मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 189, कुल 856 में से
संदर्भ में पढ़ें१५४ मानसारे [अध्यायः
अर्धांशं शिरतु(स्तु)ङ्गं स्यात् (स)पादांशं शिखरोदयम् ।
चतुर्थं द्वितलं प्रोक्तं सदैव शिखरं विदुः ॥ १२ ॥ 24
लम्बनं सार्धभागेन गोपानादि क्रियान्वितम् ।
शेषं प्रागुक्तवत्कुर्यात्पञ्चधा द्वितलं विदुः ॥ १३ ॥
एकादशांशकं तुङ्गमेकांशन मसूरकम् ।
अङ्घ्रिका(कम)ङ्घ्रितुङ्गं स्याच्छेषांशं प्रस्तरोदयम् ॥ १४ ॥ 28
तदूर्ध्वे चोपपीठं स्यात्तत्समं च मसूरकम् ।
तदूर्ध्वं पादतुङ्गं स्यात्तदर्धं प्रस्तरोदयम् ॥ १५ ॥
तत्समं वेदितुङ्गं स्याच्छेषांशं गलतुङ्गकम् ।
शिखरोच्चं द्विभागं स्यादेकांशं स्तूपिकोदयम् ॥ १६ ॥ 32
षष्ठमं(कं) द्वितलं प्रोक्तं सप्तमं वक्ष्यतेऽधुना ।
एकादशांशकं तुङ्गे चैकांशन मसूरकम् ॥ १७ ॥
द्विभागं पादतुङ्गं स्यात्प्रस्तरं चाम्बरांशकम् ।
कुर्यात्तत्र व(घ)नं चोर्ध्वे त्रिपादांश(शं) मसूरकम् ॥ १८ ॥ 36
तदूर्ध्वं पादतुङ्गं स्यात्तदर्धं प्रस्तरोदयम् ।
तदूर्ध्वेऽङ्घ्रि सपादांशं एका(बार्धा)ंशं प्रस्तरोदयम् ॥ १९ ॥
पादांशं वेदिकोत्तुङ्गं तदूर्ध्वं गलतुङ्गकम् ।
शिखरोच्चं शिवांशं स्यात्तदर्धं तच्छिखोदयम् ॥ २० ॥ 40
द्वितले सप्तकं प्रोक्तं त्रयाङ्घ्रिकर्णहर्म्यकम् ।
तदेवाष्टाधिकं तुङ्गे तन्मूले प्रस्तरोर्ध्वके ॥ २१ ॥
अंशेन चोपपीठं स्यादधिकं द्वितलं स्मृतम् ।
एवं दण्डवशात्कुर्यान्निर्गमं तदिहोच्यते ॥ २२ ॥ 44
प्रागुक्तविस्तृतं बाह्ये निर्गमं परितस्तथा ।
एकदण्डं द्विदण्डं वा त्रिदण्डं निर्गमं स्मृतम् ॥ २३ ॥
एकहस्तं द्विहस्तं वा त्रिहस्तं वाथ निर्गमम् ।
त्रिचतुर्हस्तमारभ्य द्वंद्विहस्तविवर्धनात् ॥ २४ ॥ 48