सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

१९] एकतलविधानम् १५१
तत्तद्द्विद्वारदेवा[न्] न्यसेदेतद्द्वारपार्श्वयोश्चैव ।
नन्दिमहाकालाद्यौ चोक्तवद् द्वारदेवा[न्] न्यसेत् ॥ १०७ ॥
मण्डपे(पस्य) दक्षिणे कोष्ठे नृत्तयुक्तै(क्तमे)व विनायकमुक्तम् । २२०
मण्डपसौम्यकोष्ठे स्थानदुर्गयुक्तं स्थापयेत्तत्स्थम् ॥ १०८ ॥
प्रासाददक्षिणे मध्यकोष्ठे ध्यानदक्षिणामूर्तिम् ।
तदूर्ध्वे ग्रीवकोष्ठे गेयमूर्ति वीरभद्रं वापि ॥ १०९ ॥
पश्चिममूलतले मध्ये कोष्ठे लिङ्गोद्भूतम् । २२४
अथवाधंनारीश्वर(रं) स्थानकं विष्णुं स्थापयेद्वापि ॥ ११० ॥
तदूर्ध्वे ग्रीवकोष्ठे तु केशवन्नृसिंहाच्युता[ना]सीनम्(नान्) ।
सौम्यके मूलतले कोष्ठे स्थानकं चतुर्मुखं स्यात् ॥ १११ ॥
तदूर्ध्वे ग्रीवकोष्ठेऽथ नदं(नारदं) कमलं(लजं) वापि । २२८
पूर्वे गलदेशे मध्यकोष्ठे गुहं गजारूढम् ॥ ११२ ॥
निशापतिं वाथ सर्वया तत्तद्धेभ्या सहासन[स्थ]मुक्तम् ।
इन्द्रस्य दक्षिणद्वारात्परितः षोडशविमर्हं कुर्यात् ॥ ११३ ॥
प्रस्तरोपरि[तं] देशे कोणे कोणे स्थापयेद्वृषभम् । २३२
कर्णेकमेकमूर्ध्वं च द्वयं वाथ वृषभसंयुक्तम् ॥ ११४ ॥
एकानेकतलं सर्वमेतद्देवान्पुराणसंयुक्तम् ।
एवं शिवहर्म्याणां योग्यं विनोदमन्यदेवानाम् ॥ ११५ ॥
तत्तद्द्वारमुक्तं ए(चै)कानेकतलोपेतं सर्वम् । २३६
अथवा विष्णुविमाने[स्ति] देवस्थापनं वक्ष्यामः ॥ ११६ ॥
द्वारे चण्डप्रचण्डौ च मण्डपयाम्ये वनित(ता)म् ।
प्रागुक्तवत्सौम्यदेशे विमाने पूर्ववद्देवतां वापि ॥ ११७ ॥
हरिं वा गरुडं वा कुर्यात्पुरतो(पूर्वो)क्तचतुष्कोणे । २४०
शयनं वासनं सिंहं तार्थ्यं कृताञ्जल्यासनयुक्तम् ॥ ११८ ॥
पोत्री नृसिंहमथ केशवमश्वरथं (स्थं) कर्णात्पूर्वादिदिक्षु चतुर्षु ।
पूर्वकान्त(प्रोक्त)हर्म्ये(र्म्य)कभूमिगलदेशमिति प्रतिष्ठां कुर्यात् ॥ ११९ ॥

१५२ मानसारे [अध्यायः १९]
दुर्गम(उत्तरा)भिमथासनमच्युतं वा 244
प्राच्यां दिशि द्वितलहर्म्ये गलप्रदेशे ।
श्रीमाधवं नरहरिं कृत(तं) दक्षिणे च
नारायणं चाथ पश्चिमदिक् प्रदेशे ॥ १२० ॥
क्रो(क्री)डं चोत्तर(रे) जनार्दन(नं) हर्म्यके तत् । 248
त्रितले पूर्वदिग्देशे ग्रीवे तच्छ्रीधरं न्यसेत् ॥ १२१ ॥
उत्तरे वासुदेवं चाथवान्यसंकर्षणं स्मृतम् ।
अनिरुद्धं पश्चिमदेशे चोर्ध्वे वा तदधो(दूर्ध्व)तले ॥ १२२ ॥
एवं तु चोक्तवत्कृत्वा बौद्धादिजिनकालयम् । 252
तत्तद्विमानयो(स्यो)र्ध्वे तु तत्तद्देवान्न्यसेत्क्रमात् ॥ १२३ ॥
अन्येषां देवदेवीनां विमाने तत्तद्विधानतः ।
सर्वेषां हर्म्यके कुर्यात्तत्तद्वाहनमीरितम् ॥ १२४ ॥
शयनं वासनं वापि प्रस्तरस्योपरि न्यसेत् । 256
एवं तत्रोक्तवत्कुर्यादूर्ध्वं तत्सम्पदां(दास्)पदम् ॥ १२५ ॥
एकभूमिं कुर्यादधिकं चोपपीठ(ठं) रुचिरार्थं संयुतम् ।
सोपपीठभवनैर्युतं तु वा कारयेत्तु कथितं पुरातनैः ॥ १२६ ॥
एवं सर्वहर्म्यालंकारयुक्तञ्चा 260
नानापादैर्वेदिकान्ता(धा)रमञ्चकम् ॥
हीनाधिक्यं चेद्दिग्नाशनं तस्मात्
कुर्यात्सर्वं चोक्तवत्सम्पदा(द)र्थम् ॥ १२७ ॥
इति मानसारे वास्तुशास्त्रे एकभूमिविधानं नाम एकोनविंशोऽध्यायः ॥

