मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
पृष्ठ 433, कुल 448 में से
संदर्भ में पढ़ेंश्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ३९
-तसः संस्थितिः सम्यक् निरुद्धसकलवृत्तित्वे-
-नावस्थानं स्यात् । यथोक्तं
‘चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् ।
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥’
तथा
‘अपि चण्डानिलोद्धूततरङ्गस्य महोदधेः ।
शक्यते प्रसरो रोद्धुं विषयेभ्यो न चेतसः ॥’
इति । नैतद्युक्तम्, यतो नेदं योगाख्यं साधनम-
विरक्तान् जन्तून् अधिकृत्य परमेश्वर आदि-
देश अपि तु प्रचुरवैराग्यनिर्झरनिर्धूतभवभो-
गस्पृहाकलङ्काः केऽप्येव सुचिरं संजातनिः-
सारसंसारभोगविजुगुप्साः पात्रमत्रेति । न चा-
भ्यासवतां किमपि दुष्प्रापं दृष्टेऽपि संभवति ॥
अतश्च
शक्यते विषयीकर्तुं
जगदप्यखिलं शनैः ॥५७॥
किमु चित्रं वपुर्दान्तै-
र्वैराग्याभ्यासशालिभिः ।
वैराग्येण नैःस्पृह्येणाभ्यासेन च पुनःपुन-