मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
पृष्ठ 435, कुल 448 में से
संदर्भ में पढ़ेंश्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ४१
न कश्चिदित्यर्थः । विततवैभवविजृम्भावतः
परिमितरूपाकृतिस्थानोपासनमसमीचीनमेव
किल भगवतः । अतश्च बहिरन्तर्वाविचलित-
चेतसा स्थानरूपप्रमाणाकृत्यादि परिकल्प्य यत्र
यत्र भावशरीरे भूतशरीरे वा चित्तमुपशाम्यति
तत्र तत्र भूयोभूयः प्रयत्नवता गुरूपदेशसम-
धिगतयुक्तिना ध्यातव्यम्। उक्तं च पारमेश्वरे
'नेन्द्रियाणि न च प्राणा न मनो धिषणेषणा ।
नाहमस्मि न चान्योऽस्मि चित्तस्य प्रलयस्ततः ॥
चित्तक्षयः परावाप्तिरिति सत्यं गणाम्बिके ।'
इति ॥
अथास्यैव फलमाह
तेनास्य चेतसः स्थैर्यं
सविशेषगुणं शनैः ॥ ६० ॥
उन्मील्य योगसंस्कारं
हतविघ्नस्य जायते ।
'तत्रास्था चेतसः कथम्' इति यत् प्राक् पर्य-
नुयुक्तं तदर्थमिदम् । तेनामुना प्रागुक्तेन योगे-
नास्य योगिनो निर्विघ्नस्य च सतः चेतसः स्थैर्य-
६ मृ. यो.