सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Kumarasambhavam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा

DevanagariSanskritpublished268 पृष्ठ

( १८ )
HINDI TRANSLATION :- एक बार दृढ़ निश्चय वाली उस
( पार्वती ) ने एक अभिन्नहृदया सहेली के द्वारा ( अपने )
पिता जी से, जो उसकी इच्छा से परिचित थे, फलप्राप्ति
पर्यन्त तप करने के लिये अपने आप वन में रहने की आज्ञा
माँगी ॥ ६ ॥
ENGLISH TRANSLATION - Once, that firm-minded girl,
through a close friend, begged of her father, who knew
her desire, her residence in the forest in order to per-
form penance till their fruition 6.
PURPORT IN SANSKRIT :- गौर्याः पिता तस्या अभिप्राय-
मजानात्, परं सा तदाज्ञां विना वनं गन्तुमनुचितमिति निश्चित्य
स्वपितुरनुज्ञां स्वयमेव ग्रहीतुमशक्नुवती निजाभिन्नहृदयसखीद्वा-
रेणाभीष्टलाभपर्यन्तं तपश्चरितुं वने वसति स्वपितरं ययाचे ॥ ६ ॥
अथानुरूपाभिनिवेशतोषिणा
कृताभ्यनुज्ञा गुरुणा गरीयसा ।
प्रजासु पश्चात्प्रथितं तदाख्यया
जगाम गौरी शिखरं शिखण्डिमत् ॥ ७ ॥
अथेति। अथ गौरी अनुरूपाभिनिवेशतोषिणा अनुरूपेण योग्येन
अभिनिवेशेन आग्रहेण तुष्यतीति तथोक्तेन गरीयसा पूज्यतमेन
गुरुणा पित्रा कृताभ्यनुज्ञा तपः कुरु इति कृतानुमतिः सती पश्चात्
तपःसिद्धयुत्तरकालं प्रजासु जनेषु तदाख्यया तस्या गौर्याः संज्ञया
प्रथितम् । गौरीशिखरमिति प्रसिद्धमित्यर्थः । शिखण्डिमत् । न तु
हिंस्रप्राणिप्रचुरमिति भावः शिखर शृङ्गं जगाम ययौ ॥
PROSE ORDER :- अथ गौरी अनुरूपाभिनिवेशतोषिणा

( ११ )
गरीयसा गुरुणा कृताभ्यनुज्ञा पश्चात् प्रजासु तदाख्यया प्रथितं
शिखण्डिमत् शिखरं जगाम ॥ ७ ॥
NOTES :—गौरी—पार्वती known so because of her
brilliant complexion अनुरूपामिनिवेशतोषिणा । अनुरूपः—
रूपस्य योग्य सदृशो वा अनुरूपः ( अनुकूलः ) worthy of one.
अभिनिवेशः—( अभि + नि + √विश् + घञ् ) intentness or
determination (to effect a purpose or attain an object).
It also means devotion or love. तोषिणा—who was
satisfied Instrumental Sing of तोषिन् ( √तुष् + णिनिः ) ।
अनुरूपेण अभिनिवेशेन तुष्यति इति अनुरूपामिनिवेशतोषी तेन
who was satisfied with her determination worthy of
her गरीयसा—अतिशयेन गुरु. गरीयान, तेन, by the highly
venerable; exalted. Instrumental Sing of गरीयस् (गुरु+
ईयसुन् ) comparative degree of गुरु । Decline as गरीयान्,
गरीयांसौ, गरीयांसः । गरीयांसं, गरीबांसौ, गरीयसः । To form
comparative and superlative degrees of adjectives तरप्
or ईयसुन् and तमप् or इष्ठन् are respectively added by
' द्विवचनविभज्योपपदे तरप् ईयसुनौ ' पा० ५ ३ ५७ । and; अति-
शायने तमप् इष्ठनौ ' पा० ५ ३.५५ । गुरुणा—पित्रा by the
father Cf. ' गुरु गीष्यति पित्राद्यौ ' इत्यमरः । कृताभ्यनुज्ञा—
कृता ( दत्ता ) अभ्यनुज्ञा ( अनुमतिः ) यस्यै यस्या. वा सा To
whom consent or permission had been granted. अनुज्ञा
—( अनु + √ज्ञा + अङ् ) permission. पश्चात्—afterwards
i. e. when Parvati had finished her penance प्रजासु—
जनेषु among the people. तदाख्यया—तस्याः (गौर्याः)
आख्यया (संज्ञया) तदाख्यया after her name Cf गौरीशिखर,

