सामग्री पर जाएँ
सर्वकोश
मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

Mrigendra Tantra / Agama with Narayanakantha Vritti

महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा

DevanagariSanskritpublished448 पृष्ठ

पृष्ठ 432, कुल 448 में से

संदर्भ में पढ़ें
पृष्ठ 432

च्यते तदास्तां तावत्, परमेश्वराकृतिचिन्त-
नमय्यावपि एते सुस्पष्टपार्थिववारुण्याख्ये द्वे
धारणे सकलसामान्ययोगशास्त्रप्रसिद्धे, ते अपि
विचित्ररूपवज्राङ्कितत्वात् सितसलिलोत्पलला-
ञ्छितत्वाच्च न ध्येये ध्यातुं न शक्ये । न चैवात्रा-
भ्युपगमो युक्तः, यतस्तयोः पार्थिवाप्ययोः
धारणयोस्तथा तथा रूपवैचित्र्ये सत्यपि सा-
भ्यासानां योगिनामनेकाः सिद्धयः श्रूयन्ते ॥
तथैवमागमोपदिष्टस्य धारणाफलस्यानेकशेः
साभ्यासयोगिलब्धस्यापि येयं प्रतीतिः तस्यां
सत्यामपि
भोगविप्लुतचित्तस्य
कथं स्याच्चित्तसंस्थितिः ॥५६॥
नाधिकृत्याविरक्तानून्
प्राहेदं साधनं हरः ।
अथोच्यते जन्मसहस्रसा²त्मीकृतविविधभो-
गाभ्यासविक्षिप्तचेतसां कथमतिचञ्चलस्य चे-
१ 'कशोऽभ्या' क. । २ 'स्वाङ्गीकृत' क. ।