सामग्री पर जाएँ
सर्वकोश
मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

Mrigendra Tantra / Agama with Narayanakantha Vritti

महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा

DevanagariSanskritpublished448 पृष्ठ

पृष्ठ 434, कुल 448 में से

संदर्भ में पढ़ें
पृष्ठ 434

४० मृगेन्द्रतन्त्रे । [ २१
स्तदासेवनात्मकेन शालन्ते शोभन्ते इति वैरा-
ग्याभ्यासशालिनः दान्ताश्चोपशमयुक्ताः । एवं-
विधैर्यगिभिः शनैर्शनैर्निखिलमपि जगत् धार-
णाव्याप्तिक्रमेण गोचरीकर्तुं शक्यते, किं पुन-
र्ध्येयं चित्रं पारमेश्वरं वपुरिति ॥
एवं सालम्बनं योगमुपदिश्य प्रकृष्टमना-
लम्बनमुपदेष्टुं भूमिकां विरचयति ।
केयं वा रूपकेयत्ता
सर्वाधिष्ठानयोगिनः ॥५८॥
सर्वदा सर्वभूतानां
सर्वाकारोपकारिणः ।
स्थानरूपप्रमाणानि
परिकल्प्य स्वचेतसा ॥५९॥
यत्रोपरमते चित्तं
तत्तद्धेयं पुनः पुनः ।
यद्वा सर्वाधिष्ठानयोगिनः परमेश्वरस्येयमेव
श्वेतादिवर्णा दशभुजा पञ्चवक्त्राद्याकृतिर्ध्या-
तव्या इति कोऽयमेवंविधं रूपं प्रति नियमो