( २० )
name of a peak of the Himalayas आख्या is formed from
√चक्षिङ्+थ, चक्षिङ् being replaced by √ख्याञ् by
‘चक्षिङः ख्याञ् २.४.५४. प्रथितं—(√प्रथ्+क्तः) प्रसिद्धं
known शिखण्डिमत्। शिखण्डिन्—(शिखण्ड+इनिः) शिखण्डः
(शिखा) अस्य अस्तीति one having a crest i e., a pea-cock.
शिखण्डिमत्—(शिखण्डिन्+मतुप्) शिखण्डिनः (मयूरा )
सन्ति अस्मिन् इति abounding in pea-cocks This shows
the absence of poisonous serpents and other ferocious
beasts The suffix मतुप् is added by ‘तदस्यास्त्यस्मिन्निति
मतुप्’ पा० ५ २ ९४ in the sense of ‘it has that or that is
in it’ शिखरं—a peak जगाम—गता resorted to Perfect
(लिट् ) √of गम् to go
Cf in this connection—‘गौरी विजयया सख्या जयया
च सुनेत्रया। साकं सखीभ्यां सुमुखी सा गौरीशिखरं ययौ। चकार
वसतिं यस्माद्गौरीशिखरमुच्यते ॥’ शिवपुराण ।
Change of Voice :—अथ गौर्या अनुरूपामिनिवेशतोषिया
गरीयसा गुरुणा कृताभ्यानुज्ञया पश्चात् प्रजासु तदाख्यया प्रथितं
शिखण्डिमत् शिखरं जग्मे ॥ ७ ॥
Hindi Translation:—तदनन्तर (उसके) योग्य निश्चय
से सन्तुष्ट हुए, पूज्य पिता से आज्ञा दी जाती हुई गौरी मोरो से
युक्त (हिमालय की एक) चोटी पर गई, जो कि बाद में जनता में
उसी के नाम से प्रसिद्ध हुई ॥ ७ ॥
English Translation —Being permitted by her
highly venerable father, who was satisfied with her
determination worthy of her, Gaurī resorted to a peak,

bounding in peacocks, which afterwards came to be
known by her name among the people 7.
Purport in Sanskrit :—पार्वत्याः पिता स्वदुहितुर्मन-
स्तद्योग्येऽर्थे लग्नं ज्ञात्वा संतुष्ट आसीत्, अतस्तेन सा वनं
गन्तुमनुज्ञाता । साऽपि पितुरनुमतिं संप्राप्य मयूराद्यहिंस्रप्राणि-
समन्वितं शान्तमेकं हिमवतः शृङ्गं तपः कर्त्तुं प्रययौ, यच्च
शेखरं तपोऽवसाने तस्या नाम्नैव 'गौरीशिखरं' इति प्रसिद्धं
जातम् ॥ ७ ॥
विमुच्य सा हारमहार्यनिश्चया
विलोलयष्टि प्रविलुप्तचन्दनम् ।
बबन्ध बालारुणबभ्रु वल्कलं
पयोधरोत्सेधविशीर्णसंहति ॥ ८ ॥
विमुच्येति । अहार्यनिश्चया अनिवार्यनिश्चया सा गौरी विलो-
लयष्टिप्रविलुप्तचन्दनम् विलोलाभिः चलाभिः यष्टिभि प्रतिसरैः
प्रविलुप्तं प्रमृष्टं चन्दनं स्तनान्तरगतं येन त तथोक्त हारं मुक्तावलीं
विमुच्य विहाय बालारुणबभ्रु बालार्कपिङ्गल पयोधरोत्सेधविशीर्ण-
संहति पयोधरयोः स्तनयोः उत्सेधेन उच्छ्रायेण विशीर्णा विघटिता
संहति अवयवसंश्लेषो यस्य तत्तथोक्तं वल्कलं कण्ठलम्बि
स्तनोत्तरीयभूतं बबन्ध । धारयामासेत्यर्थः ।
Prose Order —अहार्यनिश्चया सा विलोलयष्टिप्रविलुप्त-
चन्दनं हारं विमुच्य बालारुणबभ्रु पयोधरोत्सेधविशीर्णसंहति
वल्कलं बबन्ध ॥ ८ ॥
Notes:—अहार्यनिश्चया—न हार्यः ( अत्याज्यः ) निश्चयो
यस्याः सा whose determination was unalterable, i e, of
firm resolution हार्य—( √हृ+ण्यत् ) which can be

१. सर्ग २-३ (देवता प्रार्थना व कामदेव दहन)

( २२ )
removed or given up विलोत्तयष्टिप्रविलुप्तचन्दनम् । यष्टि—
a string of pearls of a necklace ( हार की लड़ियाँ—
हिन्दी ) प्रविप्लुत—( प्र+वि+√लुप्+क्तः ) wiped away ;
removed विलोलाभिःयष्टिभिः प्रविप्लुतं चन्दनं येन तम् which
wiped away the sandal-paste ( from her breast ) by
its tremulous strings of pearls An Adj of हारम्, the
necklace विमुच्य—( वि+√मुञ्च्+ल्यप् ) त्यक्त्वा having
given up This indicates Parvati's determination to
lead a simple and hard life in accordance with the
spirit of penance बालारुणबभ्रु—बालः ( नवोदितः ) चासौ
अरुणः ( सूर्यः ) बालारुण , स इव बभ्रु ( पिङ्गलम् ) which was
tawny like the morning sun बभ्रु—deep brown ;
reddish brown. The compound which is कर्मधारय is an
Adjective of वल्कलं and so is in Accusative Sing.
पयोधरोत्सेधविशीर्णसंहति । पयोधरः—धरतीति धरः (√धृ+
अप्) पयस ( दुग्धस्य ) धरः पयोधरः breasts उत्सेध—( उत्
+√सिध्+घञ् ) height ; elevation विशीर्णा—( वि+√शॄ
+क्तः) विघटिता broken or made less thick ; shattered.
Past Part of √शॄ to tear to pieces क्त is changed to
न and ultimately to णा । संहति—अवयवसंश्लेषः Compact-
ness ( वल्कल का गाढ़ापन—हिन्दी ) पयोधरयो उत्सेधेन
विशीर्णा संहतिः यस्य तत् पयोधरोत्सेधविशीर्णसंहति the
compactness of which was broken by the elevation
of her breasts It is also an Adjective of वल्कलम् ।
वल्कल—bark ; skin of a tree. बबन्ध—tied ; put on.
Perfect of √बन्ध् to tie

