मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
६० मृगेन्द्रतन्त्रे । [ १।२
इति । तेन भुक्तिमुक्ती परापरविभागेन ब-
हुधा भिद्येते । तत्र परा भुक्तिः पातालादिकला-
न्ताध्ववर्तिविचित्रैश्वर्यसंपन्नतत्तद्भुवनाधिपत्यं,
तत्तद्भुवनवासित्वमात्रं चापरा । एवं परा मुक्तिः
परमेश्वरसाम्यम्, अपरा तु मन्त्रमन्त्रेश्वरत्वम् ।
आसां च यथा बहुभेदत्वं, तथाग्रे वक्ष्यामः॥९॥
अथान्येभ्यो दर्शनेभ्यः कोऽस्य पारमेश्व-
रस्य ज्ञानस्य विशेष इति मुनिः प्रष्टुमाह
वेदान्तसांख्यसदस-
त्पादार्थिकमतादिषु ।
ससाधना मुक्तिरस्ति
को विशेषः शिवागमे ॥ १० ॥
वेदान्तविदां मतेषूपनिषदादिशास्त्रेषु, षैष्टि-
तन्त्रादिषु, सदसद्वादिनामर्हतां च मतेष्वकल-
ङ्कत्रितयप्रभृतिषु, द्रव्यादिपदार्थवादिकाणादा-
दिशास्त्रेषु आदिग्रहणात्सौगतादिमतेष्वपि यतो
मुक्तिस्तत्साधनानि च श्रूयन्ते, ततः कोऽसौ
शिवागमे विशेषः इति विशेषजिज्ञासया तद्व्यव-
१ षष्टिपदार्थाभिधायकत्वात् षष्टितन्त्रं सांख्यम् ।
विद्यापाद: पाश-परीक्षा, मल, कर्म एवं माया-स्वरूप (अध्याय ४-८)
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । ६१
सितस्य मुनेः प्रश्नः, न संदिग्धत्वेनादावेव
विशेषसंभावनानिश्चयतः श्रोतुं प्रवृत्तत्वात्,
नापि विपर्यस्तत्वेन ‘ते वव्रे शिवज्ञानम्’
इत्यभ्यर्थनाप्रवृत्तत्वेन दर्शनान्तरानभिनिविष्ट-
त्वप्रतीतेः । तत्तदागमश्रुता मुक्तिस्तत्साधनानि
च पुरस्तात्तेषु तेष्ववसरेषु ग्रन्थकृतैवानुभाष्य
दूषयिष्यन्त इति नास्माभिः पृथक् प्रयत्नेन
दर्श्यन्ते ॥ १० ॥
अत्र सिद्धान्तः
प्रणेतृसर्वदर्शित्वा-
न्न स्फुटो वस्तुसंग्रहः ।
उपायाः सफलास्तद्व-
च्छैवे सर्वमिदं परम् ॥ ११ ॥
प्रणेतारो हिरण्यगर्भाद्याः कणादपतञ्जलि-
कपिलप्रभृतयश्च, ते चासर्वज्ञाः अपरत्वेनाभि-
मताः स्वप्रमेयादूर्ध्ववर्तिनो युक्त्यागमोपपन्नस्य
प्रमेयजातस्य तैरनवगमात् । तदुक्तं
१ उत्कृष्टम् । २ चतुर्मुखाद्याः ।
Here is the line-by-line transcription of the text in Devanagari:
'स्वभावपुरुषाव्यक्तकर्मकालात्मवादिभिः ।
परमेशमदृष्ट्वैव मुक्तिर्मिथ्यैव कल्पिता ॥'
इति । तथा
'सुगतो यदि सर्वज्ञः कपिलो नेति का प्रमा ।
अथोभावपि सर्वज्ञौ मतिभेदस्तयोः कथम् ॥'
इति । तैरेतैः प्रणीतानि शास्त्राणि, अत एवै-
तेषु वस्तुसंग्रहोऽप्यस्फुटः पुंप्रतिबद्धापवर्गज्ञा-
