मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 199, कुल 856 में से
संदर्भ में पढ़ें१६४ मानमारे [अध्यायः २२]
अथवा द्वि(द्वयं)समाश्रित्य लिङ्गं(त्यालिन्दं) कुर्याद्विचक्षणः ।
तदूर्ध्वे विस्तृता(तं) बाह्ये द्वि(द्वयं)शेनावृत(तं) पूर्ववत् ॥ ४० ॥ 80
तस्यान्तश्चोक्तवत्कुर्याद्भागमेकर(म)लङ्कृतम् ।
एकेन कर्णहर्म्यादिमण्डितं चावृतं न्यसेत् ॥ ४१ ॥
भागेन परितोऽलिन्दं चोर्ध्वं तद्व(त्त)जलस्थलम् ।
तत्तद्बाह्येऽपि सर्वाङ्गं कर्णहर्म्यादिमण्डितम् ॥ ४२ ॥ 84
द्विभागेन तु मध्ये तु शालायामं तु विन्यसेत् ।
कूटानामेकभागेन शेषं द्वार(रं) सपञ्जरम् ॥ ४३ ॥
इन्द्रकान्तमिति प्रोक्तं क्षुद्र(द्रे) मध्ये च मुख्यके ।
तन्मुखे मण्डपं युक्तं तद्वित्स्यो मण्डपं स्यात् ॥ ४४ ॥ 88
प्राग्दिशि सोपानमध्यानामूर्ध्ववासनराननम् ।
सालामूलस्य तन्मध्ये चोर्ध्वं तत्र समायुतम् ॥ ४५ ॥
शेषं पूर्ववदुद्दिष्टं चाष्टधा विधमीरितम् ।
क्षुद्रं मध्यं मुखं(ख्यं) च कुर्याद्धर्म्यं सर्वदेवता(वा)नाम् ॥ ४६ ॥ 92
अन्येषामुत्तमानं युक्त्या कुर्यात्पुरातनैः कथितम् ।
नानाधिष्ठानपादैश्च वलभिभिश्च बहुविधैः [युक्तम्] ॥ ४७ ॥
कूटनीडैश्च शाले(लाभिश्च भद्रैर्दा(र)ष्टपाद्गर्भबहुतारैः ।
क्षुद्रैश्च नासागळैर्नानापञ्जरवेदितोरणमहानासैश्च वातायनैः ॥ ४८ ॥ 96
कोष्ठैर्विद्याधराद्यैर्गर्भाधिपतिसुरान्भूषणं कुर्व(रु)ते स्म ॥ ४९ ॥
क्षुद्रमन्यमथ मुख्य(ख्यं) भौमके
रुद्रविष्णुजिनकादिहर्म्यके ।
दक्षिणामूर्तिनरसिंहमूर्तिस्तथ्वादि 100
मूर्तिपुरतोक्तदेवानाम् ॥ ५० ॥
एवं मूर्तिं दक्षिण्यादिक्रमेण
एकानेकभौमतलस्थलादीन् ।
कुर्यात्सर्वं श्रोबद्देशे पतित्वाद् 104
युक्त्या धीमान् देवतां विन्यसेत्तत् ॥ ५१ ॥
इति मानमारे वास्तुशास्त्रे चतुस्तलविधानं नाम द्वाविंशोऽध्यायः ॥