मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
: ज, रो
Before that:
क्त (kta) -> 1 glyph
Before that:
त्त्य (ttya) -> 1 glyph
Before that:
वे (ve) -> 1 glyph!
Before that:
द्भ (dbha) -> 1 glyph!
WAIT! Let's re-examine that!
Let's list all glyphs from left to right in line 14:
Glyph 1: ?
Glyph 2: ?
Glyph 3: ?
Glyph 4: क्त (kta)
Glyph 5: ज (ja)
Glyph 6: रो (ro)
Glyph 7: व (va)
Glyph 8: शी (śī)
Glyph 9: । (daṇḍa)
Wait, what are Glyphs 1, 2, 3?
Let's look at Glyph 3:
It has:
top bar
a 'त्' and 'त्य' = 'त्त्य'
Wait, Glyph 3 is 'त्त्य'.
Glyph 2:
It has:
top bar
an e-matra?
Wait, does it have an e-matra?
Look at Glyph 2:
It is: 'वे'? No, wait!
Glyph 2 has:
a top bar,
a vertical going down,
a curved stroke... it looks like 'च'?
Wait, does Glyph 2 have an e
३२ मृगेन्द्रतन्त्रे । [ २११
- 'वृत्तिः प्रणयनं नाम यत्तज्जीवनमुच्यते ।'
इति प्रणयनस्य जीवनरूपत्वेनोक्तत्वात् । जिता
त्वपनयनाख्या अपानवृत्तिर्येन स तादृग्विधो
योगी अश्नन्नपि निर्मलदेहो भवति, अपान-
जयाद्धि विण्मूत्रादिमलभावेन नास्य पानाश-
नादि परिणमति अपि तु रसधातुभावेनैव,
अतः शकृदादिमलोज्झित एवैष संपद्यते ।
सर्वदेहिनां हि रसमलधातुभावेनान्नपानपरि-
णतिर्भवति । विजिता चोन्नयनाख्योदानवृत्ति-
र्येनासौ अलौकिककवित्ववक्तृत्वरूपवाक्स्वात-
न्त्र्यप्रभृतीन् गुणान् प्राप्नोति । येन तु समान-
वृत्तिर्विजिता स सर्वदा जरावर्जितः सर्वंसह-
स्ववशदेहो भवति । विनमनाख्ये च व्यानवृ-
त्तिव्यापारे कृतजयः स्वेच्छया वपुषि विहरति,
ब्रह्मरन्ध्रेण श्रवणच्छिद्रादिना वा मरुत्प्रेरणाक-
र्षणादौ शक्तः स्यादित्यर्थः । तथा कर्दमजल-
कण्टकाद्युपविष्टस्यापि तैरसंपर्कोऽनाश्रयरूपः,
अविनश्वरं चास्य बलं संजायते ॥
एवमानुषङ्गिकप्रश्नप्रतिवचनादनन्तरं प्रकृ-
तमभिधीयते
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ३३
धारणा द्वादश ध्यानं
दिव्यालोकप्रवृत्तिदम् ॥ ४९॥
समाधिरणिमादीनां
द्वादशैतानि कारणम् ।
द्वादशभिः सगर्भैः कुम्भकैर्धारणा पूर्वमुक्ता ।
ताश्च द्वादश ध्यानं ज्ञेयम् । तच्च दिव्यामलौ-
किकीमालोकप्रवृत्तिं प्रकाशाविर्भूतिं ददातीति
दिव्यालोकप्रवृत्तिदमिति तदभ्यासस्य फलमु-
क्तम् । एतानि च द्वादश ध्यानानि समाधिरि-
त्युच्यते । स तु अणिमादिदिव्यसिद्धिकारणम् ।
अभ्यस्तैवंविधसमाधेरणिमाद्याविर्भावः स्यात् ॥
प्राणायामं विनाप्येवं
वश्यात्मा चेतसि स्थितः ॥५०॥
समभ्यस्यन्नवाप्नोति
गुणानुक्ताननन्तरम् ।
एवमनेन प्रकारेण आत्मनि नित्ययुक्ततया
वश्यात्मा योगी विनापि प्राणायामेन क्वचि-
दपि देशे कृतनिरोधायां चित्तवृत्तौ स्थित एव
५ मृ. यो.