( २३ )
In this and the following three stanzas the poet
describes how did Parvati adopt the various things,
one after the other, necessary for a person practising
penance.
CHANGE OF VOICE :—अहार्यनिश्चयया तया विलोलयष्टि-
प्रलुप्तचन्दनं हारं विमुच्य बालारुणबभ्रु पयोधरोत्सेधविशीर्णसंहति
वल्कलं बबन्धे ॥ ८ ॥
HINDI TRANSLATION:—उस अटल निश्चय वाली (पार्वती)
ने हिलती हुई लड़ों से (छाती में लगे) चन्दन पोंछने वाले हार
को उतार कर, प्रातः कालीन सूर्य के समान कपिश, स्तनो की
ऊँचाई से छिन्न अवयव वाली (तनी हुई) पेड़ो की छाल धारण
कर ली ॥ ८ ॥
ENGLISH TRANSLATION —She, whose determination
was unalterable, having taken off her necklace,
which wiped away the sandal-paste (on her breast)
by its tremulous strings, put on a bark-garment,
tawny like the morning sun (and) the compactness
of which was loosened by the elevation of (her)
breasts. 8
PURPORT IN SANSKRIT : —निश्चलनिश्चया पार्वती भूष-
णानि महार्घवस्त्राणि च परित्यज्य तपोऽनुकूलं वेषं परिधत्ते स्म ।
आदौ तया मौक्तिको हारः परित्यक्तः, यस्तस्याः स्तनयोरन्तरालेऽ-
लम्बन्त यश्च तयोश्चन्दनलेपं प्रामाष्ट । शरीराच्छादनाय
चोद्यत्सूर्यपिङ्गलं वल्कलं धृतं, यस्यावयवानां कुचकाठिन्याच्छैथिल्यं
जातम् ॥ ८ ॥

( २४ )
यथा प्रसिद्धैर्मधुरं शिरोरुहैः
जटाभिरप्येवमभूत्तदाननम् ।
न षट्पदश्रेणिभिरेव पङ्कजं
सशैवलासङ्गमपि प्रकाशते ॥ ९ ॥
यथेति । तस्य देव्या आननं तदाननं प्रसिद्धैः भूषितै। प्रसिद्धौ
ख्यातभूषितौ ' इत्यमरः । रोहन्तीति रुहाः । ' इगुपधज्ञाप्रीकिर.
कः' इति कः प्रत्यय । शिरसि रुहाः तैः शिरोरुहैः मूर्धजै. यथा मधुरं
प्रिय अभूत् । 'स्वादु प्रियौ तु मधुरौ ' इत्यमरः । जटाभि अपि एवं
मधुरमभूत् । तथा हि पङ्कजं पद्म षट्पदश्रेणिभिः भ्रमरपङ्क्तिभि
एव न किन्तु सह शैवलासङ्गेन शैवलासङ्गमपि । 'तेन सहेति तुल्य-
योगे इति बहुव्रीहिः । प्रकाशते । शैवलेनापि शोभत एवेत्यर्थः ॥६॥
PROSE ORDER :—तदाननं प्रसिद्धैः शिरोरुहैः यथा मधुरं
अभूत्, जटाभिः अपि एवं (अभूत्) । पङ्कजं षट्पदश्रेणिभिः एव न
प्रकाशते (किन्तु ) सशैवलासङ्गं अपि ( प्रकाशते ) ॥ ६ ॥
NOTES:—तदानन—तस्याः आननम् । प्रसिद्धैः—सुसज्जितैः,
अलङ्कृतैः decorated. प्रसिद्ध means 'famous' and
'decorated' Cf. 'प्रसिद्धौ ख्यातभूषितौ' इत्यमरः । शिरोरुहैः
—रोहन्ति इति रुहा ( √रुह् to grow+कः) which grow.
शिरसि रुहाः शिरोरुहा ( केशाः ) which grow on the head
i. e hair. क suffix is added by 'इगुपधज्ञाप्रीकिरः कः'
पा० ३.१ १३५ । मधुरं—प्रियं, सुन्दरम् pretty. मधुरं means
'sweet' as well as 'agreeable.' Cf. स्वादुप्रियौ तु
मधुरौ' इत्यमरः । अभूत्—was. Aorist (लुङ्) of √भू' to be.'
जटाभिः—by means of matted hair. The difference
between ordinary hair and matted hair ( जटा ) is that

( २५ )
the former are oiled, combed and decorated in other-
ways to enhance the beauty of the face, but no such
care is taken in the case of the latter, which are
allowed to grow in a natural way अपि—also The
poet means to say that Parvati's face being handsome
looked as much pretty with matted hair as with
ordinary hair · even ugly things can not mar the
beauty of a really beautiful thing. This very idea is
supported by the next two lines of the stanza पङ्कजं—
(पङ्क + √जन् + डः) पङ्के पङ्कात् वा जायत इति a lotus.
षट्पदश्रेणिभिः—षट् पदानि येषां ते षट्पदाः ( भ्रमराः ) तेषां
श्रेणिभिः ( पङ्क्तिभि. ) swarms of bees For the synonyms
of षट्पद Cf. 'द्विरेफपुष्पलिड् भृङ्ग षट्पद भ्रमरालयः' इत्यमरः।
प्रकाशते—shines or looks beautiful Present of √काश्
to shine. सशैवलासङ्गम्—शैवलानां ( जलनीलिकानां ; काई—
हिन्दी ) आसङ्ग ( साहचर्य ) शैवलासङ्गः, शैवलासङ्गेन सह वर्त्त-
मानं सशैवलासङ्गम् by its union with moss आसङ्ग—
contact. The compound is बहुब्रीहि according to 'तेन
सहेति तुल्ययोगे' पा० २.२.२८। i e., the particle सह may
be compounded with a noun in the Instrumental Case
in a Bahuvrihi when there is equal participation in
some action; in this case सह optionally becomes स।
For the idea contained in this stanza see " सरसिज-
मनुविद्धं शैवलेनापि रम्यं, मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं
तनोति। इयमधिकमनोज्ञा वल्कलेनापि तन्वी, किमिव हि मधुराणां
मण्डनं नाकृतीनाम् ॥ " शकुन्तला १. १८