द्वितलविधानम्
द्वितलानामलङ्कारं वक्ष्ये संक्षिप्यतेऽधुना ।
विस्तारोत्सेध(धौ) हर्म्ये वा पूर्ववत्परिकल्पयेत् ॥ १ ॥
उपानादिस्तूपिपर्यन्तं ष(चा)ष्टाविंशद्विभाजिते ।
अ(आ)धारोच्चं गुणांशं स्यात्पादतुङ्गं षडंशकम् ॥ २ ॥ 4
बन्ध्वंशं प्रस्तरोत्सेधं चोर्ध्वं पादं शरांशकम् ।
तदूर्ध्वं पादमश्वोर्ध्वं शिवांशं वेदिकोदयम् ॥ ३ ॥
तदूर्ध्वं कन्थरोत्सेधं वेदांशं शिखरोदयम् ।
तदूर्ध्वं स्तूपियुग्मां(त्रयां)शं तुङ्गं तु परिकल्पयेत् ॥ ४ ॥ 8
एकत्रिंशांशकं तुङ्गं सार्धबन्धु(न्धु) मसूरकम् ।
सप्तांशं पादतुङ्गं स्यात्तदर्धं प्रस्तरोदयम् ॥ ५ ॥
तदूर्ध्वेऽर्धमधिष्ठानं द्व्यंश(शं) वेदाङ्घ्रितुङ्गकम् ।
तदर्धं प्रस्तरोत्सेधं तदर्धं वेदिकोदयम् ॥ ६ ॥ 12
तदूर्ध्वं वेदितुङ्गं स्याच्छिखरोच्चं युगांशकम् ।
स्तूपितुङ्गं द्वयांशं स्याद्द्वितले तद्द्वितीयकम् ॥ ७ ॥
तदेवोर्ध्वमधिष्ठानं विमानांशे कवितस्तिकम् ।
तदूर्ध्वेऽङ्घ्रि शरांशं स्यात्कर्णहर्म्यादिमण्डितम् ॥ ८ ॥ 16
शेषं तु पूर्ववत्कुर्यात्तृतीयद्वितलं भवेत् ।
तुङ्गे द्विरष्टभागं स्याद्व्यर्धीशां मसूरकम् ॥ ६ ॥
गुणांशं चाङ्घ्रितुङ्गं स्यात्प्रस्तरं सार्धभागिकम् ।
तदूर्ध्वमंशमधिष्ठानं तदूर्ध्वं द्व्यंशका(कम)ङ्घ्रिकम् ॥ १० ॥ 20
शिवांशं प्रस्तरोत्तुङ्गं त्रिपादं वो(चो)र्ध्वमसूरकम् ।
पादांशं वेदिकोत्तुङ्गं सपादार्शं गलोदयम् ॥ ११ ॥
19

१५४ मानसारे [अध्यायः

अर्धांशं शिरतु(स्तु)ङ्गं स्यात् (स)पादांशं शिखरोदयम् ।
चतुर्थं द्वितलं प्रोक्तं सदैव शिखरं विदुः ॥ १२ ॥ 24
लम्बनं सार्धभागेन गोपानादि क्रियान्वितम् ।
शेषं प्रागुक्तवत्कुर्यात्पञ्चधा द्वितलं विदुः ॥ १३ ॥
एकादशांशकं तुङ्गमेकांशन मसूरकम् ।
अङ्घ्रिका(कम)ङ्घ्रितुङ्गं स्याच्छेषांशं प्रस्तरोदयम् ॥ १४ ॥ 28
तदूर्ध्वे चोपपीठं स्यात्तत्समं च मसूरकम् ।
तदूर्ध्वं पादतुङ्गं स्यात्तदर्धं प्रस्तरोदयम् ॥ १५ ॥
तत्समं वेदितुङ्गं स्याच्छेषांशं गलतुङ्गकम् ।
शिखरोच्चं द्विभागं स्यादेकांशं स्तूपिकोदयम् ॥ १६ ॥ 32
षष्ठमं(कं) द्वितलं प्रोक्तं सप्तमं वक्ष्यतेऽधुना ।
एकादशांशकं तुङ्गे चैकांशन मसूरकम् ॥ १७ ॥
द्विभागं पादतुङ्गं स्यात्प्रस्तरं चाम्बरांशकम् ।
कुर्यात्तत्र व(घ)नं चोर्ध्वे त्रिपादांश(शं) मसूरकम् ॥ १८ ॥ 36
तदूर्ध्वं पादतुङ्गं स्यात्तदर्धं प्रस्तरोदयम् ।
तदूर्ध्वेऽङ्घ्रि सपादांशं एका(बार्धा)ंशं प्रस्तरोदयम् ॥ १९ ॥
पादांशं वेदिकोत्तुङ्गं तदूर्ध्वं गलतुङ्गकम् ।
शिखरोच्चं शिवांशं स्यात्तदर्धं तच्छिखोदयम् ॥ २० ॥ 40
द्वितले सप्तकं प्रोक्तं त्रयाङ्घ्रिकर्णहर्म्यकम् ।
तदेवाष्टाधिकं तुङ्गे तन्मूले प्रस्तरोर्ध्वके ॥ २१ ॥
अंशेन चोपपीठं स्यादधिकं द्वितलं स्मृतम् ।
एवं दण्डवशात्कुर्यान्निर्गमं तदिहोच्यते ॥ २२ ॥ 44
प्रागुक्तविस्तृतं बाह्ये निर्गमं परितस्तथा ।
एकदण्डं द्विदण्डं वा त्रिदण्डं निर्गमं स्मृतम् ॥ २३ ॥
एकहस्तं द्विहस्तं वा त्रिहस्तं वाथ निर्गमम् ।
त्रिचतुर्हस्तमारभ्य द्वंद्विहस्तविवर्धनात् ॥ २४ ॥ 48