नमस्पष्टमित्यर्थः । ये चात्रोपायाः पुंस्प्रकृतिवि-
वेकज्ञानब्रह्माद्वैताभ्यासषोडशपदार्थज्ञानादयः,
फलानि च स्वर्गापवर्गलक्षणानि, तत्सर्वं तद्वद-
स्पष्टमेव तथातथावक्ष्यमाणनिर्वाहासहत्वात् ।
तस्मात्तेभ्योऽस्यायं विशेषः—यदिह सर्वं प्रकृष्टं
यतः पशुपाशातीतनिरतिशयसर्वार्थज्ञानक्रिया-
त्मना परमेश्वरेणेदमादिष्टमिति प्र
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ६३
'शुद्धिं व्रजति तुलायां दीक्षातो ब्रह्महेत्यतो मुख्यात् ।
प्रत्ययतो जानीयाद्बन्धनविगमं विषक्षयवत् ॥'
(तत्त्व० सं० ३६)
इति । फलं चेहान्यैःसर्वदर्शनदृष्टाद्भोगापवर्ग-
लक्षणात्फलात्प्रकृष्टम् । उक्तं हि श्रीमन्मतङ्गे
'अग्निहोत्रादिभिः पूतास्तथा चान्द्रायणादिभिः ।
लोकत्रयेऽपि मोदन्ते विमानस्था यशस्विनः ॥
अथाप्नुयुः पदं शाक्रमिष्ट्वा क्रतुशतं विधेः ।
या गतिः शिवभक्तानां शाठ्येनापि महात्मनाम् ॥
न सा यज्ञसहस्रेण प्राप्यते मुनिपुङ्गव ॥' (१।२६)
इति । अपवर्गोऽप्यस्मिन् दर्शने सर्वान्यागमा-
गोचरत्वात् परः तत्तदागमप्रणेतॄणां साञ्जनत्वे-
नासर्वज्ञत्वात् तदुपदिष्टाया मुक्तेर्मुक्त्याभास-
त्वात् । उक्तं च श्रीमद्भार्गवोत्तरे
'अन्यतन्त्रेषु ये मुक्ता धर्माधर्मक्षयान्नराः ।
तेऽत्र रुद्राणवः प्रोक्ता गुणत्रयविवर्जिताः ॥'
इति ॥ ११ ॥
१ यदि दीक्षा समीचीना भवति, तदेयं परीक्षा—प्रथमं शिष्यस्य
पाषाणादिभिस्तोलनं विधेयं, पश्चात्तस्मै दीक्षां दत्त्वा यैरेव पाषाणैः शिष्य
उत्तोलितस्तैरेव पुनः पाषाणैरुत्तोलनेन पूर्वमानापेक्षया लघुमानमितो भवति
पापक्षयात् । २ अन्यानि यानि सर्वदर्शनानि, तेभ्यो दृष्टा ये भोगापवर्गा-
स्तदात्मकात् फलात् प्रकृष्टमित्यर्थः । ३ अञ्जनमिहाविद्या ।
६४ मृगेन्द्रतन्त्रे । [ ११२
अथ किं तदन्यदर्शनानामस्फुटत्वमित्याह
वेदान्तेष्वेक एवात्मा
चिदचिद्व्यक्तिलक्षितः ।
'आत्मैवेदं जगत्सर्वं नेह नानास्ति किंचन ।'
तथा
'एको वशी सर्वभूतान्तरात्मा
एकं विश्वं बहुधा यः करोति ॥' (क० ५।१२)
इत्यादिश्रुतिभिः परमात्मैव सकलचिद्-
चिद्भावाविर्भावतिरोभावप्रकृतिभूतः परिपूर्ण-
षाड्गुण्यवैभवस्वतन्त्रः एकोऽपि सन् संसृत्यर्थं
तत्तद्विविचमनोलक्षणोपाधिभेदेन स्वभावा-
न्तरानुविधायी यथावदवगतोऽभ्युदयाय भ-
वतीति वेदान्तविदः प्रतिपन्नाः । स एव हि
सत्त्वात्मनि शान्त उपाधौ शान्त इव, रजो-
बहुले तु भगवानिव, अज्ञानात्मके च तमसि