३४ मृगेन्द्रतन्त्रे । [ १११
तदभ्यस्यन् स आनन्तर्येण एतानुक्तान् गु-
णान् अणिमादीन् लभते ॥
किं च
यद्यद्वस्तु यथोद्दिष्ट-
क्रमयोगात् प्रपद्यते ॥ ५१ ॥
तत्र तत्रास्य चिद्व्यक्ति-
स्तद्व्याप्तिविषया भवेत् ।
इति बाह्ये स्थिते सर्व-
माकलय्य स्वचक्षुषा ॥ ५२ ॥
सर्वान् पदार्थान् संत्यज्य
शिवतत्त्वं समभ्यसेत् ।
यथोक्तक्रमाभ्यासाद्यद्यत्पृथिव्यादि शिवा-
न्तं तत्त्वं प्रतिपद्यते धारणादिना स्वात्मीक-
रोति तत्र तत्रास्य योगिनस्तद्व्याप्तिविषया स्व-
संविद्व्यक्तिर्भवति । तथाहि-आदौ पृथिव्या-
दितत्त्वानां शिवमन्त्रमहेश्वरमन्त्रेश्वरमन्त्रविज्ञा-
नाकलप्रलयाकलसकलैः सप्तभिः शक्तिमद्भि-
१ 'कलय्यैव चक्षुषा' क. 'कल्प्यैवं स्व'-ख. ।
रैतावतीभिरेवैतच्छक्तिभिः स्वरूपेण पृथिव्या-
दीनां सहैकैकस्य पञ्चदशप्रकारतया जाग्रदादि-
भेदेन पिण्डस्थादिरूपतया च यावती व्याप्तिः।
यथोक्तं श्रीमन्मालिनीतन्त्रे
'शक्तिमच्छक्तिभेदेन धरातत्त्वं विमृद्यते ।
स्वरूपसहितं तच्च विज्ञेयं दशपञ्च च ॥
शिवादिसकलात्मानः शक्तिमन्तः प्रकीर्तिताः ।
तच्छक्तयश्च विज्ञेयास्तद्वदेव विचक्षणैः ॥
एवं जलादिमूलान्तं तत्त्वव्रातमिदं महत् ।
पृथग्भेदैरिमैर्भिन्नम्......................॥'
इत्यादि । तदेवं तावद्व्याप्तिकस्य योगिनः संवित्
तावतीत्येवं श्रीमत्कामिकतन्त्रे श्रुतम् । यद्वाह्यं
तस्मिन् स्थिते सर्वं वस्तु स्वदृग्गोचरतां प्राप्तं
बुद्ध्वा शिवव्यतिरिक्तान् सर्वानैव तान् पदा-
र्थान् सर्वाध्वपर्यन्तवर्तिशिवपदप्राप्तिहेतुत्वात्
विद्याप्रभृतींस्त्यक्त्वा शिवतत्त्वमभ्यस्येत् तदेक-
निष्ठः स्यात् । 'हेयान् पदार्थान्संत्यज्य' इति
पाठे स्पष्ट एवार्थः ॥
शिवगर्भान्समातिष्ठन्
प्राणायामादिकानपि ॥ ५३ ॥
१ 'जाग्रदादिशिवभेदेन' क.
३६ मृगेन्द्रतन्त्रे । [ २११
जहाति जन्तुर्यः प्राणान्
स शिवत्वं प्रपद्यते ।
आस्तां तावद्व्याप्तिविषया चिद्व्यक्तिर्वक्ष्य-
माणोत्क्रान्तिविधिं विनापि परमेश्वरध्यानज-
पगर्भान् प्राणायामान् कुर्वन् यो जन्तुः प्राणां-
स्त्यजति स शिवतामेति अपवृज्यते इत्यर्थः ॥
अथात्र मुनिः प्रश्नयति
रूपं परं महेशस्य
ध्यातुं शक्यं न जातुचित् ॥५४॥
वैचित्र्यात्कल्पितं भ्रान्त्यै
तत्रास्था चेतसः कथम् ।
किल निष्कलस्वरूपस्य तावद्भगवतः स्वरूपं
निराकारत्वे सति नीरूपत्वात् ध्यातुं न शक्यम् ।
यदाहुः
‘आकारवांस्त्वं नियमादुपास्यो
न वस्त्वनाकारमुपैति बुद्धिः ।'
इति । अथास्य परमार्थतो रूपासंभवेऽपि ध्या-
यिनां चित्तवृत्तिनिबन्धनभूताकारविशेषकल्प-
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ३७
