सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 190, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 190

२०] द्वितलविधानम् १५५
एकादशार्कहस्तान्तं पञ्चधा निर्गमं भवेत् ।
पञ्चषट्करमारभ्य द्विद्विहस्तविवर्धनात् ॥ २५ ॥
सैकार्कमनुहस्तान्तं निर्गमं पञ्चधा भवेत् ।
क्षुद्रालपमध्यमुख्यानां युक्त्या तत्रैव योजयेत् ॥ २६ ॥
अथ हर्म्यविशालार्धं तत्समं निर्गमं तु वा ।
यत्तद्भक्तिविशाले तु कूटमेकैकभागिकम् ॥ २७ ॥
एकं वाथ द्विपादं वा तस्य द्वारा विशालकम् ।
द्विभागं वा त्रिभागं वा मध्यशालाविशालता ॥ २८ ॥
हर्म्ये चोर्ध्वतले पादं बाह्यकूटादि विन्यसेत् ।
कर्णहर्म्याकृतिं वाथ चान्तरं प्रस्तरं तु वा ॥ २९ ॥
त्रिचतुः(तुष्)पञ्चाङ्गुलं वापि द्वितलेऽङ्घ्रि विशालकम् ।
तच्चतुः(तुष्)पञ्चषट्सप्तसप्ताष्टांशाङ्घ्रिविशालके ॥ ३० ॥
तत्तदेकांशहीनं स्यादूर्ध्वे पादविशालकम् ।
शाला कूटश्च पादौ च बाह्ये मध्यान्तरालकम् ॥ ३१ ॥
नासिकापञ्जरैः शालाकुम्भपादादिभूषितम् ।
तोरणैर्नीडभद्रादि[भिः] मूले चोर्ध्वे च भूषितम् ॥ ३२ ॥
नानाधिष्ठानसंयुक्तं नानापादैरलङ्कृतम् ।
नानागोपानसंयुक्तं क्षुद्रनास्यैर्विभूषितम् ॥ ३३ ॥
अर्धशालाविशेषोऽस्ति चोर्ध्वशालासमन्वितम् ।
तदूर्ध्वे प्रस्तरान्तः स्यान्नासिकाभिरलङ्कृतम् ॥ ३४ ॥
कूटानां चतुरश्रं स्यान्मध्ये मध्ये तु नासिका ।
एकद्वित्रिचतुर्दण्डं मध्यभद्रैस्(द्रस्य) तु निर्गमम् ॥ ३५ ॥
चतुःशाला चतुः(तुष्)कूटं चाष्टमा(हा)रं सपञ्जरम् ।
एकदण्डा(ण्डम)र्धदण्डं वा चोर्ध्वकूटादिवेशनम् ॥ ३६ ॥
मध्यकोष्ठे द्विपाश्र्वे तु चार्थशालासमन्वितम् ।
तदूर्ध्वे मध्यमे नासि तत्पार्श्वे वक्रनासिकम् ॥ ३७ ॥