मुग्ध इवास्ते, नतु ततोऽन्यत् पृथक् किंचिद्-
वतिष्ठते तस्यैव तथा तथा वैचित्र्येणावस्थितेः
सत्यत्वात्, द्वैतप्रतिभासस्य द्विचन्द्रादिज्ञानवत्
भ्रान्तत्वात् । तथाचाह तत्रभवान् भर्तृहरिः
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । ६५
'यथा विशुद्धमाकाशं तिमिरोपप्लुतो जनः ।
संकीर्णमिव मात्राभिश्चित्राभिरभिमन्यते ॥
तथेदममृतं ब्रह्म निर्विकारमविद्यया ।
कलुषत्वमिवापन्नं भेदरूपे प्रवर्तते ॥'
इति । एवं चाभिन्नमेवेदं परं ब्रह्म परमात्म-
लक्षणम् । मनसां हि संसारधर्मैः सुखदुःखादि-
भिर्योगः, परमात्मा तु सूर्य इवाम्भःप्रतिबिम्ब-
भेदैरुपाधिभिरभिन्नोऽपि भिन्न इव प्रतिभाति ।
तथाच श्रुतिः
'यथा ह्ययं ज्योतिरात्मा विवस्वा-
नपो भिन्ना बहुधैकोऽनुगच्छन् ।
उपाधिना क्रियते भेदरूपो
देवः क्षेत्रेष्वेवमजस्तथात्मा ॥'
इति ॥
तदेतन्नोपपद्यते, यतः
प्रतिज्ञामात्रमेवेदं
निश्चयः किंनिबन्धनः ॥ १२ ॥
ओमित्युपपत्त्यनुपपत्तिपर्यालोचनपरिहारेण
यद्येतदङ्गीक्रियते, काममवतिष्ठतां, नतु प्रा-
माणिकरीत्या । यस्मात्प्रतिज्ञामात्रमेवैतत्, न
९
६६ मृगेन्द्रतन्त्रे । [ १२
त्वत्र हेतुदृष्टान्तादिसंभवः । तद्भावान्निश्चयः
किंनिबन्धनः किमाश्रयः । प्रमाणनिबन्धनो
हि निश्चयस्तत्तत्प्रमेयव्यवस्थापनसमर्थो भवति,
नान्यथा ॥ १२ ॥
नन्वत्र प्रमाणमागमस्तावच्छ्रुतिरूपः प्रद्-
र्शित एवेत्याह
अथ प्रमाणं तत्रात्मा
प्रमेयत्वं प्रपद्यते ।
यत्रैतदुभयं तत्र
चतुष्टयमपि स्थितम् ॥ १३ ॥
यदि प्रमाणमसत्यरूपं परमार्थतः परमा-
त्मन एव सत्यत्वात्, तथाविधेन प्रमाणेनैतत्प्र-
मीयमाणं मनोनिर्मितेन प्रदीपेन सन्तमसा-
वस्थितपदार्थप्रविवेचनप्रायम् । अथ सत्यमेव
प्रमाणम्, एवं तर्हि स परमात्मा प्रमेयत्वेन
स्थितः । प्रमाणं हि प्रमेयं परिच्छिन्दत् प्रमा-
णतामासादयति, इतरथा प्रमाणतैवास्य न
स्यात् । किंच अतः । किमन्यत्, यत्रैतद्द्वितयं प्र-
माणप्रमेयलक्षणं, तत्र प्रमातृप्रमित्यात्मकमन्य-
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ६७
दपि द्वयमन्योन्यसत्त्वव्यपेक्षत्वात् स्थितमेव ।
नहि प्रमातारं कर्तारमन्तरेण प्रमाणप्रमेययोः
क्वचित् किंचित्करत्वं करणकर्मणोः क्रियासिद्धौ
कर्त्राश्रयत्वात् । प्रमितिरपि क्रियारूपो व्यापा-
रस्त्वेभ्यः पृथगेवान्वयव्यतिरेकाभ्यामुपलभ्यत
इति चतुष्टयमवश्यंभावि । यदाह आक्षपादः