( २६ )
CHANGE OF VOICE —तदाननेन प्रसिद्धैः शिरोरुहैः
यथा मधुरेण अभावि, जटाभिरप्येव ( अभावि ) । पङ्कजेन
षट्पदश्रेणिभिरेव न प्रकाश्यते ( किन्तु ) सशैवलासङ्गेनापि
( प्रकाश्यते ) ॥ ९ ॥
HINDI TRANSLATION —उसका मुख जिस प्रकार सजे
हुए केशों से सुन्दर लगता था, उसी प्रकार जटाओं से भी
( लगता था )। कमल केवल भौंरों की पङ्क्तियों से ही नहीं,
अपि तु काई के साथ भी शोभायमान लगता है ॥ ६ ॥
ENGLISH TRANSLATION —As her face looked pretty
by decorated tresses, so it did by matted hair also A
lotus does not look beautiful only by the swarms of
bees, but even by its contact with moss. 9
PURPORT IN SANSKRIT —पूर्वं पार्वती भूषितान् केशान्
दधार यैस्तस्या आननमत्यन्तमशोभत। इदानीं तु तया जटाः
धृताः। परमाभिर्जटाभिस्तस्याः मुखस्य शोभा न्यूना न जाता,
अपि तु पूर्ववदेवाभासत। तथाहि—कमलं केवलं भ्रमराणां पङ्कि-
भिरेव न शोभतेऽपि तु शैवलयोगेऽपि तथैव सुन्दरं भवति। रूप-
वन्त आकारा सर्वथैव शोभाकरा इति तात्पर्यम् ॥ ९ ॥
प्रतिक्षणं सा कृतरोमविक्रियां
व्रताय मौञ्जीं त्रिगुणां बभार याम् ।
अकारि तत्पूर्वनिबद्धया तया
सरागमस्या रसनागुणास्पदम् ॥ १० ॥
प्रतीति । सा देवी प्रतिक्षणं क्षणे क्षणे कृतरोमविक्रियां
पारुष्यात्कृतरोमाञ्चां त्रिगुणां त्रिरावृतां यां मौञ्जीं मुञ्जमयीं मेखलां
व्रताय तपसे बभार। तत्पूर्वनिबद्धया तदेवपूर्व प्रथमं यस्य तत्पूर्व

( २७ )
यथा तथा निबद्धया तया मौञ्ज्या अस्याः देव्याः रसनागुणास्पदं
रसनागुणस्य आस्पदं स्थान जघनम्। सह रागेण सराग सलोहितं
अकारि कृतम् सौकुमार्यातिशयादिति भावः ॥ १० ॥
PROSE ORDER.—सा व्रताय प्रतिक्षणं कृतरोमविक्रियां
त्रिगुणां यां मौञ्जीं बभार, तत्पूर्वनिबद्धया तया अस्याः रशना-
गुणास्पदं सरागं अकारि ॥ १० ॥
NOTES :—व्रताय—व्रतं आचरितुं व्रतार्थे वा for penance.
For the use of Dative see notes on तपः समाधये in
stanza 6 above. प्रतिक्षणम्—क्षणे क्षणे इति प्रतिक्षणं every
moment वीप्सायां अव्ययीभावः i. e., Avyayibhava com-
pound here has the sense of ‘repetition.’ कृतरोमविक्रियां
—कृता रोम्णां विक्रिया यया सा, तां which caused horripi-
lation ; made hair stand at their ends Decline रोमन्
( the hair on the body of men and animals ) as—रोम,
रोम्णी, रोमाणि ( Nom and Acc ) रोम्णा, रोमभ्यां, रोमभिः
( Inst ) etc विक्रिया —विकार a change ; altered or
unnatural condition त्रिगुणां —त्रयो गुणाः (आवृत्तयः) यस्याः,
तां made of a triple string तीन डोरी वालो—हिन्दी ।
गुण—a string मौञ्जी—मुञ्जायः विकारो मौञ्जी (मुञ्ज + अण् +
ङीप् ) made of munja मुञ्ज grass ; a girdle made of
Munja grass, or a girdle. This was the sort of girdle
prescribed for a Brahmana Cf ‘मौञ्जी त्रिवृत्समा श्लक्ष्णा
कार्या विप्रस्य मेखला । क्षत्रियस्य तु मौर्वी ज्या, वैश्यस्य शण-
तान्तवी ।’ मनु २ ४२ । बभार—धारयामास wore. Perfect of
√भृञ् to wear. तत्पूर्वनिबद्धया —तदेव पूर्वं ( प्रथमं ) यस्य तत्
तत्पूर्वं , तत्पूर्वं तथा स्यात्तथा निबद्धया or तदेव पूर्वं निबद्धं

