सामग्री पर जाएँ
सर्वकोश
मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

Mrigendra Tantra / Agama with Narayanakantha Vritti

महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा

DevanagariSanskritpublished448 पृष्ठ

पृष्ठ 437, कुल 448 में से

संदर्भ में पढ़ें
पृष्ठ 437

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते। ४३
ष्ठतो योगिनोऽकिंचिच्चिन्तकस्य किंचिदप्यचि-
न्तयतश्चित्तक्षयात् स्वात्मन्येव निस्तरङ्गमहोद-
धिप्रशान्तेऽवस्थितस्य स्वकं निजं रूपमुन्मीलति
विकसति अपरिमितं संपद्यते, प्रसरन्निरावरण-
निजस्वरूपो भवति इत्यर्थः । कीदृक् स्वकं रू-
पमुन्मीलतीत्याह—सर्वार्थदृक्क्रियारूपमित्यादि,
सर्वार्था सर्वविषया दृक् ज्ञानं क्रिया च व्यापा-
ररूपा ते एव रूपं यस्य । यतः
‘ज्ञानक्रिये शिवे प्रोक्ते सर्वार्थे निर्मले परे ।’
इति यच्छिवरूपमागमेषूपदिष्टं तदानन्दमयम-
नुरूपमाह्लादसुन्दरमव्ययं चाविनश्वरमस्य यो-
गिन एवमभ्यस्यतोऽभिव्यज्यते । यत्प्राप्तेर्ज-
न्ममरणादि अशिवमश्रेय आवहतीत्यशिवावहं
संसारलक्षणं दुःखयोगं नैति न प्राप्नोति ।
उक्तं च श्रीमदवधूतगुरुणा
‘यथा नीता रसेन्द्रेण धातवः शातकुम्भताम् ।
पुनरावृत्तये न स्युस्तद्वत्तन्मतचोदिताः ॥’
इति ॥
अत्र स्वरूपप्रशंसापूर्वमतिरहस्यतया सर्वान्
प्रति अप्रकाश्यत्वमभिधातुमाह