२०] द्वितलविधानम् १५५
एकादशार्कहस्तान्तं पञ्चधा निर्गमं भवेत् ।
पञ्चषट्करमारभ्य द्विद्विहस्तविवर्धनात् ॥ २५ ॥
सैकार्कमनुहस्तान्तं निर्गमं पञ्चधा भवेत् ।
क्षुद्रालपमध्यमुख्यानां युक्त्या तत्रैव योजयेत् ॥ २६ ॥
अथ हर्म्यविशालार्धं तत्समं निर्गमं तु वा ।
यत्तद्भक्तिविशाले तु कूटमेकैकभागिकम् ॥ २७ ॥
एकं वाथ द्विपादं वा तस्य द्वारा विशालकम् ।
द्विभागं वा त्रिभागं वा मध्यशालाविशालता ॥ २८ ॥
हर्म्ये चोर्ध्वतले पादं बाह्यकूटादि विन्यसेत् ।
कर्णहर्म्याकृतिं वाथ चान्तरं प्रस्तरं तु वा ॥ २९ ॥
त्रिचतुः(तुष्)पञ्चाङ्गुलं वापि द्वितलेऽङ्घ्रि विशालकम् ।
तच्चतुः(तुष्)पञ्चषट्सप्तसप्ताष्टांशाङ्घ्रिविशालके ॥ ३० ॥
तत्तदेकांशहीनं स्यादूर्ध्वे पादविशालकम् ।
शाला कूटश्च पादौ च बाह्ये मध्यान्तरालकम् ॥ ३१ ॥
नासिकापञ्जरैः शालाकुम्भपादादिभूषितम् ।
तोरणैर्नीडभद्रादि[भिः] मूले चोर्ध्वे च भूषितम् ॥ ३२ ॥
नानाधिष्ठानसंयुक्तं नानापादैरलङ्कृतम् ।
नानागोपानसंयुक्तं क्षुद्रनास्यैर्विभूषितम् ॥ ३३ ॥
अर्धशालाविशेषोऽस्ति चोर्ध्वशालासमन्वितम् ।
तदूर्ध्वे प्रस्तरान्तः स्यान्नासिकाभिरलङ्कृतम् ॥ ३४ ॥
कूटानां चतुरश्रं स्यान्मध्ये मध्ये तु नासिका ।
एकद्वित्रिचतुर्दण्डं मध्यभद्रैस्(द्रस्य) तु निर्गमम् ॥ ३५ ॥
चतुःशाला चतुः(तुष्)कूटं चाष्टमा(हा)रं सपञ्जरम् ।
एकदण्डा(ण्डम)र्धदण्डं वा चोर्ध्वकूटादिवेशनम् ॥ ३६ ॥
मध्यकोष्ठे द्विपाश्र्वे तु चार्थशालासमन्वितम् ।
तदूर्ध्वे मध्यमे नासि तत्पार्श्वे वक्रनासिकम् ॥ ३७ ॥

तत्पार्श्वं शालयोः पार्श्वे क्षुद्रनास्यैर्विभूषितम् ।
कूटकोष्ठादिसर्वाङ्गैर् युक्त्वा तु समलङ्कृतम् ॥ ३८ ॥ 76
शेषं तु पूर्ववत्कुर्यात्कर्णहर्म्यादि चोक्तवत् ।
सप्ताष्टक(कं) द्विभूम्ये तु [वि]शेषाणां(षेण) वक्ष्यतेऽधुना ॥ ३९ ॥
विस्तारार्धद्विगुणं वा त्रिगुणं वा तदुच्छ्रयम् ।
तन्मुखे मण्डपाग्रे तु कुर्यादधिकमण्डपम् ॥ ४० ॥ 80
तत्पुरे मध्यमे द्वारं गवाक्षं वाथ कल्पयेत् ।
दक्षिणे मध्यमे द्वारं स्यादग्रे मध्यमण्डपम् ॥ ४१ ॥
चतुर्द्वारसमायुक्तं पूर्वे सोपानसंयुतम् ।
तद्घनं तल्लसर्वाङ्गं कूटकोष्ठादिभूषितम् ॥ ४२ ॥ 84
सोपपीठमधिष्ठानं सोपपीठ(ठं) मसूरकम् ।
तदूर्ध्वे पादमञ्चं च संयुक्तं तन्निर्गृहं(र्ग)कम् ॥ ४३ ॥
पूर्ववन्मानयुक्त्वा च विमानान्तस्य निर्गमम् ।
कुर्यात्तत्पादतुङ्गेषु षड्भागांशविहीनकम् ॥ ४४ ॥ 88
प्रस्तरस्योपरि न्यस्य चान्तर्मण्डलकुट्य(ड्य)कम् ।
कर्णहर्म्यादिसंयुक्तं सर्वालङ्कारसंयुतम् ॥ ४५ ॥
आरोप्यं प्रदक्षिणं सौम्यमेवं प्रकल्पयेत् ।
शेषं तु पूर्ववत्कुर्यात्सर्वदेवांश्च सञ्चके ॥ ४६ ॥ 92
श्रीकरं विजयं सिद्धं पौष्टि[कं] कान्तकं प्रभूतकम् ।
स्वस्तिकं पुष्कलं नाम प्रथमाद्यष्टसञ्चके ॥ ४७ ॥
पूर्ववच्चोक्तदेवानां सर्वहर्म्येषु योजयेत् ।
अथवा विष्णोर्हर्म्ये तु गले पूर्वे जनार्दनम् ॥ ४८ ॥ 96
दक्षिणे दक्षिणामूर्तिं नारसिंहमथापि वा ।
पश्चिमे केशवं प्रोक्तं चोत्तरे श्रीधरं भवेत् ॥ ४९ ॥
अथवा पितामहं स्यान्नागरादौ च हर्म्यके ।
द्वारदेवादि सर्वेषां(र्वान्) पूर्ववत्कल्पयेत्सुधीः ॥ ५० ॥ 100

२०] द्वितलविधानम् १५७
तदेव शिवहर्म्यं तु मण्डपे तु विशेषतः ।
सौम्ये तु कालरूपं वा प्रोक्तवांस्तत्रदैवतम् ॥ ५१ ॥
स्थापयेत्क्षेत्रपालानां(न) षण्मुखं चापि कल्पयेत् ।
आरोग्यं(प्यं) हर्म्यमूले तु कर्णहर्म्यात्प्रवेशयेत् ॥ ५२ ॥ 104
सर्वेषां देवताहर्म्ये पूर्ववद्देवता न्यसेत् ।
उक्तवच्छालमार्गेण क(चो)हापोहेन योजयेत् ॥ ५३ ॥
वेदाश्रान्तं वर्तुलाभं गजाश्रं
वृत्ताश्रामं द्व्यश्रवृत्तं तमे(थै)व च । 108
तद्दीर्घं तच्छिरोग्रोवयुक्तम्
उक्तं प्राग्वद्भूषणैादि द्विभूमौ ॥ ५४ ॥
द्वाराप्रान्ते द्व्यंशकैकांशमलिन्दम्
मञ्चस्योर्ध्वे चावृतं प्रस्तरं च । 112
आरुह्य सार्धहर्म्यमूलं यद्
युक्त्या भक्त्या यन्मनोरम्यं कुर्यात् ॥ ५५ ॥
इति मानसारे वास्तुशास्त्रे द्वितलविधानं नाम विंशोऽध्यायः ॥

