मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 191, कुल 856 में से
संदर्भ में पढ़ेंतत्पार्श्वं शालयोः पार्श्वे क्षुद्रनास्यैर्विभूषितम् ।
कूटकोष्ठादिसर्वाङ्गैर् युक्त्वा तु समलङ्कृतम् ॥ ३८ ॥ 76
शेषं तु पूर्ववत्कुर्यात्कर्णहर्म्यादि चोक्तवत् ।
सप्ताष्टक(कं) द्विभूम्ये तु [वि]शेषाणां(षेण) वक्ष्यतेऽधुना ॥ ३९ ॥
विस्तारार्धद्विगुणं वा त्रिगुणं वा तदुच्छ्रयम् ।
तन्मुखे मण्डपाग्रे तु कुर्यादधिकमण्डपम् ॥ ४० ॥ 80
तत्पुरे मध्यमे द्वारं गवाक्षं वाथ कल्पयेत् ।
दक्षिणे मध्यमे द्वारं स्यादग्रे मध्यमण्डपम् ॥ ४१ ॥
चतुर्द्वारसमायुक्तं पूर्वे सोपानसंयुतम् ।
तद्घनं तल्लसर्वाङ्गं कूटकोष्ठादिभूषितम् ॥ ४२ ॥ 84
सोपपीठमधिष्ठानं सोपपीठ(ठं) मसूरकम् ।
तदूर्ध्वे पादमञ्चं च संयुक्तं तन्निर्गृहं(र्ग)कम् ॥ ४३ ॥
पूर्ववन्मानयुक्त्वा च विमानान्तस्य निर्गमम् ।
कुर्यात्तत्पादतुङ्गेषु षड्भागांशविहीनकम् ॥ ४४ ॥ 88
प्रस्तरस्योपरि न्यस्य चान्तर्मण्डलकुट्य(ड्य)कम् ।
कर्णहर्म्यादिसंयुक्तं सर्वालङ्कारसंयुतम् ॥ ४५ ॥
आरोप्यं प्रदक्षिणं सौम्यमेवं प्रकल्पयेत् ।
शेषं तु पूर्ववत्कुर्यात्सर्वदेवांश्च सञ्चके ॥ ४६ ॥ 92
श्रीकरं विजयं सिद्धं पौष्टि[कं] कान्तकं प्रभूतकम् ।
स्वस्तिकं पुष्कलं नाम प्रथमाद्यष्टसञ्चके ॥ ४७ ॥
पूर्ववच्चोक्तदेवानां सर्वहर्म्येषु योजयेत् ।
अथवा विष्णोर्हर्म्ये तु गले पूर्वे जनार्दनम् ॥ ४८ ॥ 96
दक्षिणे दक्षिणामूर्तिं नारसिंहमथापि वा ।
पश्चिमे केशवं प्रोक्तं चोत्तरे श्रीधरं भवेत् ॥ ४९ ॥
अथवा पितामहं स्यान्नागरादौ च हर्म्यके ।
द्वारदेवादि सर्वेषां(र्वान्) पूर्ववत्कल्पयेत्सुधीः ॥ ५० ॥ 100