सामग्री पर जाएँ
सर्वकोश
मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

Mrigendra Tantra / Agama with Narayanakantha Vritti

महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा

DevanagariSanskritpublished448 पृष्ठ

पृष्ठ 426, कुल 448 में से

संदर्भ में पढ़ें
पृष्ठ 426

३२ मृगेन्द्रतन्त्रे । [ २११

  • 'वृत्तिः प्रणयनं नाम यत्तज्जीवनमुच्यते ।'
    इति प्रणयनस्य जीवनरूपत्वेनोक्तत्वात् । जिता
    त्वपनयनाख्या अपानवृत्तिर्येन स तादृग्विधो
    योगी अश्नन्नपि निर्मलदेहो भवति, अपान-
    जयाद्धि विण्मूत्रादिमलभावेन नास्य पानाश-
    नादि परिणमति अपि तु रसधातुभावेनैव,
    अतः शकृदादिमलोज्झित एवैष संपद्यते ।
    सर्वदेहिनां हि रसमलधातुभावेनान्नपानपरि-
    णतिर्भवति । विजिता चोन्नयनाख्योदानवृत्ति-
    र्येनासौ अलौकिककवित्ववक्तृत्वरूपवाक्स्वात-
    न्त्र्यप्रभृतीन् गुणान् प्राप्नोति । येन तु समान-
    वृत्तिर्विजिता स सर्वदा जरावर्जितः सर्वंसह-
    स्ववशदेहो भवति । विनमनाख्ये च व्यानवृ-
    त्तिव्यापारे कृतजयः स्वेच्छया वपुषि विहरति,
    ब्रह्मरन्ध्रेण श्रवणच्छिद्रादिना वा मरुत्प्रेरणाक-
    र्षणादौ शक्तः स्यादित्यर्थः । तथा कर्दमजल-
    कण्टकाद्युपविष्टस्यापि तैरसंपर्कोऽनाश्रयरूपः,
    अविनश्वरं चास्य बलं संजायते ॥
    एवमानुषङ्गिकप्रश्नप्रतिवचनादनन्तरं प्रकृ-
    तमभिधीयते