत-
हानिरतः स्वाभ्युपगमविरोधः, तदपह्नवे तु नि-
ष्प्रमाणकत्वम्, किंच भोगसाम्यमविमोक्षश्चा-
त्मवादिभिरनभ्युपगतौ दोषौ प्रसज्येते । सर्वे-
१ स्वसिद्धान्तभङ्गादित्यर्थः ।

६८ मृगेन्द्रतन्त्रे । [ १।२
रेवात्मवादिभिः प्रत्यक्षविरोधभीरुभिर्दृश्यमानं
भोगवैचित्र्यमवश्याभ्युपेयम्, आत्मनां च मु-
क्तिरेष्टव्या निःश्रेयसहेतुतयैव शास्त्राणां प्रवृत्तेः।
तदिह
'नादत्ते कस्यचित्पापं नचैव सुकृतं विभुः।'
(भ० गी० ५।१५)
तथा
'न कर्तृत्वं न कर्माणि...................।'
(भ० गी० ५।१४)
इत्यभ्युपगमात् विचित्रफलदायिनां प्रतिनि-
यतजन्तुकृतत्वेन भोगप्रतिनियमकारिणां क-
र्मणामेवाभावाद्भोगसाम्यप्रसङ्गो दुर्নিবারः।
आत्मनानात्वे हि कश्चित् दुःखितः, कश्चित्
सुखित इति भोगवैचित्र्यमुपपन्नं, नान्यथा। यत
एव संसारितायाः प्रभवस्तत्रैव निरंशे परमा-
त्मनि यदि लयो मोक्षस्तत्पुनरपि तत एव
प्रादुर्भावः, पुनश्च मोक्ष इति सेयं गतानुग-
तिका, नतु मोक्षः। तथाह तत्रभवानव-
धूताचार्यः

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । ६९
'त्वन्मतेश्वरविज्ञाननिष्पन्ना अपि मुक्तयः ।
भजन्ते नाविसंवादमम्भसा इव कुष्टयः१ ॥'
इति । ततश्च मोक्षाभावात्तदुपायानाम्
'आत्मा वा अरे ज्ञातव्यः श्रोतव्यो मन्तव्यः ।' (बृ० उ०)
इत्यादीनामानर्थक्यम् । अपिचास्य परमा-
त्मनश्चेतनाचेतनविश्वोत्पत्तिहेतुत्वे चेतनाचे-
तनत्वं प्राप्तं कार्याणां कारणस्वभावान्वयात् ।
यदाहुः
'तदतद्रूपिणो भावास्तदतद्रूपहेतुजाः ।'
इति । ततश्च विरुद्धयोरन्योन्याभिभवेनैवा-
त्मलाभाद्भावाभावयोरिवैकस्मिन् काले चेतना-
चेतनस्वभावयोः परमात्मनि अवस्थानं नोपप-
द्यते । यथाह तत्रभवान् खेटकनन्दनः
'विरुद्धावेककालस्थौ धर्मावेकाश्रयं गतौ ।
इतरेतरनाशात्तौ कुरुतो लोपमात्मनः ॥' (मो० का० २१)
इति । न चास्यानङ्गत्वात् केनचिदङ्गेन चेत-
नत्वं, केनचिच्चाचेतनत्वं युक्तं, साङ्गत्वाभ्युप-
गमे तु कुसूलादिवत् कार्यत्वात्परमकारणता-
हानिः । किंच यद्यदुपादानकारणं तत्तदचेतनं,
१ जलोपरिकृता रेखाः ।