त्रितलविधानम्
त्रितलस्य विधानं च लक्षणं वक्ष्यतेऽधुना ।
विमानतुङ्गं(ङ्गं) षडंशे तु सार्धांशेन मसूरकम् ॥ १ ॥
तदूर्ध्वं पादतुङ्गं स्यात्तदर्धं प्रस्तरोदयम् ।
मूलपादोदयेऽष्टांशमधिकं (चांशाद्धीनं) चोध्वाङ्घ्रितुङ्गकम् ॥ २ ॥ 4
तदर्धं प्रस्तरोधं तु पादमूलद्विगुणाङ्घ्रिकम् ।
तदर्धं चोर्ध्वको[प]पादं तस्यार्धं वेदिकोन्नतम् ॥ ३ ॥
तदूर्ध्वं चोर्ध्वकण्ठं स्याद्ग्रीवातुङ्गं द्वयांशकम् ।
शेषं चोर्ध्वं शिखोत्तुङ्गं सर्वालङ्कारसंयुतम् ॥ ४ ॥ 8
प्रच्छादनोपरि स्तम्भं कार्यहर्म्यादिमण्डितम् ।
विस्तारोत्सेधभक्तमेषां यत्तत्राप्युक्तवन्नयेत् ॥ ५ ॥
श्रीकान्तं हर्म्यकं प्रोक्तं क्षुद्रं त्रितले विदुः ।
अथवा सप्तसप्तांशं विभजेत्त्रितलोदये ॥ ६ ॥ 12
चतुर्भागमधिष्ठानं तदूर्ध्वं पादतुङ्गकम् ।
अधिष्ठानसमं मञ्चं मध्वोध्वेऽर्धेन वप्रयुक् ॥ ७ ॥
सत्रिपादषडंशेन चोर्ध्वं पादोदयं भवेत् ।
तदूर्ध्वं प्रस्तरोत्तुङ्गं सत्रिपादं त्रिपादकम् ॥ ८ ॥ 16
तदूर्ध्वार्धेन वप्रं स्यात्तदूर्ध्वेऽङ्घ्रि षडंशकम् ।
सार्धद्विभाग(गं) मञ्चं स्यादर्धांशमूर्ध्वपट्टिकम् ॥ ९ ॥
एकांशं वेदिकोत्तुङ्गं ग्रीवातुङ्गं गुणांशकम् ।
तदूर्ध्वं शिखरतुङ्गं स्याद्गुणांशं तच्छिखोदयम् ॥ १० ॥ 20
शेषं प्रागुक्तवत्कुर्याद्वासनं परिकीर्तितम् ।
अथवा त्रितलोत्तुङ्गं(ङ्गे) द्वादशांशं विभाजिते ॥ ११ ॥

२१] त्रितलविधानम् १५६
तदेकांशमधिष्ठानं द्विभागं पाददीर्घ(दैर्घ्य)कम् ।
तदर्धं प्रस्तरोत्सेधं त्रिपादं चोर्ध्वपीठकम् ॥ १२ ॥
तत्समो(ममू)र्ध्वं त्वधिष्ठानं तद्द्वयं पाददीर्घ(दैर्घ्य)कम् ।
तदर्धं प्रस्तरं चोर्ध्वं सार्धांशेन मसूरकम् ॥ १३ ॥
एकांशं पाददीर्घ(दैर्घ्य) स्यादर्धांशं मञ्चतुङ्गकम् ।
तदर्धं वेदिकोत्तुङ्गं तद्द्वयं ग्रीवतुङ्गकम् ॥ १४ ॥
ग्रीवतुङ्गद्वयं चोर्ध्वं मस्तकंमर्धं शिखोदयम् ।
एवं सुखालायं प्रोक्तं शेषं पूर्ववदाचरेत् ॥ १५ ॥
तस्योपपीठदेशेतु चोद्घृता हरितान्वितम् ।
एतन्तु केसरं प्रोक्तं कमलाङ्गमिवोच्यते ॥ १६ ॥
चतुर्विंशांशकं(क)तुङ्गे श्रीकान्तस्याकृतिस्तथा ।

१६० मानमारे [अध्यायः २१]
तद्द्वयं पाददीर्घं(दैर्घ्यं) स्यात्तदर्धं प्रस्तरोदयम् । 52
ऊर्ध्वाङ्गं पूर्ववत्कुर्यादितत्कैलासमीरितम् ॥ २६ ॥
आरुह्य प्रदक्षिणं कुर्याद्धर्म्यमेवं तु पूर्ववत् ।
एतदष्टविधं प्रोक्तं त्रितले चोत्तमं मतम् ॥ २७ ॥
विशाले तु यथाभागं कूटानां चैकभागिकम् ।
मध्ये द्वित्रिचतुर्भागं शालाकोष्ठं प्रकल्पयेत् ॥ २८ ॥ 56
एकद्वित्र्यंशकेनैव द्वारां सपञ्जरान्वित(ता)म् ।
परितश्चैकभागेन कूटशालादिभूषितम् ॥ २६ ॥
तस्यान्तश्चावृतांशेन चोर्ध्वदेशे जलस्थलम् ।
एकं वा द्वित्रिदण्डेन भद्रनिर्गममीरितम् ॥ ३० ॥ 60
हारा च तत्रिभागैकं मध्यशालाविभूषितम् ।
अष्टकूटसमायुक्तं कोष्ठकं चाष्टसंयुतम् ॥ ३१ ॥
षोडशाहार(शहारा) संयुक्तं सर्वालङ्कारसंयुतम् ।
नानाधिष्ठानसंयुक्तं नानापादैरलङ्कृतम् ॥ ३२ ॥ 64
नानातोरणैर्नीडैर्नानावेद्यै(दिभि)रलङ्कृतम् ।
त्रितले कूटकोष्ठादि हारादीन् गलदेशके ॥ ३३ ॥
मूलपादप्रदेशे तु कुर्यात्तु सर्वदेवताः ।
देवादीनां पुराणांश्च देवतानां च विग्रहम् ॥ ३४ ॥ 68
युक्त्या सर्वप्रयत्नेन विन्यसेल्लक्षणोक्तवत् ।
ग्रीवादिसचिवा(शिखा)न्तञ्च पूर्वोक्तानां च संमतम् ॥ ३५ ॥
ग्रीवमस्तक शिखाप्रदेशके
नागरादिसमलङ्कृतोक्तवत् । 72
देवता दिशि चाष्टतौ न्यसेद्
विष्णु(ष्णो)रीश्वरजिनादि(दे)राश्रये ॥ ३६ ॥
इति मानमारे वास्तुशास्त्रे त्रितलविधानं नाम एकोविंशोऽध्यायः ॥