'चतसृषु चैवंविधासु सर्वोऽपि व्यवहारः परिसमाप्यते।'
(सू० १ वा० भा०)
इति ॥ १३ ॥
किं चात इत्यत आह
अद्वैतहानिरेवं स्या-
न्निष्प्रमाणकतान्यथा ।
भोगसाम्याविमोक्षौ च
यौ नेष्टावात्मवादिभिः ॥ १४ ॥
प्रमाणप्रमेयव्यवहाराङ्गीकरणे सति अद्वैत-
हानिरतः स्वाभ्युपगमविरोधः, तदपह्नवे तु नि-
ष्प्रमाणकत्वम्, किंच भोगसाम्यमविमोक्षश्चा-
त्मवादिभिरनभ्युपगतौ दोषौ प्रसज्येते । सर्वे-
१ स्वसिद्धान्तभङ्गादित्यर्थः ।
६८ मृगेन्द्रतन्त्रे । [ १।२
रेवात्मवादिभिः प्रत्यक्षविरोधभीरुभिर्दृश्यमानं
भोगवैचित्र्यमवश्याभ्युपेयम्, आत्मनां च मु-
क्तिरेष्टव्या निःश्रेयसहेतुतयैव शास्त्राणां प्रवृत्तेः।
तदिह
'नादत्ते कस्यचित्पापं नचैव सुकृतं विभुः।'
(भ० गी० ५।१५)
तथा
'न कर्तृत्वं न कर्माणि...................।'
(भ० गी० ५।१४)
इत्यभ्युपगमात् विचित्रफलदायिनां प्रतिनि-
यतजन्तुकृतत्वेन भोगप्रतिनियमकारिणां क-
र्मणामेवाभावाद्भोगसाम्यप्रसङ्गो दुर्নিবারः।
आत्मनानात्वे हि कश्चित् दुःखितः, कश्चित्
सुखित इति भोगवैचित्र्यमुपपन्नं, नान्यथा। यत
एव संसारितायाः प्रभवस्तत्रैव निरंशे परमा-
त्मनि यदि लयो मोक्षस्तत्पुनरपि तत एव
प्रादुर्भावः, पुनश्च मोक्ष इति सेयं गतानुग-
तिका, नतु मोक्षः। तथाह तत्रभवानव-
धूताचार्यः
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । ६९
'त्वन्मतेश्वरविज्ञाननिष्पन्ना अपि मुक्तयः ।
भजन्ते नाविसंवादमम्भसा इव कुष्टयः१ ॥'
इति । ततश्च मोक्षाभावात्तदुपायानाम्
'आत्मा वा अरे ज्ञातव्यः श्रोतव्यो मन्तव्यः ।' (बृ० उ०)
इत्यादीनामानर्थक्यम् । अपिचास्य परमा-
त्मनश्चेतनाचेतनविश्वोत्पत्तिहेतुत्वे चेतनाचे-
तनत्वं प्राप्तं कार्याणां कारणस्वभावान्वयात् ।
यदाहुः
'तदतद्रूपिणो भावास्तदतद्रूपहेतुजाः ।'
इति । ततश्च विरुद्धयोरन्योन्याभिभवेनैवा-
त्मलाभाद्भावाभावयोरिवैकस्मिन् काले चेतना-
चेतनस्वभावयोः परमात्मनि अवस्थानं नोपप-
द्यते । यथाह तत्रभवान् खेटकनन्दनः
'विरुद्धावेककालस्थौ धर्मावेकाश्रयं गतौ ।
इतरेतरनाशात्तौ कुरुतो लोपमात्मनः ॥' (मो० का० २१)
इति । न चास्यानङ्गत्वात् केनचिदङ्गेन चेत-
नत्वं, केनचिच्चाचेतनत्वं युक्तं, साङ्गत्वाभ्युप-
गमे तु कुसूलादिवत् कार्यत्वात्परमकारणता-
हानिः । किंच यद्यदुपादानकारणं तत्तदचेतनं,
१ जलोपरिकृता रेखाः ।
७० मृगेन्द्रतन्त्रे । [ १।२
