सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 186, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 186

१९] एकतलविधानम् १५१
तत्तद्द्विद्वारदेवा[न्] न्यसेदेतद्द्वारपार्श्वयोश्चैव ।
नन्दिमहाकालाद्यौ चोक्तवद् द्वारदेवा[न्] न्यसेत् ॥ १०७ ॥
मण्डपे(पस्य) दक्षिणे कोष्ठे नृत्तयुक्तै(क्तमे)व विनायकमुक्तम् । २२०
मण्डपसौम्यकोष्ठे स्थानदुर्गयुक्तं स्थापयेत्तत्स्थम् ॥ १०८ ॥
प्रासाददक्षिणे मध्यकोष्ठे ध्यानदक्षिणामूर्तिम् ।
तदूर्ध्वे ग्रीवकोष्ठे गेयमूर्ति वीरभद्रं वापि ॥ १०९ ॥
पश्चिममूलतले मध्ये कोष्ठे लिङ्गोद्भूतम् । २२४
अथवाधंनारीश्वर(रं) स्थानकं विष्णुं स्थापयेद्वापि ॥ ११० ॥
तदूर्ध्वे ग्रीवकोष्ठे तु केशवन्नृसिंहाच्युता[ना]सीनम्(नान्) ।
सौम्यके मूलतले कोष्ठे स्थानकं चतुर्मुखं स्यात् ॥ १११ ॥
तदूर्ध्वे ग्रीवकोष्ठेऽथ नदं(नारदं) कमलं(लजं) वापि । २२८
पूर्वे गलदेशे मध्यकोष्ठे गुहं गजारूढम् ॥ ११२ ॥
निशापतिं वाथ सर्वया तत्तद्धेभ्या सहासन[स्थ]मुक्तम् ।
इन्द्रस्य दक्षिणद्वारात्परितः षोडशविमर्हं कुर्यात् ॥ ११३ ॥
प्रस्तरोपरि[तं] देशे कोणे कोणे स्थापयेद्वृषभम् । २३२
कर्णेकमेकमूर्ध्वं च द्वयं वाथ वृषभसंयुक्तम् ॥ ११४ ॥
एकानेकतलं सर्वमेतद्देवान्पुराणसंयुक्तम् ।
एवं शिवहर्म्याणां योग्यं विनोदमन्यदेवानाम् ॥ ११५ ॥
तत्तद्द्वारमुक्तं ए(चै)कानेकतलोपेतं सर्वम् । २३६
अथवा विष्णुविमाने[स्ति] देवस्थापनं वक्ष्यामः ॥ ११६ ॥
द्वारे चण्डप्रचण्डौ च मण्डपयाम्ये वनित(ता)म् ।
प्रागुक्तवत्सौम्यदेशे विमाने पूर्ववद्देवतां वापि ॥ ११७ ॥
हरिं वा गरुडं वा कुर्यात्पुरतो(पूर्वो)क्तचतुष्कोणे । २४०
शयनं वासनं सिंहं तार्थ्यं कृताञ्जल्यासनयुक्तम् ॥ ११८ ॥
पोत्री नृसिंहमथ केशवमश्वरथं (स्थं) कर्णात्पूर्वादिदिक्षु चतुर्षु ।
पूर्वकान्त(प्रोक्त)हर्म्ये(र्म्य)कभूमिगलदेशमिति प्रतिष्ठां कुर्यात् ॥ ११९ ॥