चतुस्तलविधानम्
चतुस्तलविधानस्य(नं च) लक्षणं वक्ष्यतेऽधुना।
विस्तारोत्सेधभित्तो(भक्ति)श्च पूर्ववत्परिकल्पयेत् ॥ १ ॥
तुङ्गे चैकोनविंशांशमल्य(ध्य)र्धांश(शं) मसूरकम्।
तद्द्वयं पादतुङ्गं स्यात्तदर्थं प्रस्तरोदयम् ॥ २ ॥
सत्रिपादं च (द्वि)भागं वा तदू(धो)र्ध्वे पादोदयं भवेत्।
प्रस्तरोच्चं शिवांशं स्यात्सत्रिपादांशमङ्घ्रिकम् ॥ ३ ॥
ऊर्ध्वमञ्च(चां) त्रिपादं स्यात्तद्द्वयं चोर्ध्वपादकम्।
तदर्थं प्रस्तरोत्सेधं वेदिका(म)र्धेन योजयेत् ॥ ४ ॥
अंशेन गलतुङ्गं स्यात्तद्द्वयं शिर(रस्)तुङ्गकम्।
तदर्थं स्तूपिकोत्तुङ्गं मूलतः परिकल्पयेत् ॥ ५ ॥
विष्णुकान्तमिति प्रोक्तं कर्णहर्म्यादिभूषितम्।
चत्वारिंशद्वा(द्व्य)धिक्यं भाग(गं) तुङ्गे विभाजिते ॥ ६ ॥
अधिष्ठानं त्रिभागं स्यात्तद्द्वयं पादतुङ्गकम्।
प्रस्तरोच्चं गुणांशं स्यादूर्ध्वे पादं रसांशकम् ॥ ७ ॥
सार्धद्विभागमञ्चं स्यात्सार्धवेदाङ्घ्रितुङ्गकम्।
तदर्थं प्रस्तरोत्सेधं पादोनं चतुरङ्घ्रिकम् ॥ ८ ॥
प्रस्तरं च त्रिभागं स्यात्तदर्थं वेदिकोन्नतम्।
गलोच्चं तद्विभागं स्यादाद्यंशं मस्तकोदयम् ॥ ९ ॥
द्व्यंशं स्तूपिकोत्तुङ्गं तस्य मूले विशेषतः।
विस्तारे भागिकांशेन चावृतालिन्दमेव च ॥ १० ॥
तद्वद्धिश्चैकभागेन मूलपादाग्रकान्तकम्।
अधिष्ठानादिवर्गाढ्यं कर्णहर्म्यादिमण्डितम् ॥ ११ ॥
20

/कर्य. Letter 3: हLetter 4:म्या(no repha). So it is printed as:कर्यहम्यादिभूषितम्`!

Line 21:
तदेव(वं) हर्म्यमूले तु पूर्ववत्परिकल्पयेत् ।
Notice तदेव(वं) - original तदेव, corrected to (वं).

Line 22:
तच्चतुर्द्वारसंयुक्तं चांशेन भद्रसंयुक्तम् ॥ २२ ॥

Line 23:
एवमीश्वरकान्तं स्यादधिष्ठानादि(नं) क्रमान्नयेत् ।

Line 24:
तुङ्गे पञ्चदशांशं स्याद्व्यंशक(कं) मसूरकम् ॥ २३ ॥

Line 25:
पादतुङ्गं षडंशं स्यात्प्रस्तरोच्चं गुणांशकम् ।

Line 26:
तत्समं चोर्ध्वमञ्चं स्यात्तदूर्ध्वं पञ्चरांशकम् ॥ २४ ॥
Wait, "पञ्चरांशकम्" or "पञ्जरांशकम्"?
Look at the dot/letter: प, ञ्ज or ञ्च with रा?
It is पञ्चरांशकम् (with ञ्च) or पञ्जरांशकम्? It looks like `पञ्ज

२२] चतुस्तलविधानम् १६३
युगांशं चोर्ध्वपादं च द्व्यंशेन प्रस्तरोदयम् ।
तदूर्ध्वे त्वर्धमञ्चं स्यात्सार्धबन्धां(न्ध्यं)शकाङ्घ्रिकम् ॥ २६ ॥ 52
तदर्धं प्रस्तरोत्सेधं पादभागोर्ध्वमञ्चकम् ।
वेदिकोच्चं शिवांशं स्यात्सार्धद्वि(द्व्यं)शं गलोदयम् ॥ २७ ॥
मस्तकोच्चं शरांशं स्याच्छेषं कुम्भोदयं भवेत् ।
मञ्चकान्तमिति प्रोक्तं कर्णहर्म्यादिमण्डितम् ॥ २८ ॥ 56
तदूर्ध्वे च विमानं च वेदिका वेदिकं तथा (कान्तकम्) ।
सर्वालङ्कारसंयुक्तं शेषं पूर्ववदाचरेत् ॥ २९ ॥
तुङ्गे षड्विंशमंशेन चात्य(ध्य)धींशमसूरकम् ।
रुद्रात्(द्रेण) पादतुङ्गं स्यात्तदर्धं प्रस्तरोदयम् ॥ ३० ॥ 60
सपादांशमधिष्ठानं त्र्यर्धांशमङ्घ्रितुङ्गकम् ।
तदर्धं प्रस्तरोत्सेधं तदूर्ध्वेऽशं मसूरकम् ॥ ३१ ॥
पादतुङ्गं द्विभागं स्यान्मञ्चतुङ्गं शिवांशकम् ।
पादोनद्वि(द्व्यं)शपादं स्यात्तदर्धं प्रस्तरोदयम् ॥ ३२ ॥ 64
सपादांशाङ्घ्रितुङ्गं स्यात्तदर्धं प्रस्तरोदयम् ।
तदूर्ध्वे पा