ना, तर्ह्येतत्कल्पितं रूपं श्वेतपीतरक्तादिवैचि-
त्र्यात् भ्रान्त्यै स्यात् । कथं तत्र चेतस आस्था
स्थितिः । कल्पितत्वेनासत्यरूपविषये स्वभाव-
चञ्चलस्य चेतसः कथं नियमनमिति प्रश्नः ॥
अथात्र समाधिः
पार्थिवाप्ये विचित्राङ्के
न ध्येये धारणे तदा ॥ ५५ ॥
तथाप्यभ्यासतः सिद्धाः
श्रूयन्ते योगिनस्तयोः ।
सत्यम्, अरूपस्य भगवतः स्वरूपमुक्तेन
क्रमेण ध्यातुमशक्यम् । तत्र तु निरालम्बनो-
पदेशक्रमेण तत्स्वरूपावाप्तिर्भविष्यति । यत्तु
'वैचित्र्यात्कल्पितं भ्रान्त्यै'इत्युक्तं न तावद्यु-
क्तम्, आगमोपदिष्टस्य ध्यानस्य परमार्थत्वेन
काल्पिकत्वानुपपत्तेः, तदुपदिष्टतत्तद्विविधवि-
ध्यनुष्ठानस्य काल्पिकत्वाभ्युपगमे सति दीक्षादे-
रप्यसत्यत्वादानर्थक्यमिति कृतमागमेन । किं
च वैचित्र्याद्ध्येयं प्रति ध्यानमशक्यमिति यदु-
१ 'तस्यैत' क.
च्यते तदास्तां तावत्, परमेश्वराकृतिचिन्त-
नमय्यावपि एते सुस्पष्टपार्थिववारुण्याख्ये द्वे
धारणे सकलसामान्ययोगशास्त्रप्रसिद्धे, ते अपि
विचित्ररूपवज्राङ्कितत्वात् सितसलिलोत्पलला-
ञ्छितत्वाच्च न ध्येये ध्यातुं न शक्ये । न चैवात्रा-
भ्युपगमो युक्तः, यतस्तयोः पार्थिवाप्ययोः
धारणयोस्तथा तथा रूपवैचित्र्ये सत्यपि सा-
भ्यासानां योगिनामनेकाः सिद्धयः श्रूयन्ते ॥
तथैवमागमोपदिष्टस्य धारणाफलस्यानेकशेः
साभ्यासयोगिलब्धस्यापि येयं प्रतीतिः तस्यां
सत्यामपि
भोगविप्लुतचित्तस्य
कथं स्याच्चित्तसंस्थितिः ॥५६॥
नाधिकृत्याविरक्तानून्
प्राहेदं साधनं हरः ।
अथोच्यते जन्मसहस्रसा²त्मीकृतविविधभो-
गाभ्यासविक्षिप्तचेतसां कथमतिचञ्चलस्य चे-
१ 'कशोऽभ्या' क. । २ 'स्वाङ्गीकृत' क. ।
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ३९
-तसः संस्थितिः सम्यक् निरुद्धसकलवृत्तित्वे-
-नावस्थानं स्यात् । यथोक्तं
‘चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् ।
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥’
तथा
‘अपि चण्डानिलोद्धूततरङ्गस्य महोदधेः ।
शक्यते प्रसरो रोद्धुं विषयेभ्यो न चेतसः ॥’
इति । नैतद्युक्तम्, यतो नेदं योगाख्यं साधनम-
विरक्तान् जन्तून् अधिकृत्य परमेश्वर आदि-
देश अपि तु प्रचुरवैराग्यनिर्झरनिर्धूतभवभो-
गस्पृहाकलङ्काः केऽप्येव सुचिरं संजातनिः-
सारसंसारभोगविजुगुप्साः पात्रमत्रेति । न चा-
भ्यासवतां किमपि दुष्प्रापं दृष्टेऽपि संभवति ॥
अतश्च
शक्यते विषयीकर्तुं
जगदप्यखिलं शनैः ॥५७॥
किमु चित्रं वपुर्दान्तै-
र्वैराग्याभ्यासशालिभिः ।
वैराग्येण नैःस्पृह्येणाभ्यासेन च पुनःपुन-
४० मृगेन्द्रतन्त्रे । [ २१
स्तदासेवनात्मकेन शालन्ते शोभन्ते इति वैरा-
