मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 192, कुल 856 में से
संदर्भ में पढ़ें२०] द्वितलविधानम् १५७
तदेव शिवहर्म्यं तु मण्डपे तु विशेषतः ।
सौम्ये तु कालरूपं वा प्रोक्तवांस्तत्रदैवतम् ॥ ५१ ॥
स्थापयेत्क्षेत्रपालानां(न) षण्मुखं चापि कल्पयेत् ।
आरोग्यं(प्यं) हर्म्यमूले तु कर्णहर्म्यात्प्रवेशयेत् ॥ ५२ ॥ 104
सर्वेषां देवताहर्म्ये पूर्ववद्देवता न्यसेत् ।
उक्तवच्छालमार्गेण क(चो)हापोहेन योजयेत् ॥ ५३ ॥
वेदाश्रान्तं वर्तुलाभं गजाश्रं
वृत्ताश्रामं द्व्यश्रवृत्तं तमे(थै)व च । 108
तद्दीर्घं तच्छिरोग्रोवयुक्तम्
उक्तं प्राग्वद्भूषणैादि द्विभूमौ ॥ ५४ ॥
द्वाराप्रान्ते द्व्यंशकैकांशमलिन्दम्
मञ्चस्योर्ध्वे चावृतं प्रस्तरं च । 112
आरुह्य सार्धहर्म्यमूलं यद्
युक्त्या भक्त्या यन्मनोरम्यं कुर्यात् ॥ ५५ ॥
इति मानसारे वास्तुशास्त्रे द्वितलविधानं नाम विंशोऽध्यायः ॥