१६४ मानमारे [अध्यायः २२]
अथवा द्वि(द्वयं)समाश्रित्य लिङ्गं(त्यालिन्दं) कुर्याद्विचक्षणः ।
तदूर्ध्वे विस्तृता(तं) बाह्ये द्वि(द्वयं)शेनावृत(तं) पूर्ववत् ॥ ४० ॥ 80
तस्यान्तश्चोक्तवत्कुर्याद्भागमेकर(म)लङ्कृतम् ।
एकेन कर्णहर्म्यादिमण्डितं चावृतं न्यसेत् ॥ ४१ ॥
भागेन परितोऽलिन्दं चोर्ध्वं तद्व(त्त)जलस्थलम् ।
तत्तद्बाह्येऽपि सर्वाङ्गं कर्णहर्म्यादिमण्डितम् ॥ ४२ ॥ 84
द्विभागेन तु मध्ये तु शालायामं तु विन्यसेत् ।
कूटानामेकभागेन शेषं द्वार(रं) सपञ्जरम् ॥ ४३ ॥
इन्द्रकान्तमिति प्रोक्तं क्षुद्र(द्रे) मध्ये च मुख्यके ।
तन्मुखे मण्डपं युक्तं तद्वित्स्यो मण्डपं स्यात् ॥ ४४ ॥ 88
प्राग्दिशि सोपानमध्यानामूर्ध्ववासनराननम् ।
सालामूलस्य तन्मध्ये चोर्ध्वं तत्र समायुतम् ॥ ४५ ॥
शेषं पूर्ववदुद्दिष्टं चाष्टधा विधमीरितम् ।
क्षुद्रं मध्यं मुखं(ख्यं) च कुर्याद्धर्म्यं सर्वदेवता(वा)नाम् ॥ ४६ ॥ 92
अन्येषामुत्तमानं युक्त्या कुर्यात्पुरातनैः कथितम् ।
नानाधिष्ठानपादैश्च वलभिभिश्च बहुविधैः [युक्तम्] ॥ ४७ ॥
कूटनीडैश्च शाले(लाभिश्च भद्रैर्दा(र)ष्टपाद्गर्भबहुतारैः ।
क्षुद्रैश्च नासागळैर्नानापञ्जरवेदितोरणमहानासैश्च वातायनैः ॥ ४८ ॥ 96
कोष्ठैर्विद्याधराद्यैर्गर्भाधिपतिसुरान्भूषणं कुर्व(रु)ते स्म ॥ ४९ ॥
क्षुद्रमन्यमथ मुख्य(ख्यं) भौमके
रुद्रविष्णुजिनकादिहर्म्यके ।
दक्षिणामूर्तिनरसिंहमूर्तिस्तथ्वादि 100
मूर्तिपुरतोक्तदेवानाम् ॥ ५० ॥
एवं मूर्तिं दक्षिण्यादिक्रमेण
एकानेकभौमतलस्थलादीन् ।
कुर्यात्सर्वं श्रोबद्देशे पतित्वाद् 104
युक्त्या धीमान् देवतां विन्यसेत्तत् ॥ ५१ ॥
इति मानमारे वास्तुशास्त्रे चतुस्तलविधानं नाम द्वाविंशोऽध्यायः ॥

पञ्चतलविधानम्
पञ्चभूमिविधानस्य(नं च) लक्षणां वक्ष्यतेऽधुना ।
क्षुद्र(द्रं) मध्यं च मुख्यं च विशालं भागमुच्छ्रयम् ॥ १ ॥
प्रागुक्तवत्प्रगृह्यं(ह्य) तु कुर्यात्पञ्चतलं बुधः ।
चतुर्विंशांशकं तुङ्गं सात्य(चाध्य)र्धांशमसूरके( कम् ) ॥ २ ॥ 4
बन्धां(न्ध्वं)शं पादतुङ्गं सपादत्य(ध्य)र्धं प्रस्तरोदयम् ।
सपादद्वि(द्ध्यं)शकं पादं मञ्चोर्ध्वं शशिवांशकम् ॥ ३ ॥
तदूर्ध्वेऽङ्घ्रि द्विभागं स्यात्प्रस्तरोषं शिवांशकम् ।
सत्रिपादांशकं पादं प्रस्तरोच्चं शिवांशकम् ॥ ४ ॥ 8
तदर्धं वेदिकोत्तुङ्गं चन्द्रांशं च गलोदयम् ।
मस्तकं चा(ह्या)र्धभागं स्याच्छेषं तु तच्छिखरो(खो)दयम् ॥ ५ ॥
कर्णहर्म्यादिसंयुक्तं सर्वालङ्कारसंयुतम् ।
ऐरावतमिति प्रोक्तं गन्ध(तत्) स्कन्धोद्यसंयुतम्(तं च) ॥ ६ ॥ 12
तदेव विस्तृतार्धेन चतुर्दिक्षु समन्वितम् ।
निर्गमं तु यथायुक्तं चतुर्दिक्षु (दिक्त्रि)तलं भवेत् ॥ ७ ॥
एतत्तु भूतकान्तं स्यात्पञ्चभौमविदो विदुः ।
विशालेन त्रिपादेन पूर्ववद्भद्रसंयुतम् ॥ ८ ॥ 16
चतुर्दिक्षु तलं कुर्यात्कर्णहर्म्यादिमण्डितम् ।
विश्वकान्तमिति प्रोक्तमेवं पञ्चतलं विदुः ॥ ६॥
अथवा विस्तृतं तुल्यं चतुर्दिक्त्वालयं स्मृतम् ।
तस्मात्त्रिभूलहर्म्यान्तं तद्वयोर्मूलदेशके ॥ १० ॥ 20
अन्तरालं प्रकुर्वीत पार्श्वे सोपानसंयुतम् ।
सर्वं प्रदक्षिणं कुर्याद्युक्त्या द्वारं प्रकल्पयेत् ॥ ११ ॥