७० मृगेन्द्रतन्त्रे । [ १।२
यथा मृदादि, अचेतनश्चायं परमात्मोपा-
दानकारणत्वात्, चेतनत्वे नास्योपादानकार-
णत्वम्। अस्त्वचेतनः को दोष इति चेत्, चेत-
नानां कारणं स्वयमचेतन इति विचित्रेयमु-
क्तिः। आचैतन्याभ्युपगमे चास्य बुद्धिमत्कर्त्र-
नधिष्ठितस्य मृत्पिण्डादेरिव न स्वकार्यजनने
सामर्थ्यम्। येऽपि च ग्राहकत्वेन स्वसंवेदनसिद्धा
आत्मानो भोक्तारस्तत उत्पन्ना इत्युच्यन्ते,
तेऽप्युत्पाद्यत्वात् घटादिवदचेतनाः प्रसज्यन्त
इत्यनेकदोषाश्रयस्य परमात्माद्वैतस्यानुपपत्तिः॥
अथैवं वेदान्तवादिनां मते निराकृते का-
पिलोक्तात् प्रकृतिपुरुषविवेकज्ञानान्निःश्रेयसा-
वाप्तिर्भविष्यति । यथाचाहुः
‘एवं तत्त्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेषात् ।’
( सां० का० ६४ )
‘ऐकान्तिकमात्यन्तिकमुभयं कैवल्यमाप्नोति ॥’
( सां० का० ६८ )
इति । श्रुतिरप्याह
‘अजामेकां लोहितशुक्लकृष्णां
बह्वीः प्रजा जनयन्तीं सरूपाः ।

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । ७१
अजो ह्येको जुषमाणोऽनुशेते
जहात्येनां भुक्तभोगामजोऽन्यः ॥' (श्वेत० ४।५)
इति । एतदपि निराकर्तुमाह
सांख्यज्ञानेऽपि मिथ्यात्वं
कार्ये कारणबुद्धितः ।
सांख्यज्ञानेऽप्येतदसम्यक्त्वं, यत्कार्ये मा-
योद्भूतकलाजनिते प्रधाने, कारणबुद्धिः पर-
मकारणताभ्रमः,
'मूलप्रकृतिरविकृतिः' (सां० का० ३)
इति हि तेषामभ्युपगमः, कलादीनां तत्त्वानां
पृथक्पृथगुपलभ्यमानप्रयोजनानां कारणभू-
तस्य जगन्निधिभूतस्य मायात्मनोऽनवगमात् ।
उक्तं च क्वचित्
'गुणतत्त्वोर्ध्वभोग्यस्य कर्मणोऽनुपलब्धितः ।
कैवल्यमपि सांख्यानां नैव युक्तमसंशयात् ॥'
(प० मो० नि० का० ५२)
इति । तदयमर्थः-येयं कापिलैः परमकारण-
तया परिकल्पिता सत्त्वरजस्तमोलक्षणगुणत्रय-
साम्यात्मिका प्रकृतिः, तस्यास्तावन्न गुणेभ्यो-
ऽन्यत्वम् । गुणा एव प्रकृतिरिति हि ते प्रतिजा-

७२ मृगेन्द्रतन्त्रे । [ १।२
नते, गुणेभ्योऽनन्यत्वे चावश्यमनेकत्वमस्याः ।
यच्चाचैतन्ये सत्यनेकं तत्कारणान्तरपूर्वकं, यथा
तन्तवो मृत्पिण्डा वा, सति च कारणान्तरपूर्व-
कत्वे न परमकारणता । इदं च ते प्रष्टव्याः
दृष्टदृश्ययोः संयोगः संसारहेतुस्तत्पूर्वकश्च
वियोगोऽपवर्गकारणमिति यदुच्यते, तत्र संयो-
गस्तावत् पुंप्रधानयोर्द्रष्टृदृश्यलक्षण एव,
न परस्पराश्लेषरूपः उभयोरप्यमूर्तत्वेन तादृ-
शस्यानुपपत्तेः । प्रधानं च न स्वतो दृश्यमप्र-
त्यक्षत्वेन तस्येष्टत्वात् । नच महदहंकारादि-
रूपेण परिणतेः द्रष्टा तद्द्रष्टुं शक्नोति । ततश्च
कथमनयोराद्यः संयोगः, तदभावाच्च कथं त-
त्पूर्वको वियोगः । एवं च संयोगवियोगानुप-
पत्तेरकारणत्वमेव पुरुषार्थं प्रति प्रधानस्य ॥
इतश्च मिथ्यात्वमेतदीयस्य ज्ञानस्य । कुत
इत्याह
अकर्तृभावाद्भोक्तुश्च
अभोक्तुः पुरुषस्य भोगायतनेन देहेन भोग-
साधनैरिन्द्रियैर्भोक्तव्यैरिन्द्रियार्थैर्भोगेन च सु-
खदुःखवेदनात्मना फलेन किं प्रयोजनम् ।

