मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 188, कुल 856 में से
संदर्भ में पढ़ेंद्वितलविधानम्
द्वितलानामलङ्कारं वक्ष्ये संक्षिप्यतेऽधुना ।
विस्तारोत्सेध(धौ) हर्म्ये वा पूर्ववत्परिकल्पयेत् ॥ १ ॥
उपानादिस्तूपिपर्यन्तं ष(चा)ष्टाविंशद्विभाजिते ।
अ(आ)धारोच्चं गुणांशं स्यात्पादतुङ्गं षडंशकम् ॥ २ ॥ 4
बन्ध्वंशं प्रस्तरोत्सेधं चोर्ध्वं पादं शरांशकम् ।
तदूर्ध्वं पादमश्वोर्ध्वं शिवांशं वेदिकोदयम् ॥ ३ ॥
तदूर्ध्वं कन्थरोत्सेधं वेदांशं शिखरोदयम् ।
तदूर्ध्वं स्तूपियुग्मां(त्रयां)शं तुङ्गं तु परिकल्पयेत् ॥ ४ ॥ 8
एकत्रिंशांशकं तुङ्गं सार्धबन्धु(न्धु) मसूरकम् ।
सप्तांशं पादतुङ्गं स्यात्तदर्धं प्रस्तरोदयम् ॥ ५ ॥
तदूर्ध्वेऽर्धमधिष्ठानं द्व्यंश(शं) वेदाङ्घ्रितुङ्गकम् ।
तदर्धं प्रस्तरोत्सेधं तदर्धं वेदिकोदयम् ॥ ६ ॥ 12
तदूर्ध्वं वेदितुङ्गं स्याच्छिखरोच्चं युगांशकम् ।
स्तूपितुङ्गं द्वयांशं स्याद्द्वितले तद्द्वितीयकम् ॥ ७ ॥
तदेवोर्ध्वमधिष्ठानं विमानांशे कवितस्तिकम् ।
तदूर्ध्वेऽङ्घ्रि शरांशं स्यात्कर्णहर्म्यादिमण्डितम् ॥ ८ ॥ 16
शेषं तु पूर्ववत्कुर्यात्तृतीयद्वितलं भवेत् ।
तुङ्गे द्विरष्टभागं स्याद्व्यर्धीशां मसूरकम् ॥ ६ ॥
गुणांशं चाङ्घ्रितुङ्गं स्यात्प्रस्तरं सार्धभागिकम् ।
तदूर्ध्वमंशमधिष्ठानं तदूर्ध्वं द्व्यंशका(कम)ङ्घ्रिकम् ॥ १० ॥ 20
शिवांशं प्रस्तरोत्तुङ्गं त्रिपादं वो(चो)र्ध्वमसूरकम् ।
पादांशं वेदिकोत्तुङ्गं सपादार्शं गलोदयम् ॥ ११ ॥
19