१६६ मानसारे [अध्यायः २३]
मध्ये पञ्चचतुस्तद्द्वितलं पञ्चतलं भवेत् ।
मूर्तिकान्तमिति प्रोक्तं पूर्ववत्परिकल्पयेत् ॥ १२ ॥ 24
तदेव हर्म्यं विदिक्ष्वेव(ष्वेव च) वत्तन्मौलालयं भवेत् ।
गृहकान्तमिति प्रोक्तं पूर्ववत्परिकल्पयेत् ॥ १३ ॥
तद्वृद्धिः परितो देशे कुर्यात्षोडशालयम् ।
गृहकान्तादिहर्म्येषु चतुर्दिक्षु समालयम् ॥ १४ ॥ 28
पञ्चविंशत्युपपीठं प्रोक्तं यमकान्तमेव प्रकथ्यते ।
तदेवं परितो बाह्ये चतुर्विंशतिरालयम् ॥ १५ ॥
गृहकान्तादिहर्म्येषु चतुर्दिक्षु समालयम् ।
महाकान्तमिति प्रोक्तमेतत्पञ्चतलं भवेत् ॥ १६ ॥ 32
गृहकान्तादिहर्म्येषु चतुर्दिक्षु समालयम् ।
कुर्यात्चित्कल्याणमेतदिदं पञ्चतलान्वितम् ॥ १७ ॥
प्रासादार्धं समं वापि त्रिपादं वा समं तु वा ।
अन्तरालं विशालं स्यादथवा हस्तमानतः ॥ १८ ॥ 36
त्रिचतुर्हस्तमारभ्य द्विद्विहस्तविवर्धनात् ।
नवपङ्गिकरान्त(न्तं) स्यादन्तरालविशालकम् ॥ १९ ॥
अन्तराले यथायुक्त्या मण्डपाकार(रं) विन्यसेत् ।
अथवा त्रिकूटयुक्तं वा मूलस्य मुखपार्श्वयोः ॥ २० ॥ 40
यज्ञकान्तमिति प्रोक्तमेकानेकतलान्वितम् ।
पञ्चषट्स्त्वेकभूमि(मिः) स्याद्द्वितलं त्रितलं तु वा ॥ २१ ॥
पञ्चब्रह्मे(इ)ति प्रोक्तं सर्वालङ्कारसंयुतम् ।
एतदष्टविधं प्रोक्तं शेषं प्रागुक्तवन्नयेत् ॥ २२ ॥ 44
शिखरादि यथाकारं चैकाकारं तु योजयेत् ।
सर्वेषां देवतानां च हर्म्यमेवं प्रकल्पयेत् ॥ २३ ॥
एतत्सर्वं हर्म्यके दिक्षु कूटम्
शालानासिकापञ्जराढ्यम् । 48
नानारङ्गान्वितालिन्दयुक्तम्
पूर्वोक्तानां युक्तिः कारयेत्तत् ॥ २४ ॥
इति मानसारे वास्तुशास्त्रे पञ्चतलविधानं नाम त्रयोविंशोऽध्यायः ॥

षट्‌तलविधानम्
अधुना (विधानं) षट्‌तलं सम्यग्लक्षणं वक्ष्यतेऽधुना ।
विस्तारं च वि(रोत्सेधं)भागं च पूर्ववत्परिकल्पयेत् ॥ १ ॥
सप्ताधिकं तु पञ्चाशद्भागं कुर्यात्तदुच्छ्रये ।
सार्धबन्धम(न्ध्व)धिष्ठानं सप्तांशं पाददीर्घकम् ॥ २ ॥
तदर्धं प्रस्तरोत्सेधमूर्ध्वपादं षडंशकम् ।
तदूर्ध्वं मञ्च(ञ्चं) त्रियं(त्रयां)शं स्यादूर्ध्वपादं शरांशकम् ॥ ३ ॥
तदर्धं प्रस्तरोत्सेधं सार्धवेदांशकाङ्घ्रिकम् ।
प्रस्तरं च द्विभागं स्यात्सार्धबन्ध्यां(न्ध्वं)शमङ्‌घ्रिकम् ॥ ४ ॥
प्रस्तरं सार्धभागं स्याद्वेदिकां(कार्मं)शेन योजयेत् ।
ग्रीवतुङ्ग(ङ्गं) युगांशं स्याच्छिखरां युगांशकम् ॥ ५ ॥
शेषं तु स्तूपिकोत्तुङ्गं युक्त्या तत्रैव योजयेत् ।
एतत्तु पद्मकान्तं स्यात्सर्वालङ्कारसंयुतम् ॥ ६ ॥
तदेवाधिष्ठानमंशेन तले तले विशेषतः ।
एतत्कान्तारमित्युक्तं कर्णहर्म्यादिमण्डितम् ॥ ७ ॥
अथ वापि च दिक्कुर्यात् सुन्दरं चेति कीर्तितम् ।
अथवा चोपपीठं स्यादापकान्तमिति स्मृतम् ॥ ८ ॥
अथवा चोर्ध्वतले सर्वे(सर्वस्मिन्) वेदिं कुर्यात्समञ्चकम् ।
कमलाख्य(ञ्च)मिति प्रोक्तमन्तरप्रस्तरान्वितम् ॥ ९ ॥
तृतीये मञ्चसंयुक्तं रत्नकान्तमिहोच्यते ।
चतुर्थं प्रस्तरैर्युक्तं विपुलाङ्कमिति स्मृतम् ॥ १० ॥
पञ्चमं मञ्चायुक्तं स्याज्ज्योति(तिष्)कान्तमिति स्मृतम् ।
तदेव भद्रसंयुक्तमेतत्प्रोक्तं सरोरुहम् ॥ ११ ॥