यथा मृदादि, अचेतनश्चायं परमात्मोपा-
दानकारणत्वात्, चेतनत्वे नास्योपादानकार-
णत्वम्। अस्त्वचेतनः को दोष इति चेत्, चेत-
नानां कारणं स्वयमचेतन इति विचित्रेयमु-
क्तिः। आचैतन्याभ्युपगमे चास्य बुद्धिमत्कर्त्र-
नधिष्ठितस्य मृत्पिण्डादेरिव न स्वकार्यजनने
सामर्थ्यम्। येऽपि च ग्राहकत्वेन स्वसंवेदनसिद्धा
आत्मानो भोक्तारस्तत उत्पन्ना इत्युच्यन्ते,
तेऽप्युत्पाद्यत्वात् घटादिवदचेतनाः प्रसज्यन्त
इत्यनेकदोषाश्रयस्य परमात्माद्वैतस्यानुपपत्तिः॥
अथैवं वेदान्तवादिनां मते निराकृते का-
पिलोक्तात् प्रकृतिपुरुषविवेकज्ञानान्निःश्रेयसा-
वाप्तिर्भविष्यति । यथाचाहुः
‘एवं तत्त्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेषात् ।’
( सां० का० ६४ )
‘ऐकान्तिकमात्यन्तिकमुभयं कैवल्यमाप्नोति ॥’
( सां० का० ६८ )
इति । श्रुतिरप्याह
‘अजामेकां लोहितशुक्लकृष्णां
बह्वीः प्रजा जनयन्तीं सरूपाः ।
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । ७१
अजो ह्येको जुषमाणोऽनुशेते
जहात्येनां भुक्तभोगामजोऽन्यः ॥' (श्वेत० ४।५)
इति । एतदपि निराकर्तुमाह
सांख्यज्ञानेऽपि मिथ्यात्वं
कार्ये कारणबुद्धितः ।
सांख्यज्ञानेऽप्येतदसम्यक्त्वं, यत्कार्ये मा-
योद्भूतकलाजनिते प्रधाने, कारणबुद्धिः पर-
मकारणताभ्रमः,
'मूलप्रकृतिरविकृतिः' (सां० का० ३)
इति हि तेषामभ्युपगमः, कलादीनां तत्त्वानां
पृथक्पृथगुपलभ्यमानप्रयोजनानां कारणभू-
तस्य जगन्निधिभूतस्य मायात्मनोऽनवगमात् ।
उक्तं च क्वचित्
'गुणतत्त्वोर्ध्वभोग्यस्य कर्मणोऽनुपलब्धितः ।
कैवल्यमपि सांख्यानां नैव युक्तमसंशयात् ॥'
(प० मो० नि० का० ५२)
इति । तदयमर्थः-येयं कापिलैः परमकारण-
तया परिकल्पिता सत्त्वरजस्तमोलक्षणगुणत्रय-
साम्यात्मिका प्रकृतिः, तस्यास्तावन्न गुणेभ्यो-
ऽन्यत्वम् । गुणा एव प्रकृतिरिति हि ते प्रतिजा-
७२ मृगेन्द्रतन्त्रे । [ १।२
नते, गुणेभ्योऽनन्यत्वे चावश्यमनेकत्वमस्याः ।
यच्चाचैतन्ये सत्यनेकं तत्कारणान्तरपूर्वकं, यथा
तन्तवो मृत्पिण्डा वा, सति च कारणान्तरपूर्व-
कत्वे न परमकारणता । इदं च ते प्रष्टव्याः
दृष्टदृश्ययोः संयोगः संसारहेतुस्तत्पूर्वकश्च
वियोगोऽपवर्गकारणमिति यदुच्यते, तत्र संयो-
गस्तावत् पुंप्रधानयोर्द्रष्टृदृश्यलक्षण एव,
न परस्पराश्लेषरूपः उभयोरप्यमूर्तत्वेन तादृ-
शस्यानुपपत्तेः । प्रधानं च न स्वतो दृश्यमप्र-
त्यक्षत्वेन तस्येष्टत्वात् । नच महदहंकारादि-