ग्याभ्यासशालिनः दान्ताश्चोपशमयुक्ताः । एवं-
विधैर्यगिभिः शनैर्शनैर्निखिलमपि जगत् धार-
णाव्याप्तिक्रमेण गोचरीकर्तुं शक्यते, किं पुन-
र्ध्येयं चित्रं पारमेश्वरं वपुरिति ॥
एवं सालम्बनं योगमुपदिश्य प्रकृष्टमना-
लम्बनमुपदेष्टुं भूमिकां विरचयति ।
केयं वा रूपकेयत्ता
सर्वाधिष्ठानयोगिनः ॥५८॥
सर्वदा सर्वभूतानां
सर्वाकारोपकारिणः ।
स्थानरूपप्रमाणानि
परिकल्प्य स्वचेतसा ॥५९॥
यत्रोपरमते चित्तं
तत्तद्धेयं पुनः पुनः ।
यद्वा सर्वाधिष्ठानयोगिनः परमेश्वरस्येयमेव
श्वेतादिवर्णा दशभुजा पञ्चवक्त्राद्याकृतिर्ध्या-
तव्या इति कोऽयमेवंविधं रूपं प्रति नियमो
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ४१
न कश्चिदित्यर्थः । विततवैभवविजृम्भावतः
परिमितरूपाकृतिस्थानोपासनमसमीचीनमेव
किल भगवतः । अतश्च बहिरन्तर्वाविचलित-
चेतसा स्थानरूपप्रमाणाकृत्यादि परिकल्प्य यत्र
यत्र भावशरीरे भूतशरीरे वा चित्तमुपशाम्यति
तत्र तत्र भूयोभूयः प्रयत्नवता गुरूपदेशसम-
धिगतयुक्तिना ध्यातव्यम्। उक्तं च पारमेश्वरे
'नेन्द्रियाणि न च प्राणा न मनो धिषणेषणा ।
नाहमस्मि न चान्योऽस्मि चित्तस्य प्रलयस्ततः ॥
चित्तक्षयः परावाप्तिरिति सत्यं गणाम्बिके ।'
इति ॥
अथास्यैव फलमाह
तेनास्य चेतसः स्थैर्यं
सविशेषगुणं शनैः ॥ ६० ॥
उन्मील्य योगसंस्कारं
हतविघ्नस्य जायते ।
'तत्रास्था चेतसः कथम्' इति यत् प्राक् पर्य-
नुयुक्तं तदर्थमिदम् । तेनामुना प्रागुक्तेन योगे-
नास्य योगिनो निर्विघ्नस्य च सतः चेतसः स्थैर्य-
६ मृ. यो.
४२ मृगेन्द्रतन्त्रे । [१११
मचाञ्चल्यं परस्वरूपविश्रान्तेरतिविलक्षणं जा-
यते । कीदृशं तत्स्थैर्यमित्याह-सविशेषगुणं
सविशेषाः सातिशया गुणाः प्रागुक्ता अणिमा-
दयो यत्र तत्तथा। किं कृत्वैतत्तु उत्पद्यते इत्याह-
शनैर्योगसंस्कारमुन्मील्य क्रमेण योगसंस्कारं
तल्लयरूपं प्रकाश्य तद्वासनाधिष्ठितत्वात् तद्व्य-
वहारावस्थितस्यास्य निर्विघ्नस्य सतस्तत्रैव चित्त-
स्थैर्यं जायते इत्यर्थः ॥
एवमतिष्ठतः सम्य-
ग्विनैवाकारकल्पनाम् ॥ ६१ ॥
अकिञ्चिच्चिन्तकस्यास्य
रूपमुन्मीलति स्वकम् ।
सर्वार्थदृक्रियारूप-
मानन्दमयमव्ययम् ॥ ६२ ॥
यत्प्राप्य न पुनर्दुःख-
योगमेत्यशिवावहम् ।
एवमेनं प्रागुक्तं योगविधिं सम्यक् शुद्धा-
भ्यासातिशयवशेनाकारकल्पनां विनाप्यनुति-
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते। ४३
ष्ठतो योगिनोऽकिंचिच्चिन्तकस्य किंचिदप्यचि-
न्तयतश्चित्तक्षयात् स्वात्मन्येव निस्तरङ्गमहोद-
धिप्रशान्तेऽवस्थितस्य स्वकं निजं रूपमुन्मीलति
विकसति अपरिमितं संपद्यते, प्रसरन्निरावरण-