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ७३
यतश्चास्य भोगस्तदधिकरणतत्साधनसहि-
तोऽस्ति, अतो भोक्तृत्वमपह्नोतुमशक्यम्। यश्च
भोक्ता स कथमकर्ता अकर्तरि कारणादिसंब-
न्धस्य निरर्थकत्वात् । दृक्क्रियात्मकत्वमेव स्वरूपं
चैतन्यस्य, ततश्च कर्तृत्वनिरासात् ज्ञत्वमपि
निरस्तं संवेदनस्यापि क्रियात्मनः कर्तृत्वान-
पगमात् । नहि अकर्तुः संवेदनं चाप्युपपन्नम् ॥
इतश्च सांख्यज्ञानस्य मिथ्यात्वमाह
स्वातन्त्र्यादप्यचित्त्वतः ॥ १५ ॥
अचेतनमपि प्रधानं बुद्धिमत्कर्तृप्रेरणं विना
स्वातन्त्र्येण कथं कार्यकारणे प्रवर्तते । नह्यनुसं-
धानशून्यस्य बुद्धिमतोऽपि घुणकीटस्येवाक्षर-
लेखने प्रवृत्तिर्युक्ता, किं पुनः परिणामिनो ज-
डस्य । यश्चात्र चेतनः पुरुषः स तदधीनो न
कर्तेति प्रकृतिस्थानां नेयमुक्तिरुचिता ॥ १५॥
इदानीमनेकान्तवादि निराकरणाय संख्या-
तस्तन्मतं पूर्वपक्षयितुमुच्यते
इह सप्त पदार्थाः स्यु-
र्जीवाजीवास्रवास्त्रयः ।
१०

७४ मृगेन्द्रतन्त्रे। [ ११२
संवरो निर्जरश्चैव
बन्धमोक्षावुभावपि ॥ १६ ॥
स्याद्वादलाञ्छिताश्चैते
सर्वेऽनैकान्तिकत्वतः ।
तत्र तावत् जीवपदार्थस्तत्तन्नरीत्या जीवा-
स्तिकायसंज्ञया परिभाषितः । त्रिविधश्चासौ अ-
नादिसिद्धमुक्तबद्धभेदात् । अत्रानादिसिद्धोऽर्हन्
जीवास्तिकायाख्यः, व्यपेतमोहादिबन्धो मुक्तः,
तदावृतस्तु बद्धः । अजीवपदार्थोऽपि पुद्गलाका-
शधर्माधर्मास्तिकायैश्चतुर्भेदैर्भिन्नः । अत्रापि पृ-
थिव्यादिमहाभूतानि चत्वारि, तृणगुल्मादिल-
तादिरूपं स्थावरं, जरायुजाण्डजस्वेदजोद्भिज्ज-
भेदभिन्नं जङ्गमं चेति षट्प्रकारोऽयं पुद्गलास्ति-
कायः । आकाशास्तिकायो द्विरूपः लोकाकाशा-
स्तिकायोऽलोकाकाशास्तिकायश्चेति
‘लोकानामन्तराकाशं लोकाकाशमिति स्मृतम् ।
अलोकाकाशास्तिकायो बहिस्तेषां स कीर्तितः ॥’
धर्मास्तिकायः पुद्गलास्तिकायादन्योऽभ्युदय-
हेतुः । अधर्मास्तिकायोऽपि तत्प्रतिबन्धकृ-
दित्यमसावजीवपदार्थश्चतुष्प्रकारः । आ-