रूपेण परिणतेः द्रष्टा तद्द्रष्टुं शक्नोति । ततश्च
कथमनयोराद्यः संयोगः, तदभावाच्च कथं त-
त्पूर्वको वियोगः । एवं च संयोगवियोगानुप-
पत्तेरकारणत्वमेव पुरुषार्थं प्रति प्रधानस्य ॥
इतश्च मिथ्यात्वमेतदीयस्य ज्ञानस्य । कुत
इत्याह
अकर्तृभावाद्भोक्तुश्च
अभोक्तुः पुरुषस्य भोगायतनेन देहेन भोग-
साधनैरिन्द्रियैर्भोक्तव्यैरिन्द्रियार्थैर्भोगेन च सु-
खदुःखवेदनात्मना फलेन किं प्रयोजनम् ।
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ७३
यतश्चास्य भोगस्तदधिकरणतत्साधनसहि-
तोऽस्ति, अतो भोक्तृत्वमपह्नोतुमशक्यम्। यश्च
भोक्ता स कथमकर्ता अकर्तरि कारणादिसंब-
न्धस्य निरर्थकत्वात् । दृक्क्रियात्मकत्वमेव स्वरूपं
चैतन्यस्य, ततश्च कर्तृत्वनिरासात् ज्ञत्वमपि
निरस्तं संवेदनस्यापि क्रियात्मनः कर्तृत्वान-
पगमात् । नहि अकर्तुः संवेदनं चाप्युपपन्नम् ॥
इतश्च सांख्यज्ञानस्य मिथ्यात्वमाह
स्वातन्त्र्यादप्यचित्त्वतः ॥ १५ ॥
अचेतनमपि प्रधानं बुद्धिमत्कर्तृप्रेरणं विना
स्वातन्त्र्येण कथं कार्यकारणे प्रवर्तते । नह्यनुसं-
धानशून्यस्य बुद्धिमतोऽपि घुणकीटस्येवाक्षर-
लेखने प्रवृत्तिर्युक्ता, किं पुनः परिणामिनो ज-
डस्य । यश्चात्र चेतनः पुरुषः स तदधीनो न
कर्तेति प्रकृतिस्थानां नेयमुक्तिरुचिता ॥ १५॥
इदानीमनेकान्तवादि निराकरणाय संख्या-
तस्तन्मतं पूर्वपक्षयितुमुच्यते
इह सप्त पदार्थाः स्यु-
र्जीवाजीवास्रवास्त्रयः ।
१०
७४ मृगेन्द्रतन्त्रे। [ ११२
संवरो निर्जरश्चैव
बन्धमोक्षावुभावपि ॥ १६ ॥
स्याद्वादलाञ्छिताश्चैते
सर्वेऽनैकान्तिकत्वतः ।
तत्र तावत् जीवपदार्थस्तत्तन्नरीत्या जीवा-
स्तिकायसंज्ञया परिभाषितः । त्रिविधश्चासौ अ-
नादिसिद्धमुक्तबद्धभेदात् । अत्रानादिसिद्धोऽर्हन्
जीवास्तिकायाख्यः, व्यपेतमोहादिबन्धो मुक्तः,
तदावृतस्तु बद्धः । अजीवपदार्थोऽपि पुद्गलाका-
शधर्माधर्मास्तिकायैश्चतुर्भेदैर्भिन्नः । अत्रापि पृ-
थिव्यादिमहाभूतानि चत्वारि, तृणगुल्मादिल-
तादिरूपं स्थावरं, जरायुजाण्डजस्वेदजोद्भिज्ज-
भेदभिन्नं जङ्गमं चेति षट्प्रकारोऽयं पुद्गलास्ति-
कायः । आकाशास्तिकायो द्विरूपः लोकाकाशा-
स्तिकायोऽलोकाकाशास्तिकायश्चेति
‘लोकानामन्तराकाशं लोकाकाशमिति स्मृतम् ।
अलोकाकाशास्तिकायो बहिस्तेषां स कीर्तितः ॥’
धर्मास्तिकायः पुद्गलास्तिकायादन्योऽभ्युदय-