( २८ )
( निबन्धनं ) यस्याः सा, तया which was fastened then for
the first time Adj of तया—मौञ्ज्या । निबद्धं—( नि+
√बन्ध्+क्त) tied रशनागुणास्पदम्। रशना—मेखला a girdle.
रशनागुणाः—रशनायाः गुणाः the cord of a girdle आस्पदं—
स्थानं place रशनागुणस्य आस्पदं the place for the cord
of a girdle i e, the waist, the thigh or the hip सरागं—
रागेण सह (लोहितं) red अकारि—कृतम् was made. Passive
Aorist of √कृ to do
The waist-band being made of munja grass was
very rough and, moreover, it was worn by Parvati
for the first time, hence her waist was made red
by it
CHANGE OF VOICE:—तया वनाय प्रतिक्षणं कृतरोमविक्रिया
त्रिगुणा या मौञ्जी बभ्रे, तत्पूर्वनिबद्धा सा अस्याः रशनागुणास्पदं
सरागं अकार्षीत् ॥ १० ॥
HINDI TRANSLATION :—उसने वन के निमित्त प्रतिक्षण
में रोमाञ्चित करने वाली, तीन लड़ की, मूंज की बनी जिस
मेखला को धारण किया, तभी पहिली बार बाँधी हुई,
उसने उसकी मेखला बाँधने की जगह (कमर) को लाल कर
दिया ॥ १० ॥
ENGLISH TRANSLATION :—Her waist (lit the place
for the cord of a girdle was made red by the girdle of
Munja grass, comprising three threads, which was
fastened then for the first time, which she wore for
her penance (and) which made her hair stand erect
every moment 10.

( २१ )
Purport in Sanskrit :-पूर्वं तु पार्वती कटिप्रदेशे
क्षौमादिनिर्मितां कोमलां काञ्चीं दधार, अधुना तु व्रतनियमानुसारं
तया मुञ्जतृणनिर्मिता त्रिरावृत्ता कर्कशा काञ्ची धृता । इयं काञ्ची
पारुष्यात् क्षणे क्षणे तस्याः शरीरे रोमाञ्चमकरोत् , यतश्च सा
तद्धारणेऽनभ्यस्तासीत्तया तस्याः कटिप्रदेशः संघर्षणेन रक्ती-
कृतः ॥ १०॥
विसृष्टरागादधरानिवर्तितः
स्तनाङ्गरागारुणिताच्च कन्दुकात ।
कुशाङ्कुरादानपरिक्षताङ्गुलिः
कृतोऽक्षसूत्रप्रणयी तया करः ॥ ११ ॥
विसृष्टेति । तया देव्या विसृष्टरागात् त्यक्तलाक्षारसरञ्जनात्
अधरात् अधरोष्ठात् निवर्तितः । निसृष्टरागादिति पाठे नितरां
त्यक्तलाक्षारागात् । रागत्यागेन निष्प्रयोजनत्वादिति भावः । तथा
( स्तनाङ्गरागारुणितात् ) स्तनाङ्गरागेण अरुणितात् अरुणीकृतात्
पतनसमये तस्य स्तनयोरुपरोधात् इति भावः । कन्दुकात च
निवर्तितः । ( कुशाङ्कुरादानपरिक्षताङ्गुलि ) कुशाङ्कुराणामादानेन
लवनेन क्षताः व्रणिताः अङ्गुलयो यस्य स तथोक्त करः पाणिः
अक्षसूत्रप्रणयी अक्षमालासहचरः कृत ।
Prose Order :-तया विसृष्टरागात् अधरात् स्तनाङ्ग-
रागारुणितात् कन्दुकात च निवर्तितः करः कुशाङ्कुरादानपरि-
क्षताङ्गुलि अक्षसूत्र प्रणयी कृतः ॥ ११ ॥
Notes —विसृष्टरागात । विसृष्टः-( वि+ √सृज्+क्तः )
त्यक्तः given up ; left ; removed. √ सृज् to create, changes
its meaning when preceded by वि । रागः-( √रञ्ज्+
कु० सं०-४

( ३० )
घञ् ) colour ; the act of colouring. विसृष्टः रागः यस्य,
तस्मात् of which painting had been given up, or from
which the red colour had disappeared Before taking
to the life of ascetism Parvati used to paint her lower
lip with lac—dye, but, now she could not attend to
such decorations अधरात्—from the lower lip. स्तनाङ्ग-
रागारुणितात् । अङ्गरागः—विलेपनम् scented cosmetic ;
application of unguents to the body ( especially after
bath ). अरुणितात्—रक्तीकृतात् reddened. अरुण + इतच्
( ' तदस्य संजातं तारकादिभ्य इतच् ' पा० ५. २ ३६ ) स्तनयोः
अङ्गरागेण अरुणितात् reddened by the unguent of her
breasts While playing, the ball sometimes touched
the breasts and it so was reddened by the paints applied
to them कन्दुकातू — from the ball. Like the painting of
lip- Parvati had given up playing with ball also
निवर्तितः—वारितः turned away The hands were no
longer employed for the two acts mentioned above.
कुशाङ्कुरादानपरिक्षताङ्गुलिः—कुशस्य अङ्कुराणां आदानेन परि-
क्षता अङ्गुलयो यस्य सः the fingers of which were pricked
while plucking the tender blades of kusha grass.
अक्षसूत्रप्रणयी—( प्रणयः+इनिः ) अक्षाणां सूत्रस्य ( रुद्राक्ष-
मालायाः ) प्रणयी ( प्रेमवान् ) the friend of the rosary of
Aksha beads, i e, the hand was employed in counting
the beads कृतः—was made. The poet means to say
that on assuming the role of ascetics, Parvati substi-
tuted plucking the kusha grass and counting of beads

