सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 200, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 200

पञ्चतलविधानम्
पञ्चभूमिविधानस्य(नं च) लक्षणां वक्ष्यतेऽधुना ।
क्षुद्र(द्रं) मध्यं च मुख्यं च विशालं भागमुच्छ्रयम् ॥ १ ॥
प्रागुक्तवत्प्रगृह्यं(ह्य) तु कुर्यात्पञ्चतलं बुधः ।
चतुर्विंशांशकं तुङ्गं सात्य(चाध्य)र्धांशमसूरके( कम् ) ॥ २ ॥ 4
बन्धां(न्ध्वं)शं पादतुङ्गं सपादत्य(ध्य)र्धं प्रस्तरोदयम् ।
सपादद्वि(द्ध्यं)शकं पादं मञ्चोर्ध्वं शशिवांशकम् ॥ ३ ॥
तदूर्ध्वेऽङ्घ्रि द्विभागं स्यात्प्रस्तरोषं शिवांशकम् ।
सत्रिपादांशकं पादं प्रस्तरोच्चं शिवांशकम् ॥ ४ ॥ 8
तदर्धं वेदिकोत्तुङ्गं चन्द्रांशं च गलोदयम् ।
मस्तकं चा(ह्या)र्धभागं स्याच्छेषं तु तच्छिखरो(खो)दयम् ॥ ५ ॥
कर्णहर्म्यादिसंयुक्तं सर्वालङ्कारसंयुतम् ।
ऐरावतमिति प्रोक्तं गन्ध(तत्) स्कन्धोद्यसंयुतम्(तं च) ॥ ६ ॥ 12
तदेव विस्तृतार्धेन चतुर्दिक्षु समन्वितम् ।
निर्गमं तु यथायुक्तं चतुर्दिक्षु (दिक्त्रि)तलं भवेत् ॥ ७ ॥
एतत्तु भूतकान्तं स्यात्पञ्चभौमविदो विदुः ।
विशालेन त्रिपादेन पूर्ववद्भद्रसंयुतम् ॥ ८ ॥ 16
चतुर्दिक्षु तलं कुर्यात्कर्णहर्म्यादिमण्डितम् ।
विश्वकान्तमिति प्रोक्तमेवं पञ्चतलं विदुः ॥ ६॥
अथवा विस्तृतं तुल्यं चतुर्दिक्त्वालयं स्मृतम् ।
तस्मात्त्रिभूलहर्म्यान्तं तद्वयोर्मूलदेशके ॥ १० ॥ 20
अन्तरालं प्रकुर्वीत पार्श्वे सोपानसंयुतम् ।
सर्वं प्रदक्षिणं कुर्याद्युक्त्या द्वारं प्रकल्पयेत् ॥ ११ ॥