हेतुः । अधर्मास्तिकायोऽपि तत्प्रतिबन्धकृ-
दित्यमसावजीवपदार्थश्चतुष्प्रकारः । आ-
स्रवश्चक्षुरादीन्द्रियपञ्चकस्य यथास्वं प्रवृत्तिः ।
तथाचाहुः
'वृत्तिः पञ्चविकल्पा ध्रुवाध्रुवा चक्षुरादिवर्गस्य ।
यैषा स्रवत्यजस्रं यतस्ततोऽसाविहास्रवः प्रोक्तः ॥'
इति । इन्द्रियसंयमलब्धप्रतिष्ठं ध्यानमास्रव-
निरोधात्मकत्वात् संवृणोत्यास्रवमिति संवरः ।
तप्तशिलाशयनकेशोल्लुञ्चनादितपःसंचयनिर्जी-
र्णवीर्यं कर्म निर्जरशब्देनोच्यते । नानानि-
रयसंसरणकारणं मोहादिरष्टविधो गणः स्वात-
न्त्र्यविघातहेतुत्वात् बन्धः । उक्तं च
'मोहादिको गणश्चैष बन्धो जीवस्य कल्पितः ।
लोहपञ्जरसंबद्धं यथा क्षिप्तं जलाशये ॥
अलाबुकमधो याति तद्वज्जीवः सबन्धनः ।'
इति । प्रक्षीणसर्वावरणत्वात् स्वातन्त्र्यसंप्राप्तौ
ऊर्ध्वपदासादनं मोक्षः । यदाहुः
'लोहपञ्जरविच्छेदात्प्लवतेऽलाबुकं यथा ।
आरोहति तथा मोक्षं जीवो मोहादिसंक्षयात् ॥
नित्यबोधसुखाद्यैश्च धर्मैर्युक्तः स तिष्ठति ।'
इति । एते च सप्त पदार्थाः स्याद्वादानुगताः।
तथाहि देहग्रहणात्पूर्वं जीवः किमस्ति उत
नेति यः पर्यनुयुङ्क्ते, तं प्रत्यनेकान्तवादोऽभ्युपग-
न्तव्यः । स्यादस्ति, स्यान्नास्ति, स्यादस्ति च
७६ मृगेन्द्रतन्त्रे । [ ११२
नास्ति च, स्यादवक्तव्यं, स्यादस्ति चावक्तव्यं,
स्यान्नास्ति चावक्तव्यं च, स्यादस्ति च नास्ति
चावक्तव्यं चेति । अत्र हि यद्यत्पर्य्यनुयोज्यं,
तत्तत्सदसत्तया समाधेयम् । तत्र वाच्यतया-
वाच्यतयापि च विरोधहानिस्तु घटनीयेति ।
‘सप्तभङ्ग्यमोघब्रह्मास्त्रवतामजेयमिह किं तत् ।
यत्स्यादस्ति स्यान्नास्ति स्यादिति पुद्गलिभिर्आरभ्यते
जगत्सर्वम् ॥’
इति । ननु चानेकान्तवादिना तावदेकान्तान-
भ्युपगमान्नियमेनानेकान्तवादोऽभ्युपगन्तव्यः,
तथाच स्वसिद्धान्त एवैकान्त इति कुतः
सर्वत्र सप्तभङ्गी ? नैष दोषः अनेकान्तवादे-
ऽप्येकान्तानभ्युपगमात्, यतः स्यादनेकान्तः,
स्या
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । ७७
स्यादस्ति स्यान्नास्ति चेति यदुक्तं, तदसं-
गतम् । नहि यद्यदैव वस्तु अर्थक्रियाकारितया
सत्त्वेनावगम्यते, तत्तदानीमेवासत्त्वेनैकान्ततः
कश्चिदप्यवैति । कः किलानुद्भ्रान्तमतिः पुरः-
प्रस्फुरद्रूपे सदितिप्रत्ययकारिणि घटादौ नाय-
मस्तीति बुद्धिं कुर्यात्, असति च तस्मिन्
प्रख्योपाख्याविरहिणि सत्तां निश्चिनुयात्, वि-
धिनिषेधरूपयोर्भावाभावयोः परस्परपरिहारे-