स्रवश्चक्षुरादीन्द्रियपञ्चकस्य यथास्वं प्रवृत्तिः ।
तथाचाहुः
'वृत्तिः पञ्चविकल्पा ध्रुवाध्रुवा चक्षुरादिवर्गस्य ।
यैषा स्रवत्यजस्रं यतस्ततोऽसाविहास्रवः प्रोक्तः ॥'
इति । इन्द्रियसंयमलब्धप्रतिष्ठं ध्यानमास्रव-
निरोधात्मकत्वात् संवृणोत्यास्रवमिति संवरः ।
तप्तशिलाशयनकेशोल्लुञ्चनादितपःसंचयनिर्जी-
र्णवीर्यं कर्म निर्जरशब्देनोच्यते । नानानि-
रयसंसरणकारणं मोहादिरष्टविधो गणः स्वात-
न्त्र्यविघातहेतुत्वात् बन्धः । उक्तं च
'मोहादिको गणश्चैष बन्धो जीवस्य कल्पितः ।
लोहपञ्जरसंबद्धं यथा क्षिप्तं जलाशये ॥
अलाबुकमधो याति तद्वज्जीवः सबन्धनः ।'
इति । प्रक्षीणसर्वावरणत्वात् स्वातन्त्र्यसंप्राप्तौ
ऊर्ध्वपदासादनं मोक्षः । यदाहुः
'लोहपञ्जरविच्छेदात्प्लवतेऽलाबुकं यथा ।
आरोहति तथा मोक्षं जीवो मोहादिसंक्षयात् ॥
नित्यबोधसुखाद्यैश्च धर्मैर्युक्तः स तिष्ठति ।'
इति । एते च सप्त पदार्थाः स्याद्वादानुगताः।
तथाहि देहग्रहणात्पूर्वं जीवः किमस्ति उत
नेति यः पर्यनुयुङ्क्ते, तं प्रत्यनेकान्तवादोऽभ्युपग-
न्तव्यः । स्यादस्ति, स्यान्नास्ति, स्यादस्ति च

७६ मृगेन्द्रतन्त्रे । [ ११२
नास्ति च, स्यादवक्तव्यं, स्यादस्ति चावक्तव्यं,
स्यान्नास्ति चावक्तव्यं च, स्यादस्ति च नास्ति
चावक्तव्यं चेति । अत्र हि यद्यत्पर्य्यनुयोज्यं,
तत्तत्सदसत्तया समाधेयम् । तत्र वाच्यतया-
वाच्यतयापि च विरोधहानिस्तु घटनीयेति ।
‘सप्तभङ्ग्यमोघब्रह्मास्त्रवतामजेयमिह किं तत् ।
यत्स्यादस्ति स्यान्नास्ति स्यादिति पुद्गलिभिर्आरभ्यते
जगत्सर्वम् ॥’
इति । ननु चानेकान्तवादिना तावदेकान्तान-
भ्युपगमान्नियमेनानेकान्तवादोऽभ्युपगन्तव्यः,
तथाच स्वसिद्धान्त एवैकान्त इति कुतः
सर्वत्र सप्तभङ्गी ? नैष दोषः अनेकान्तवादे-
ऽप्येकान्तानभ्युपगमात्, यतः स्यादनेकान्तः,
स्या

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । ७७
स्यादस्ति स्यान्नास्ति चेति यदुक्तं, तदसं-
गतम् । नहि यद्यदैव वस्तु अर्थक्रियाकारितया
सत्त्वेनावगम्यते, तत्तदानीमेवासत्त्वेनैकान्ततः
कश्चिदप्यवैति । कः किलानुद्भ्रान्तमतिः पुरः-
प्रस्फुरद्रूपे सदितिप्रत्ययकारिणि घटादौ नाय-
मस्तीति बुद्धिं कुर्यात्, असति च तस्मिन्
प्रख्योपाख्याविरहिणि सत्तां निश्चिनुयात्, वि-
धिनिषेधरूपयोर्भावाभावयोः परस्परपरिहारे-
णैवात्मलाभात् । अभावो हि तदसंभवलब्ध-
जन्मापि यदि तेनैव भावेन सहितः स्यात्त-
दानीमभाव एव न स्यात् तदुपमर्दनेनैव तस्य
स्वरूपसिद्धेः । एवं भावोऽपि यदि स्वप्रतिप-
क्षेणाभावेनाव्यतिरिक्तो भवेत्तर्हि भाव एव
न भवेत् ॥ १७ ॥
ननु घटरूपेण स्वात्मनास्ति घटः, परा-
त्मना पटरूपेण नास्तीति सदसत्त्वमुक्तम् ।
नतु तद्युक्तम् । किं किलैतावता प्रतिपादितं
स्यात् घटः पटात्मना न भवति घटे वा पटो
नास्ति । तदेतदभिमतमेव अतदात्मकत्वेन त-

