सामग्री पर जाएँ
सर्वकोश
मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

Mrigendra Tantra / Agama with Narayanakantha Vritti

महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा

DevanagariSanskritpublished448 पृष्ठ

पृष्ठ 427, कुल 448 में से

संदर्भ में पढ़ें
पृष्ठ 427

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ३३
धारणा द्वादश ध्यानं
दिव्यालोकप्रवृत्तिदम् ॥ ४९॥
समाधिरणिमादीनां
द्वादशैतानि कारणम् ।
द्वादशभिः सगर्भैः कुम्भकैर्धारणा पूर्वमुक्ता ।
ताश्च द्वादश ध्यानं ज्ञेयम् । तच्च दिव्यामलौ-
किकीमालोकप्रवृत्तिं प्रकाशाविर्भूतिं ददातीति
दिव्यालोकप्रवृत्तिदमिति तदभ्यासस्य फलमु-
क्तम् । एतानि च द्वादश ध्यानानि समाधिरि-
त्युच्यते । स तु अणिमादिदिव्यसिद्धिकारणम् ।
अभ्यस्तैवंविधसमाधेरणिमाद्याविर्भावः स्यात् ॥
प्राणायामं विनाप्येवं
वश्यात्मा चेतसि स्थितः ॥५०॥
समभ्यस्यन्नवाप्नोति
गुणानुक्ताननन्तरम् ।
एवमनेन प्रकारेण आत्मनि नित्ययुक्ततया
वश्यात्मा योगी विनापि प्राणायामेन क्वचि-
दपि देशे कृतनिरोधायां चित्तवृत्तौ स्थित एव
५ मृ. यो.