सामग्री पर जाएँ
सर्वकोश
मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

Mrigendra Tantra / Agama with Narayanakantha Vritti

महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा

DevanagariSanskritpublished448 पृष्ठ

पृष्ठ 438, कुल 448 में से

संदर्भ में पढ़ें
पृष्ठ 438

४४ मृगेन्द्रतन्त्रे । [ ११

एतत्समस्तगुह्यानां
गुह्यं सिद्धामरस्तुतम् ॥ ६३ ॥
साक्षादालोचनं शम्भो-
रत्युत्पावनमुत्तमम् ।
नाल्पकालोषितायैत-
देयं नातिप्रमादिने ॥ ६४ ॥
नामेधिने नातपसे
यश्च नाभ्यर्चयेच्छिवम् ॥
यत एतत्सर्वेषां रहस्यानामप्यतिशयेन गूह-
नीयं निरतिशयनिःश्रेयसावाप्तिहेतुत्वात् , अत
एव च सिद्धैरमरैश्चाभिष्टुतम् । साक्षात् परमे-
श्वरस्य तेजसः प्रकाशकत्वादत्युत्कृष्टं पावनं
पवित्रताहेतुः तस्मादेतन्नाल्पकालोषितायान-
तिचिरोपसन्नत्वात् अविज्ञातनिरतिशयश्रद्धा-
भक्तियोगाय शिष्याय, नातिप्रमादिने सप्रमा-
दाय न चाल्पप्रज्ञायानयोरुभयोरपि रक्षितु-
मशक्यत्वात् । नाप्यतपसे नियमविरहिताय ।
न च यः परमेश्वरार्चनं न करोति । एतयोर-
१ 'ज्ञानयोगयोरपि' ।