( ३१ )
for painting of the lower lip and playing with the
ball.
CHANGE OF VOICE:— सा विसृष्टरागात् अधराद् स्तनाङ्ग-
रागारुणितात् कन्दु‌कात् च निवर्तितं करं कुशाङ्कुरादान-
परिक्षताङ्गुलि अक्षसूत्रप्रणयिनं च कृतवती ॥ ११ ॥
HINDI TRANSLATION:— छूट गया है रंगना जिसका ऐसे
ओठ (के रंगने) से तथा स्तनों के अङ्गलेप से लाल हुई गेंद
(के खेलने) से निवृत्त हुए हाथ को उसने कुश के अङ्कुरों के
काटने से घायल अंगुली वाला और रुद्राक्ष की माला से प्रेम
करने वाला (जपने वाला) बना दिया ॥ ११ ॥
ENGLISH TRANSLATION — The hand, which was
turned away from her lower lip, the painting of which
had been given up, and from the ball reddened by the
unguent of her breasts, was made by her such as the
fingers of which were pricked by plucking the tender
blades of kusha grass (and) the friend of the rosary
of Aksha beads 11
PURPORT IN SANSKRIT:— पूर्वं तु पार्वती स्वशरीरशोभार्थे
स्वकरेणाधरे लाक्षारसादिरागलेपमकार, मनोविनोदार्थञ्च
कन्दुकेन चिक्रीड । तपःकाले तु तयाधररञ्जनं कन्दुकक्रीडनञ्च
परित्यक्तमतः स्वकरमनयोरप्रयुज्य तेन पूजार्थं हरिणानां भक्षणार्थं
च कुशानां लवनञ्चकार, येन तस्या अङ्गुलयो व्रणयुक्ताः जाताः,
अपरञ्च सा तेन करेणानिशं रुद्राक्षमालया जजाप ॥ ११ ॥
महार्हशय्यापरिवर्तनच्युतैः
स्वकेशपुष्पैरपि या स्म दूयते ।
अशेत सा बाहुलतोपधायिनी
निषेदुषी स्थण्डिल एव केवलम् ॥ १२ ॥

( ३२ )
महार्हेति । (महार्हशय्यापरिवर्त्तनच्युतैः ) महान् अर्हो मूल्यं
यस्याः सा महार्हा श्रष्ठा या शय्या तस्यां परिवर्त्तनेन लुण्ठनेन
च्युतैर्भ्रष्टैः स्वकेशपुष्पै अपि या देवी दूयते स्म क्लिश्यति स्म ।
पुष्पाधिकसौकुमार्यात् इति भावः । सा देवी बाहुलतां उपधत्ते
उपधानीकरोति इति बाहुलतोपधायिनी सती केवल संस्तरण-
रहिते स्थण्डिले भूमौ एव अशेत शयितवती । तथा निषेदुषी
उपविष्टा च । 'कसुश्च' इति क्वसुः । 'उगितश्च' इति ङीप् ।
भूमावेव शयनादिव्यवहारो न जातु पर्यङ्केत्यर्थः ।
PROSE ORDER :—या महार्हशय्यापरिवर्त्तनच्युतैः स्वकेश-
पुष्पै. अपि दूयते स्म, सा बाहुलतोपधायिनी केवलं स्थण्डिले एव
अशेत निषेदुषी च ॥ १२ ॥
NOTES :—महार्हशय्यापरिवर्त्तनच्युतैः । शय्या—(√शीङ्+
क्यप्) शय्यते अत्र इति शय्या a bed. च्युतैः (√च्यु+क्त )
भ्रष्टैः dropped महान् अर्हो (मूल्यं ) यस्याः सा महार्हा ;
महार्हायां शय्यायां परिवर्तनेः च्युतानि (तत्पुरुषः) महार्हशय्या-
परिवर्त्तनच्युतानि, तैः which were dropped down in her
rollings on her costly bed स्वकेशपुष्पैः—स्वस्याः केशानां
पुष्पैः by the flowers of her hair, i e, the flowers used
for decorating the hair. दूयते स्म—क्लेशं प्राप experienced
pain. √दूङ् परितापे to suffer pain, to be sorry, is
conjugated as दूयते (लट्) दुदुवे (लिट्) दविष्यते (लृट्)
अदविष्ट (लुङ्) स्म is a particle which when used with
a present tense or present participle, gives them a
past sense. Cf. 'लट् स्मे' पा० ३ २ ११८ । बाहुलतोपधायिनी
—प्रशस्तो बाहुः बाहुलता, तां उपधत्ते इति बाहुलतोपधायिनी
(√धा+णिनिः+ङीप्) who uses her creeper-like arm as a