१६८ मानसा​रे [अध्यायः २४]
तद्गोपादि शिखान्तं च विपुलाकृतिकं भवेत् ।
तदेव शिखरो(रं व)ख्वश्रं ख्लिकान्तमिति स्मृतम् ॥ १२ ॥
तदेव चतुरश्रं स्याज्जन्मावर्त्तमिहोच्यते ।
तदेव गल(लं) वस्वश्रमिन्दुकान्तमिति स्मृतम् ॥ १३ ॥
एवं त्रयोदशं नाना प्रोक्तं षट्‌तलहर्म्यके ।
त्रिचतुष्पञ्चषट्सप्त(प्तं) मध्यकोष्ठं विशालकम् ॥ १४ ॥
एकद्वित्रिचतुष्पञ्चभागं हारं सपञ्जरम् ।
एकं वाथ द्विभागं वा कर्णकूटविशालकम् ॥ १५ ॥
तले तले कर्णकूटं कोष्ठहारादिभूषितम् ।
एकद्वित्रिविभागं च हारमध्ये तु भद्रकम् ॥ १६ ॥
एकद्वित्रिचतुष्पञ्च(ञ्चं) कोष्ठमध्ये तु भद्रकम् ।
कर्णकूटविशाले तु त्रिभागैकं मध्यभद्रकम् ॥ १७ ॥
भद्रशाला महानासी चार्धशालाद्यलङ्कृतम् ।
आदिभूमिकियायुक्त्या(क्त्या) चोर्ध्वोर्ध्वतला(लानि) न्यसेत् ॥ १८ ॥
वि(द्वि)तलावृतदलान्तं स्यादेवं युक्त्या समलङ्कृतम् ।
नानाधिष्ठानसंयुक्तं नानापादैरलङ्कृतम् ॥ १९ ॥
नानापञ्जरशालानां(भिः) नासिकापञ्जरान्वितम् ।
प्रस्तरादिकपोतान्तं क्षुद्रनास्या विभूषितम् ॥ २० ॥
शिखरे च मध्यनास्यैः क्षुद्रकपोतनासिकाः ।
वि(सर्व)शनासिकायुक्तं सर्वालङ्कारसंयुतम् ॥ २१ ॥
ग्रीवे च क्षुद्रपादानां युक्त्या च समलङ्कृतम् ।
कर्णहर्म्यादिसंयुक्तं यत्तलोपरिदेशके ॥ २२ ॥
एकभाग(गं) द्विभागं वा मूलव्यावृतालिन्दकम् ।
ऊर्ध्वोर्ध्वतलानां तु चैकभागेन(ना)लिन्दकम् ॥ २३ ॥
एतत्षट्‌तलं प्रोक्तं शेषं युक्त्या (कुर्यात्) च पूर्ववत् ।
पूर्वोक्तसकलानामपि देवानां तत्राखिलसौधकोष्ठकेषु ॥ २४ ॥
ब्रह्म(ह्मा)विष्णुशिवा(व)नारदैः सह सङ्कुलैः कुरुते शिल्पिवित्तमः ॥ २५ ॥
इति मानमारे वास्तुशास्त्रे षट्तलविधानं नाम चतुर्विंशोऽध्यायः ॥

सप्तभूमिविधानस्य(नं च) लक्षणं वक्ष्यतेऽधुना ।
विस्तारोत्सेधमानं(भागं) च पूर्ववत्परिकल्पयेत् ॥ १ ॥
जन्मादिस्तूपिपर्यन्तं समानानि विभाजिते ।
भागोनषट्पषदंशं स्याद्वि(द्वयं)शाधिष्ठानेोच्छ्रयम् ॥ २ ॥
तदूर्ध्वं पादतुङ्गं स्यात्प्रस्तरोचं कलांशकम् ।
तदूर्ध्वे[ऽङ्घ्रि] सार्धबन्धां(न्ध्यं)शं तदर्धं प्रस्तरोदयम् ॥ ३ ॥
गुणांशं पादतुङ्गं स्यात्सार्धभागोर्ध्वमञ्चकम् ।
सार्धयुग्मांशपादोध्वं(र्ध्वं) सपादांशं प्रस्तरोदयम् ॥ ४ ॥
वेदिकोच्चा(च्चम)र्धभागं स्यात्सपादांशं गलोदयम् ।
चरणोर्ध्वं त्रिभागं स्यान्मञ्चोर्ध्वमम्बरांशकम् ॥ ५ ॥
पादोनद्वि(द्वयं)शपादोच्चं शिवांशं प्रस्तरोदयम् ।
अत्य(ध्य)र्धं पादतुङ्गं स्यान्मञ्चोर्ध्वं तु तदर्धकम् ॥ ६ ॥
वेदिकोच्चा(च्चम)र्धभागं स्यात्सपादांशं गलोदयम् ।
तदूर्ध्वं शिर(रस्) तुङ्गं स्याच्छ्लेषं तु तच्छिखोदयम् ॥ ७ ॥
पूर्ववद्भक्तिमानेन विस्तारे(रं) वत्प्रकल्पयेत् ।
क्षुद्रे च मध्य(ध्ये) मुख्ये च कूटशालादिभागता ॥ ८ ॥
एकं वाथ द्विभागं [वा] कर्णकूटविशालकम् ।
षट्सप्ताष्टनवांशं वा शालायामं तु मध्यमे ॥ ९ ॥
शालाकूटद्वयोर्मध्ये शेषांशं चान्तरालकम् ।
तन्मध्ये द्वित्रिभागैकं क्षुद्रशालाविशालता ॥ १० ॥
तत्तत्पार्श्वद्वयोर्हारे शेषभागं विधीयते ।
तदूर्ध्वं चैकभागेन कुर्यादावृततालिन्दकम् ॥ ११ ॥

१७० मानसारे [अध्यायः २५]
तले तले च पादौ च कर्णहर्म्यादिमण्डितम् ।
पुण्डरीकमिदं प्रोक्तं सर्वालङ्कारसंयुतम् ॥ १२ ॥ 24
मध्ये तु भद्रशालं च श्रीकान्तमिति स्मृतम् ।
ऊर्ध्वशाला च(लया) संयुक्तं श्रीभोगमिति कथ्यते ॥ १३ ॥
शालापार्श्वे तु कूटं स्याद्द्वारार्थं तत्प्रकथ्यते ।
गलगूटसमायुक्तं पञ्जराख्यमुदीरितम् ॥ १४ ॥ 28
तले तले भद्रकोष्ठा(ष्ठमा) श्रमागारं परिकीर्तितम् ।
मञ्चयुग्मं तु(गमेन) संयुक्तं हर्म्यकान्तमिति स्मृतम् ॥ १५ ॥
ऊर्ध्वकूटसमायुक्तं हिमकान्तमिति स्मृतम् ।
एतदष्टविधं प्रोक्तं सप्तभूमिविधानके ॥ १६ ॥ 32
तले तले तु कोष्ठं स्यात्कर्णकूटाद्यलिन्दकम् ।
क्षुद्रशालादिसर्वेषां वेदिकाभिरलङ्कृतम् ॥ १७ ॥
तोरणैर्नासिकैर्युक्तं क्षुद्रनास्यैश्च भूषितम् ।
नानाधिष्ठानसंयुक्तं नानापादैरलङ्कृतम् ॥ १८ ॥ 36
नानाप्रस्तरसंयुक्तं जालकाभिरलङ्कृतम् ।
एकाङ्गं च त्र्यङ्गं वा पञ्चसप्ताङ्गमेव वा ॥ १९ ॥
एवं सप्ततलं प्रोक्तं शे ' प्रागुक्तवन्नयेत् ।
देवानां पूर्ववत्कुर्यात्तले तले विमानके ॥ २० ॥ 40
इति मानसारे वास्तुशास्त्रे सप्ततलविधानं नाम पञ्चविंशोऽध्यायः ॥