सामग्री पर जाएँ
सर्वकोश
मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

Mrigendra Tantra / Agama with Narayanakantha Vritti

महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा

DevanagariSanskritpublished448 पृष्ठ

पृष्ठ 439, कुल 448 में से

संदर्भ में पढ़ें
पृष्ठ 439

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ४५
प्रमादित्वांजडत्वे सत्यपि तपोविरहात् भक्त्य-
योगतश्चानधिकृतत्वात् ॥
तदेवमस्यापि योगविधेर्भुक्तिमुक्तिलक्षणं
फलमवगन्तव्यमित्येतदुपसंहाराय पुरस्ताद्-
भिधास्यमानचर्यापादोपक्षेपाय चायं श्लोकः
अस्याभ्यासाद्दिव्यसिद्ध्यंशुजालै-
रिष्टान् लोकान् रोरुचानो विहृत्य ।
काले हित्वापास्रवं देहमास्ते
स्वात्मन्येवाश्चर्यचर्याधिवासः ॥
अस्यैवंविधस्य निरालम्बनस्य योगस्याभ्यासः
पुनःपुनःसेवनं तस्माद्दिव्या अलौकिक्यश्चतुः-
षष्टिगुणा अणिमादिसिद्धयो येषां ते दिव्य-
सिद्धयः अंशुजालाः शक्तिप्रसराः तैः, रोरुचानो
वितततेजःपुञ्जत्वात् देदीप्यमानः सन् अभि-
मतान् लोकान् यथेच्छं विहृत्य इति तेषु
स्वर्गादिलोकेषु विहरणं क्रीडालक्षणं निर्वर्त्य,
अपगतानि बाह्यविषयैकग्रहणप्रवणानि अन्त-
रात्मोपलम्भपराङ्मुखानि आस्रवन्ति बहिः सा-
त्येन गच्छन्तीति आस्रवशब्दवाच्यानीन्द्रि-