( ३३ )
pillow Here the suffix णिनिः is added by ‘व्रते’ पा०
३ २.८० and so it indicates the observance of a vow. The
word उपधानं (a pillow) is also derived from धा with
उप—(उप + √धा + ल्युट्) उपधीयते इति उपधानम् । केवले
—संस्तरणशून्ये uncovered ; bare स्थण्डिले—संस्कृतायां
भूमौ on an earth-platform as opposed to a bed ‘स्थण्डिलं
संस्कृता भूमिः’ हलायुधः । अशेत—शेते स्म slept Imperfect
of √शी to sleep निषेदुषी—(नि + √सद् + क्वसुः + ङीप्)
निषसाद sat In निषेदुषी which is a Perfect form लिट् is
replaced by क्वसु suffix by ‘भाषायां सद्वसश्रुवः’ पा० ३ ४ १०८
and then ङीप् is added to make it feminine by ‘उगितश्च’
पा० ४ १ ६ । It is well-known that an ascetic is enjoined
to sleep or sit on earth or on some other hard thing
such as a wooden cot The verse indicates a remarkable
change in the life of Parvati. For this Cf.
शेते या किल हंसतूलशयने निद्राति सा स्थण्डिले,
वस्ते या मृदुलं दुकूलमबला गृह्णाति सा वल्कलम् ।
या वा चन्दनपङ्कलेपशिशिरे धारागृहे वर्त्तते,
पञ्चानामुदितोष्मणां हुतभुजां सा मध्यमासेवते ॥
पार्वती परिणय ४–२।
CHANGE OF VOICE :—यया महार्हशय्यापरिवर्त्तनच्युतैः
स्वकेशपुष्पैरपि दूयते स्म तया बाहुलतोपधायिन्या केवले स्थण्डिले
एव अशय्यत निषेदे च ॥ १२ ॥
HINDI TRANSLATION :—जो अत्यधिक मूल्य वाली सेज
पर करवट लेने से गिरे हुए अपने बालों के फूलों से भी कष्ट पाती

( ३४ )
थी, वह अब अपनी लता के समान भुजा का तकिया लगाकर
नंगी भूमि पर ही सोती और बैठती थी ॥ १२ ॥
ENGLISH TRANSLATION —She, who would feel pain
even by the flowers dropped down from her hair by her
rollings on her costly bed, slept and sat on the bare
earth-platform, using her creeper-like arm as a
pillow 12.
PURPORT IN SANSKRIT :—सा गौरी पूर्वं तु महामूल्ये
शयने शेते स्म शयनकाले च लुण्ठनेन स्वकेशेभ्यः पतितैः कुसुमै-
रपि तस्याः शरीरं पीडामलभत । तस्या देहः पुष्पेभ्योऽपि सुकु-
मारतर आसीदित्यर्थः । परं व्रतानुष्ठानकाले सा स्वभुजे उपधा-
नीकृत्यास्तरणरहिते भूभागे सुष्वाप निषसाद च ॥ १२ ॥
पुनर्ग्रहीतुं नियमस्थया तया
द्वयेऽपि निक्षेप इवार्पितं द्वयम् ।
लतासु तन्वीषु विलासचेष्टितं
विलोलदृष्टं हरिणाङ्गनासु च ॥ १३ ॥
पुनरिति । नियमस्थया व्रतस्थया तया देव्या द्वयेऽपि द्वयं पुनः
ग्रहीतुं पुनरानेतुं निक्षेपः अर्पितं इव निक्षेपत्वेनार्पितं किमु ।
क्वचिद् द्वयीषु इति प्रामादिकः पाठः । कुत्र द्वये किं द्वयमर्पितमित्याह
—तन्वीषु लतासु विलास एव चेष्टितं विलासचेष्टितं हरिणाङ्गनासु
विलोलदृष्टं चञ्चलावलोकितं च । व्रतस्थायां तस्यां तयोरदर्शना-
ल्लतादिषु दर्शनाच्चार्पितमिवेत्युत्प्रेक्षा न तु वस्तुतोऽर्पणमस्तीति
भावः ॥ १३ ॥
PROSE ORDER :—नियमस्थया तया विलासचेष्टितं विलो-
लदृष्टं च इति द्वयं तन्वीषु लतासु हरिणाङ्गनासु च इति द्वये अपि
पुनः ग्रहीतुं निक्षेपः अर्पितं इव ॥ १३ ॥

( ३५ )
NOTES :—नियमस्था—( $\sqrt{स्था}+$कः ) नियमे तिष्ठतीति
नियमस्था, तया by her, who was observing a vow.
विलासचेष्टितं—विलासेन चेष्टितं or विलासरूपं चेष्टितं इति विला-
सचेष्टितं sportive movements ; coquetry. विलास may be
explained as—a form of feminine gesture considered as
indicative of amorous sentiments. Cf ‘यानस्थाना-
सनादीनां मुखनेत्रादिकर्मणाम् । विशेषस्तु विलासः स्यादिष्टसंदर्श-
नादिना ।’ साहित्यदर्पणम् । In idiomatic Hindi it is known
as नखरा or हावभाव । विलोलदृष्टं—विलोळं ( चञ्चल ) दृष्टं
( दृष्टिः ) विलोलदृष्टं ( कर्मधारयः ) unsteady glances Here
दृष्टं ( $\sqrt{दृश्}+$क्तः ) is a noun and not a Past Part. द्वयं—
द्वौ अवयवौ यस्य तत् द्वय ( द्वि+अयच् ) the two things ;
having two parts ; a pair अयच् is added by ‘द्वित्रिभ्यां
तयस्य अयज्वा’ पा० ५।२।४३ । The alternative form is
द्वितयं । Similarly we have त्रितयं or त्रयं ( having three
parts ) from त्रि । तन्वीषु—कृशासु slender. तन्वी is fem.
from तनु । हरिणाङ्गनासु—हरिणानां अङ्गनाः, तासु ( मृगीषु )
female deer. द्वये—with the two. It is Locative Singular.
निक्षेपः—न्यासः a deposit. अर्पितं—दत्तं was given ; was
kept. The poet imagines that Parvati who was
leading the life of ascetism could not use graceful
movements and unsteady glances, hence she had
deposited them with creepers and female deer
respectively, who used them freely.
CHANGE OF VOICE :—नियमस्था सा विलासचेष्टितं तन्वीषु