७८ मृगेन्द्रतन्त्रे । [१।२

त्राविद्यमानत्वात् । पटाद्भिद्यमानोऽयं घटोऽन्य
एवेति सिद्धं साध्यते । तदाह
सदन्यदसदन्यच्च
तदेवं सिद्धसाध्यता ।
ननु स्वात्मना यथा घटः स्वसामर्थ्यक्रियां
करोति, एवं पटात्मनापि तत्कार्यं कुर्यात्, न
च करोति, अतः पटात्मना नास्ति, यदि स्वा-
त्मनापि परात्मवन्न स्यात्, तदा स्वकार्यमपि न
कुर्यात् तस्मादस्ति च नास्ति चेत्युक्तम् । तथै-
तद्घटत्वमघटत्वं च परस्परमभिन्नम् । भेदे हि
तद्बुद्ध्यभिधानानुवृत्तिर्न स्यात् , घटश्चाघटश्चेति
सामानाधिकरण्यं च न भवेत् । अस्ति चैतत् ,
तस्मादुभयात्मकोऽसौ क्रमेण तच्छब्दाभिधेय-
तामुद्वहन् स्यात् घटश्चाघटश्चेत्यविरोधः । एत-
दप्ययुक्तं यतो नास्ति कश्चिदभेदः । तथाहि
अघटशब्दे घटो न भवतीति प्रसज्यप्रतिषेधो
वा स्यात्, घटादन्यः पटादिरिति वा पर्यु-
दासः । आद्ये पक्षे घटश्चाघटश्च स्यादित्युक्ते
घटाघटयोर्व्यतिरेकाद्धटस्याभाव एव घट
इत्यभिप्रेतम् । एवं चेष्यमाणे सर्पाभावेऽपि

सर्प एव स्यात् । तथा च सति सर्पादिवत्
तद्भावादपि भयं स्यात् । ससर्पनिःसर्पदे-
शयोः सम एवोपलम्भो भवेत् । पर्युदासपक्षे-
ऽपि घटत्वादन्यदघटत्वं भिन्नमेव पटत्वादिकं
कथ्यते । तच्च घटत्वाद्भिन्नम्। अभेदे हि घटादि-
ष्वपि पटबुद्ध्याभिधानानुवृत्तिर्न स्यात् । घटादा-
वपि स्पष्टे घटप्रत्ययश्च न स्यात्। तस्मान्न घटा-
घटयोरभेद इति न सदसतोरेकाश्रयत्वम् ॥
किंच
असज्जघन्यं सच्छ्रेष्ठ-
मित्यपि ब्रुवते बुधाः ॥ १८ ॥
नैकत्र तदपेक्षातः
स्थितमेवोभयं ततः ।
यदपि सदसच्छब्दाभिधेयं श्रेष्ठाश्रेष्ठरूपं
वस्तु, तदपि तद्विदो नैकत्राभिदधति तस्यापि
भिन्नविषयत्वात्। नहि यदेवाश्रेष्ठं, तदेव श्रेष्ठ-
मिति वक्तुं शक्यम् । अयमेव हि भावानां
भेदः-यद्विरुद्धधर्माध्यासः । अथ मतं यत्तच्छ्रे-
ष्ठाश्रेष्ठत्वं, तदेकत्र संभवत्येव अपेक्षावशात् ।

८० मृगेन्द्रतन्त्रे । [ १।२
यथायं देवदत्तो यज्ञदत्तसकाशादभिरूपः, चै-
त्रापेक्षया तु नीरूप इति । एवं तर्हि यज्ञदत्त-
स्याश्रेष्ठत्वं चैत्रस्य च श्रेष्ठत्वमित्युभयं तत
इत्यपेक्षातः। एवं भिन्नं लब्धं यदपि द्वयं, तदा-
पेक्षिकत्वादसत्यम् । अपेक्षा हि नाम न वा-
स्तवी । तस्याः किल वस्तुनः सति सद्भावे किं
प्रयोजनं सिद्धसत्ताकत्वेनानपेक्षत्वात् । तथा
चाहुः
'संश्च सर्वो निराशंसो भावः कथमपेक्षते।'
इति । न चालब्धसत्ताके वस्तुन्यपेक्षायाः कि-
मपि करणीयमस्ति, तस्यासत्त्वादेव तदपेक्षा-
नुपपत्तेः । तदिदमुक्तम्
'अपेक्षा न सतां सिद्धेरसिद्धेरपि नासताम्।'
इति । तदेवं न कथंचिदपि सदसतोर्भेदो-
पपत्तिः ॥
अथ चेत्तदसद्भावे
सद्युक्ततरो यतः (?) ॥ १९॥
तत्कर्मसंकरभया-
द्व्यापित्वं च ते जगुः ।