निजस्वरूपो भवति इत्यर्थः । कीदृक् स्वकं रू-
पमुन्मीलतीत्याह—सर्वार्थदृक्क्रियारूपमित्यादि,
सर्वार्था सर्वविषया दृक् ज्ञानं क्रिया च व्यापा-
ररूपा ते एव रूपं यस्य । यतः
‘ज्ञानक्रिये शिवे प्रोक्ते सर्वार्थे निर्मले परे ।’
इति यच्छिवरूपमागमेषूपदिष्टं तदानन्दमयम-
नुरूपमाह्लादसुन्दरमव्ययं चाविनश्वरमस्य यो-
गिन एवमभ्यस्यतोऽभिव्यज्यते । यत्प्राप्तेर्ज-
न्ममरणादि अशिवमश्रेय आवहतीत्यशिवावहं
संसारलक्षणं दुःखयोगं नैति न प्राप्नोति ।
उक्तं च श्रीमदवधूतगुरुणा
‘यथा नीता रसेन्द्रेण धातवः शातकुम्भताम् ।
पुनरावृत्तये न स्युस्तद्वत्तन्मतचोदिताः ॥’
इति ॥
अत्र स्वरूपप्रशंसापूर्वमतिरहस्यतया सर्वान्
प्रति अप्रकाश्यत्वमभिधातुमाह
४४ मृगेन्द्रतन्त्रे । [ ११
एतत्समस्तगुह्यानां
गुह्यं सिद्धामरस्तुतम् ॥ ६३ ॥
साक्षादालोचनं शम्भो-
रत्युत्पावनमुत्तमम् ।
नाल्पकालोषितायैत-
देयं नातिप्रमादिने ॥ ६४ ॥
नामेधिने नातपसे
यश्च नाभ्यर्चयेच्छिवम् ॥
यत एतत्सर्वेषां रहस्यानामप्यतिशयेन गूह-
नीयं निरतिशयनिःश्रेयसावाप्तिहेतुत्वात् , अत
एव च सिद्धैरमरैश्चाभिष्टुतम् । साक्षात् परमे-
श्वरस्य तेजसः प्रकाशकत्वादत्युत्कृष्टं पावनं
पवित्रताहेतुः तस्मादेतन्नाल्पकालोषितायान-
तिचिरोपसन्नत्वात् अविज्ञातनिरतिशयश्रद्धा-
भक्तियोगाय शिष्याय, नातिप्रमादिने सप्रमा-
दाय न चाल्पप्रज्ञायानयोरुभयोरपि रक्षितु-
मशक्यत्वात् । नाप्यतपसे नियमविरहिताय ।
न च यः परमेश्वरार्चनं न करोति । एतयोर-
१ 'ज्ञानयोगयोरपि' ।
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ४५
प्रमादित्वांजडत्वे सत्यपि तपोविरहात् भक्त्य-
योगतश्चानधिकृतत्वात् ॥
तदेवमस्यापि योगविधेर्भुक्तिमुक्तिलक्षणं
फलमवगन्तव्यमित्येतदुपसंहाराय पुरस्ताद्-
भिधास्यमानचर्यापादोपक्षेपाय चायं श्लोकः
अस्याभ्यासाद्दिव्यसिद्ध्यंशुजालै-
रिष्टान् लोकान् रोरुचानो विहृत्य ।
काले हित्वापास्रवं देहमास्ते
स्वात्मन्येवाश्चर्यचर्याधिवासः ॥
अस्यैवंविधस्य निरालम्बनस्य योगस्याभ्यासः
पुनःपुनःसेवनं तस्माद्दिव्या अलौकिक्यश्चतुः-
षष्टिगुणा अणिमादिसिद्धयो येषां ते दिव्य-
सिद्धयः अंशुजालाः शक्तिप्रसराः तैः, रोरुचानो
वितततेजःपुञ्जत्वात् देदीप्यमानः सन् अभि-
मतान् लोकान् यथेच्छं विहृत्य इति तेषु
स्वर्गादिलोकेषु विहरणं क्रीडालक्षणं निर्वर्त्य,
अपगतानि बाह्यविषयैकग्रहणप्रवणानि अन्त-
रात्मोपलम्भपराङ्मुखानि आस्रवन्ति बहिः सा-
त्येन गच्छन्तीति आस्रवशब्दवाच्यानीन्द्रि-
४४ मृगेन्द्रतन्त्रे । [ १।१
एतत्समस्तगुह्यानां
गुह्यं सिद्धामरस्तुतम् ॥ ६३ ॥
साक्षादालोचनं शम्भो-
रत्युत्पावनमुत्तमम् ।