( ३६ )
लतासु विलोलदृष्टं च हरिणाङ्गनासु इति द्वयं द्वयेऽपि पुनः ग्रहीतुं
निक्षेपं इव अर्पितवती ॥ १३ ॥
HINDI TRANSLATION :—( तपस्या के ) नियम के पालन
करने वाली उसने ( अपने ) हावभाव और चञ्चल दृष्टि इन दोनों
को ( क्रम से ) पतली लताओं और हरिणियों दोनों के पास
फिर लेने के लिये धरोहर की तरह रख दिया ॥ १३ ॥
ENGLISH TRANSLATION :—By her, who was observing
a vow, had been kept as a deposit to be taken back,
the two things with the two, viz., her sportive gesture
with the slender creepers and her unsteady glances with
the female deer. 13.
PURPORT IN SANSKRIT :—तपश्चरन्त्या पार्वत्या स्त्रीजन-
सुलभो विलासश्चञ्चलादृष्टिश्च परित्यक्तौ, परं न तत्सर्वदैवापि तु
व्रतसमाप्तिपर्यन्तम् । कथं तर्हि सा तौ पुनः प्राप्तुं शक्नुयात् क्व च
तौ गताविति विषये कविरुत्प्रेक्षते—यत् सा विलासादिकं सूक्ष्मासु
वल्लीषु चपलां दृष्टिश्च मृगीषु निक्षेपरूपेणास्थापयत् ॥ १३ ॥
अतन्द्रिता सा स्वयमेव वृक्षकान्
घटस्तनप्रस्रवणैर्व्यवर्धयत् ।
गुहोऽपि येषां प्रथमाप्तजन्मनां
न पुत्रवात्सल्यमपाकरिष्यति ॥ १४ ॥
अतन्द्रितेति । सा देवी स्वयमेव अतन्द्रिता असंजाततन्द्रा-
सती । तारकादित्वादच्प्रत्ययः । वृक्षकान् स्वल्पवृक्षान् ‘अल्पे’
इत्यल्पार्थे कः प्रत्ययः । घटस्तनप्रस्रवणै घटावेव स्तनौ तयोः प्रस्र-
वणैः प्रस्रुतपयोभिः व्यवर्धयत् । गुहः कुमारोऽपि प्रथमाप्तजन्मनां
प्रथमलब्धजन्मनाम् । अग्रजातानामित्यर्थः । येषां वृक्षकाणां सम्बन्धि

( ३७ )
पुत्रवात्सल्यं सुतप्रेम न अपाकरिष्यति । उत्तरत्र कुमारोदयेऽपि न
तेषु पुत्रवात्सल्यं निवर्तिष्यत इत्यर्थः ॥ १४ ॥
PROSE ORDER:—अतन्द्रिता सा स्वयमेव वृक्षकान् घटस्तन-
प्रस्रवणैः व्यवर्धयत्, गुहोऽपि प्रथमाप्तजन्मनां येषां पुत्रवात्सल्यं न
अपाकरिष्यति ॥ १४ ॥
NOTES :—अतन्द्रिता—तन्द्रा सजाता अस्याः इति तन्द्रिता,
न तन्द्रिता अतन्द्रिता अनलसा without being slack In (तन्द्रा
—इतच् ) इतच् is added by ‘तदस्य संजातं तारकादिभ्य इतच्’
पा० ५.२ ३६ । वृक्षकान्—ह्रस्वो वृक्षः वृक्षकः, तान्, स्वल्पपादपान्,
little trees. The suffix कन् is added by ‘ह्रस्वे’ पा०
५.३.८६ । घटस्तनप्रस्रवणैः—घटौ एव स्तनौ, तयोः प्रस्रवणैः प्रसृतैः
पयोभिः with outpourings from breast-like jars प्रस्रवण
—( प्र + √स्रु + ल्युः ) प्रस्रवन्ती कर्त्तरि ल्युः—यु of ल्यु is
changed to अन । For a similar idea see ‘यो हेमकुम्भस्तन-
निःसृतानां स्कन्दस्य मातु पयसां रसज्ञः ’ रघु० २ ३६ व्यवर्धयत्
—( वि + √वृध् + लङ् ) अपोषयत् reared up गुहः Name
of a son of Shiva and Parvati, ( popularly regarded
as god of war, because he leads the hosts of Shiva
against the demon hosts ). He is also known as
Kumara, Skanda or Karttikeya. The name Guha may
be derived as गूहति देवसेनां इति or ‘स्कन्दत्वात्स्कन्दतां प्राप्तो
गुहावासाद्गुहोऽभवत् ’ i e , he is called Guha because he
was reared in a cave प्रथमाप्तजन्मनाम्—प्रथमं आप्तं (प्राप्तं)
जन्म यैस्ते तेषां who were born before ; being first-born.
Parvati being still unmarried Guha was not born as
yet and all her affection for her children was devoted