मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
पृष्ठ 429, कुल 448 में से
संदर्भ में पढ़ेंरैतावतीभिरेवैतच्छक्तिभिः स्वरूपेण पृथिव्या-
दीनां सहैकैकस्य पञ्चदशप्रकारतया जाग्रदादि-
भेदेन पिण्डस्थादिरूपतया च यावती व्याप्तिः।
यथोक्तं श्रीमन्मालिनीतन्त्रे
'शक्तिमच्छक्तिभेदेन धरातत्त्वं विमृद्यते ।
स्वरूपसहितं तच्च विज्ञेयं दशपञ्च च ॥
शिवादिसकलात्मानः शक्तिमन्तः प्रकीर्तिताः ।
तच्छक्तयश्च विज्ञेयास्तद्वदेव विचक्षणैः ॥
एवं जलादिमूलान्तं तत्त्वव्रातमिदं महत् ।
पृथग्भेदैरिमैर्भिन्नम्......................॥'
इत्यादि । तदेवं तावद्व्याप्तिकस्य योगिनः संवित्
तावतीत्येवं श्रीमत्कामिकतन्त्रे श्रुतम् । यद्वाह्यं
तस्मिन् स्थिते सर्वं वस्तु स्वदृग्गोचरतां प्राप्तं
बुद्ध्वा शिवव्यतिरिक्तान् सर्वानैव तान् पदा-
र्थान् सर्वाध्वपर्यन्तवर्तिशिवपदप्राप्तिहेतुत्वात्
विद्याप्रभृतींस्त्यक्त्वा शिवतत्त्वमभ्यस्येत् तदेक-
निष्ठः स्यात् । 'हेयान् पदार्थान्संत्यज्य' इति
पाठे स्पष्ट एवार्थः ॥
शिवगर्भान्समातिष्ठन्
प्राणायामादिकानपि ॥ ५३ ॥
१ 'जाग्रदादिशिवभेदेन' क.