णैवात्मलाभात् । अभावो हि तदसंभवलब्ध-
जन्मापि यदि तेनैव भावेन सहितः स्यात्त-
दानीमभाव एव न स्यात् तदुपमर्दनेनैव तस्य
स्वरूपसिद्धेः । एवं भावोऽपि यदि स्वप्रतिप-
क्षेणाभावेनाव्यतिरिक्तो भवेत्तर्हि भाव एव
न भवेत् ॥ १७ ॥
ननु घटरूपेण स्वात्मनास्ति घटः, परा-
त्मना पटरूपेण नास्तीति सदसत्त्वमुक्तम् ।
नतु तद्युक्तम् । किं किलैतावता प्रतिपादितं
स्यात् घटः पटात्मना न भवति घटे वा पटो
नास्ति । तदेतदभिमतमेव अतदात्मकत्वेन त-
७८ मृगेन्द्रतन्त्रे । [१।२
त्राविद्यमानत्वात् । पटाद्भिद्यमानोऽयं घटोऽन्य
एवेति सिद्धं साध्यते । तदाह
सदन्यदसदन्यच्च
तदेवं सिद्धसाध्यता ।
ननु स्वात्मना यथा घटः स्वसामर्थ्यक्रियां
करोति, एवं पटात्मनापि तत्कार्यं कुर्यात्, न
च करोति, अतः पटात्मना नास्ति, यदि स्वा-
त्मनापि परात्मवन्न स्यात्, तदा स्वकार्यमपि न
कुर्यात् तस्मादस्ति च नास्ति चेत्युक्तम् । तथै-
तद्घटत्वमघटत्वं च परस्परमभिन्नम् । भेदे हि
तद्बुद्ध्यभिधानानुवृत्तिर्न स्यात् , घटश्चाघटश्चेति
सामानाधिकरण्यं च न भवेत् । अस्ति चैतत् ,
तस्मादुभयात्मकोऽसौ क्रमेण तच्छब्दाभिधेय-
तामुद्वहन् स्यात् घटश्चाघटश्चेत्यविरोधः । एत-
दप्ययुक्तं यतो नास्ति कश्चिदभेदः । तथाहि
अघटशब्दे घटो न भवतीति प्रसज्यप्रतिषेधो
वा स्यात्, घटादन्यः पटादिरिति वा पर्यु-
दासः । आद्ये पक्षे घटश्चाघटश्च स्यादित्युक्ते
घटाघटयोर्व्यतिरेकाद्धटस्याभाव एव घट
इत्यभिप्रेतम् । एवं चेष्यमाणे सर्पाभावेऽपि
सर्प एव स्यात् । तथा च सति सर्पादिवत्
तद्भावादपि भयं स्यात् । ससर्पनिःसर्पदे-
शयोः सम एवोपलम्भो भवेत् । पर्युदासपक्षे-
ऽपि घटत्वादन्यदघटत्वं भिन्नमेव पटत्वादिकं
कथ्यते । तच्च घटत्वाद्भिन्नम्। अभेदे हि घटादि-
ष्वपि पटबुद्ध्याभिधानानुवृत्तिर्न स्यात् । घटादा-
वपि स्पष्टे घटप्रत्ययश्च न स्यात्। तस्मान्न घटा-
घटयोरभेद इति न सदसतोरेकाश्रयत्वम् ॥
किंच
असज्जघन्यं सच्छ्रेष्ठ-
मित्यपि ब्रुवते बुधाः ॥ १८ ॥
नैकत्र तदपेक्षातः
स्थितमेवोभयं ततः ।
यदपि सदसच्छब्दाभिधेयं श्रेष्ठाश्रेष्ठरूपं
वस्तु, तदपि तद्विदो नैकत्राभिदधति तस्यापि
भिन्नविषयत्वात्। नहि यदेवाश्रेष्ठं, तदेव श्रेष्ठ-
मिति वक्तुं शक्यम् । अयमेव हि भावानां
भेदः-यद्विरुद्धधर्माध्यासः । अथ मतं यत्तच्छ्रे-
ष्ठाश्रेष्ठत्वं, तदेकत्र संभवत्येव अपेक्षावशात् ।