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ८१
सामान्येतरसंबन्ध-
ज्ञानाभावादचेतसः ॥ २० ॥
तस्य देहात्पूर्वं सदसत्त्वेनाभिमतस्य व्याप-
कत्वात् पुद्गलान्तरैः सह कर्मसंकरः शङ्क्यते ।
व्यापकत्वे हि विप्रकीर्णानां कर्मणां भोक्तॄन् प्रति
नियमः किंकृतः, अव्यापकानां तु तेषां प्रत्येकं
व्यवस्थितो मोहादिबन्धपदार्थ एव तन्नि-
यामक इति कर्मसंकरभयादव्यापकत्वमचे-
तसः दुर्बुद्धयः जगुरूचुः । कुत एषां मन्दबु-
द्धित्वमित्याह—सामान्येतरसंबन्धज्ञानाभावात्
समान्येनानादिकालीनेनात्मनो व्यापकत्वेन
यः संबन्धः सर्वकालभावित्वेन साधारण्यमस्य
इतरेण च मुक्तावेव संजातत्वात् तथारूपेण,
तयोर्ज्ञानं सम्यगवबोधस्तेषां पुद्गलवादिनां
नास्ति । यदि हि तदवबोध एषां स्यात्, तदा
नैवमयुक्तमेव कल्पयेयुर्मोहादिपाशावरुद्धसह-
जव्यापकस्वभावस्यात्मनः स्वभावत एवाव्या-
पकत्वाभ्युपगमो यस्तस्य विरुद्धत्वात् ॥ २० ॥
११

८२ मृगेन्द्रतन्त्रे । [ २।२
तथाहि
यः प्रागव्यापकः सोऽन्ते
कथमन्यादृशो भवेत् ।
स विकासादिधर्मा चे-
त्ततो दोषपरम्परा ॥ २१ ॥
प्राक् पूर्वं संसारावस्थायामव्यापको यः, स
कथं मोक्षे व्यापकः, व्यापकत्वं च तदानी-
मप्यभ्युपगन्तुमयुक्तम् । एवं हि संसारमुक्त्यो-
रविशेषः स्यात् । अथ तथाविधधर्मस्य वि-
काससंकोचधर्मित्वमभ्युपगम्यते—यदुत सं-
सृतौ संकोचमेति मुक्तौ तु विकसति इति,
ततो विपरिणामित्वजडत्वाद्यनेकदोषसन्ततिः
प्रसज्यत इति न कथंचिदपि सदसद्वादिमत-
मुपस्थापयितुं शक्यम् ॥ २१ ॥
इदानीं पादार्थिकदर्शनप्रदर्शितमुक्तिनिरा-
करणायाह
षट्पदार्थपरिज्ञाना-
न्मिथ्याज्ञानं निवर्तते ।

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ८३
रागद्वेषौ ममत्वं च
तद्विशेषगुणास्ततः ॥ २२ ॥
क्रमशॊ विनिवर्तन्ते
देहसंयोगजा यतः ।
सा मुक्तिर्जडतारूपा
ततो मुक्तः शवो न किम् ॥२३॥
द्रव्यगुणकर्मसामान्यविशेषसमवायानां षण्णां
पदार्थानां साधर्म्यवैधर्म्यतत्त्वज्ञानं निःश्रे-
यसहेतुरित्यभ्युपगमात् द्रव्यादिपदार्थषट्कस्य
यथावज्ज्ञानादज्ञाननिवृत्तौ रागादिदोषोपशमे
बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराणां
नवानामात्मगुणानां देहसंयोगजत्वात् क्र-
मेण निवृत्तौ या मुक्तिः, सा बुद्ध्याद्युपरमे सति
आत्मनस्तद्विनाकृतस्य किंचिज्ज्ञत्वोपरमाज्जड-
तारूपाङ्गीक्रियते, ततः शवोऽपि किं न मुक्तः
कल्प्यते तस्यापि बुद्ध्यादिगुणविरहेणेच्छाज्ञा-
नादिविनाकृतत्वादिति भावः ॥ २३ ॥