सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 193, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 193

त्रितलविधानम्
त्रितलस्य विधानं च लक्षणं वक्ष्यतेऽधुना ।
विमानतुङ्गं(ङ्गं) षडंशे तु सार्धांशेन मसूरकम् ॥ १ ॥
तदूर्ध्वं पादतुङ्गं स्यात्तदर्धं प्रस्तरोदयम् ।
मूलपादोदयेऽष्टांशमधिकं (चांशाद्धीनं) चोध्वाङ्घ्रितुङ्गकम् ॥ २ ॥ 4
तदर्धं प्रस्तरोधं तु पादमूलद्विगुणाङ्घ्रिकम् ।
तदर्धं चोर्ध्वको[प]पादं तस्यार्धं वेदिकोन्नतम् ॥ ३ ॥
तदूर्ध्वं चोर्ध्वकण्ठं स्याद्ग्रीवातुङ्गं द्वयांशकम् ।
शेषं चोर्ध्वं शिखोत्तुङ्गं सर्वालङ्कारसंयुतम् ॥ ४ ॥ 8
प्रच्छादनोपरि स्तम्भं कार्यहर्म्यादिमण्डितम् ।
विस्तारोत्सेधभक्तमेषां यत्तत्राप्युक्तवन्नयेत् ॥ ५ ॥
श्रीकान्तं हर्म्यकं प्रोक्तं क्षुद्रं त्रितले विदुः ।
अथवा सप्तसप्तांशं विभजेत्त्रितलोदये ॥ ६ ॥ 12
चतुर्भागमधिष्ठानं तदूर्ध्वं पादतुङ्गकम् ।
अधिष्ठानसमं मञ्चं मध्वोध्वेऽर्धेन वप्रयुक् ॥ ७ ॥
सत्रिपादषडंशेन चोर्ध्वं पादोदयं भवेत् ।
तदूर्ध्वं प्रस्तरोत्तुङ्गं सत्रिपादं त्रिपादकम् ॥ ८ ॥ 16
तदूर्ध्वार्धेन वप्रं स्यात्तदूर्ध्वेऽङ्घ्रि षडंशकम् ।
सार्धद्विभाग(गं) मञ्चं स्यादर्धांशमूर्ध्वपट्टिकम् ॥ ९ ॥
एकांशं वेदिकोत्तुङ्गं ग्रीवातुङ्गं गुणांशकम् ।
तदूर्ध्वं शिखरतुङ्गं स्याद्गुणांशं तच्छिखोदयम् ॥ १० ॥ 20
शेषं प्रागुक्तवत्कुर्याद्वासनं परिकीर्तितम् ।
अथवा त्रितलोत्तुङ्गं(ङ्गे) द्वादशांशं विभाजिते ॥ ११ ॥

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश) · पृष्ठ 193, कुल 856 में से · SarvaKosh