नाल्पकालोषितायैत-
द्देयं नातिप्रमादिने ॥ ६४ ॥
नामेधिने नातपसे
यश्च नाभ्यर्चयेच्छिवम् ॥
यत एतत्सर्वेषां रहस्यानामप्यतिशयेन गूह-
नीयं निरतिशयनिःश्रेयसावाप्तिहेतुत्वात्, अत
एव च सिद्धैरमरैश्चाभिष्टुतम् । साक्षात् परमे-
श्वरस्य तेजसः प्रकाशकत्वादत्युत्कृष्टं पावनं
पवित्रताहेतुः तस्मादेतन्नाल्पकालोषितायान-
तिचिरोपसन्नत्वात् अविज्ञातनिरतिशयश्रद्धा-
भक्तियोगाय शिष्याय, नातिप्रमादिने सप्रमा-
दाय न चाल्पप्रज्ञायान^१योरुभयोरपि रक्षितु-
मशक्यत्वात् । नाप्यतपसे नियमविरहिताय ।
न च यः परमेश्वरार्चनं न करोति । एतयोर-
१ 'ज्ञानयोगयोरपि' ।
प्रमादित्वाञ्जडत्वे सत्यपि तपोविरहात् भक्त्य-
योगतश्चानधिकृतत्वात् ॥
तदेवमस्यापि योगविधेर्भुक्तिमुक्तिलक्षणं
फलमवगन्तव्यमित्येतदुपसंहाराय पुरस्ताद्-
भिधास्यमानचर्यापादोपक्षेपाय चायं श्लोकः
अस्याभ्यासाद्दिव्यसिद्ध्यंशुजालै-
रिष्टान् लोकान् रोरुचानो विहृत्य ।
काले हित्वापास्रवं देहमास्ते
स्वात्मन्येवाश्चर्यचर्याधिवासः ॥
अस्यैवंविधस्य निरालम्बनस्य योगस्याभ्यासः
पुनःपुनःसेवनं तस्माद्दिव्या अलौकिक्यश्चतुः-
षष्टिगुणा अणिमादिसिद्धयो येषां ते दिव्य-
सिद्धयः अंशुजालाः शक्तिप्रसराः तैः, रोरुचानो
वितततेजःपुञ्जत्वात् देदीप्यमानः सन् अभि-
मतान् लोकान् यथेच्छं विहृत्य इति तेषु
स्वर्गादिलोकेषु विहरणं क्रीडालक्षणं निर्वर्त्य,
अपगतानि बाह्यविषयैकग्रहणप्रवणानि अन्त-
रात्मोपलम्भपराङ्मुखानि आस्रवन्ति बहिः सा-
तत्येन गच्छन्तीति आस्रवशब्दवाच्यानीन्द्रि-
याणि यस्मात् तमपास्त्रवं परिहृतबहिर्वृत्तित्वेन-
सर्वदान्तर्मुखसमग्रेन्द्रियग्रामं, दिव्यमपि देहं
यथाभिमते कस्मिंश्चिदपि काले हित्वा संत्यज्य,
स्वरूप एवास्ते, निर्वृतो भवतीत्यर्थः। कीदृशः
सन्नित्याह-आश्चर्यचर्याधिवास इति, आश्चर्य-
प्रधाना सा आश्चर्यचर्या अत्यद्भुतत्वादप्रमेयं
स्थित्यादिपञ्चविधकृत्यकर्तृत्वं तस्या अधिवासः
उपाश्रयः। परमेश्वरवदिच्छामात्रसंपाद्ये पञ्च-
विधे स्थित्यादौ व्यापारे शक्तोऽपि स्वात्मन्ये-
वास्ते करणीयस्याभावात्-इत्येतद्विवेचितप्रायं
विद्यापाद एवेति शिवम् ॥
संक्षिप्तोक्तिः स्फुरति विततं स्फारयन्ती प्रमेयं
पौर्यापर्यक्रमविमृशनात्पौनरुक्त्यं न किंचित् ।
नातिव्याप्तिः प्रकृतकथनान्नैव चाव्याप्तिरित्थं
योगः साङ्गो जयति गदितः श्रीमृगेन्द्रागमेऽस्मिन् ॥
इति श्रीमद्विद्याकण्ठात्मजभट्टनारायणकण्ठविरचितायां
मृगेन्द्रवृत्तौ योगपादप्रकरणम् ॥
समाप्तश्चायं
योगपादस्तृतीयः ॥
This page is blank and contains no text.
This page is blank and contains no text.