मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 187, कुल 856 में से
संदर्भ में पढ़ें१५२ मानसारे [अध्यायः १९]
दुर्गम(उत्तरा)भिमथासनमच्युतं वा 244
प्राच्यां दिशि द्वितलहर्म्ये गलप्रदेशे ।
श्रीमाधवं नरहरिं कृत(तं) दक्षिणे च
नारायणं चाथ पश्चिमदिक् प्रदेशे ॥ १२० ॥
क्रो(क्री)डं चोत्तर(रे) जनार्दन(नं) हर्म्यके तत् । 248
त्रितले पूर्वदिग्देशे ग्रीवे तच्छ्रीधरं न्यसेत् ॥ १२१ ॥
उत्तरे वासुदेवं चाथवान्यसंकर्षणं स्मृतम् ।
अनिरुद्धं पश्चिमदेशे चोर्ध्वे वा तदधो(दूर्ध्व)तले ॥ १२२ ॥
एवं तु चोक्तवत्कृत्वा बौद्धादिजिनकालयम् । 252
तत्तद्विमानयो(स्यो)र्ध्वे तु तत्तद्देवान्न्यसेत्क्रमात् ॥ १२३ ॥
अन्येषां देवदेवीनां विमाने तत्तद्विधानतः ।
सर्वेषां हर्म्यके कुर्यात्तत्तद्वाहनमीरितम् ॥ १२४ ॥
शयनं वासनं वापि प्रस्तरस्योपरि न्यसेत् । 256
एवं तत्रोक्तवत्कुर्यादूर्ध्वं तत्सम्पदां(दास्)पदम् ॥ १२५ ॥
एकभूमिं कुर्यादधिकं चोपपीठ(ठं) रुचिरार्थं संयुतम् ।
सोपपीठभवनैर्युतं तु वा कारयेत्तु कथितं पुरातनैः ॥ १२६ ॥
एवं सर्वहर्म्यालंकारयुक्तञ्चा 260
नानापादैर्वेदिकान्ता(धा)रमञ्चकम् ॥
हीनाधिक्यं चेद्दिग्नाशनं तस्मात्
कुर्यात्सर्वं चोक्तवत्सम्पदा(द)र्थम् ॥ १२७ ॥
इति मानसारे वास्तुशास्त्रे एकभूमिविधानं नाम एकोनविंशोऽध्यायः ॥