सामग्री पर जाएँ
सर्वकोश
कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Kumarasambhavam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा

DevanagariSanskritpublished268 पृष्ठ

पृष्ठ 51, कुल 268 में से

संदर्भ में पढ़ें
पृष्ठ 51

( ३२ )
महार्हेति । (महार्हशय्यापरिवर्त्तनच्युतैः ) महान् अर्हो मूल्यं
यस्याः सा महार्हा श्रष्ठा या शय्या तस्यां परिवर्त्तनेन लुण्ठनेन
च्युतैर्भ्रष्टैः स्वकेशपुष्पै अपि या देवी दूयते स्म क्लिश्यति स्म ।
पुष्पाधिकसौकुमार्यात् इति भावः । सा देवी बाहुलतां उपधत्ते
उपधानीकरोति इति बाहुलतोपधायिनी सती केवल संस्तरण-
रहिते स्थण्डिले भूमौ एव अशेत शयितवती । तथा निषेदुषी
उपविष्टा च । 'कसुश्च' इति क्वसुः । 'उगितश्च' इति ङीप् ।
भूमावेव शयनादिव्यवहारो न जातु पर्यङ्केत्यर्थः ।
PROSE ORDER :—या महार्हशय्यापरिवर्त्तनच्युतैः स्वकेश-
पुष्पै. अपि दूयते स्म, सा बाहुलतोपधायिनी केवलं स्थण्डिले एव
अशेत निषेदुषी च ॥ १२ ॥
NOTES :—महार्हशय्यापरिवर्त्तनच्युतैः । शय्या—(√शीङ्+
क्यप्) शय्यते अत्र इति शय्या a bed. च्युतैः (√च्यु+क्त )
भ्रष्टैः dropped महान् अर्हो (मूल्यं ) यस्याः सा महार्हा ;
महार्हायां शय्यायां परिवर्तनेः च्युतानि (तत्पुरुषः) महार्हशय्या-
परिवर्त्तनच्युतानि, तैः which were dropped down in her
rollings on her costly bed स्वकेशपुष्पैः—स्वस्याः केशानां
पुष्पैः by the flowers of her hair, i e, the flowers used
for decorating the hair. दूयते स्म—क्लेशं प्राप experienced
pain. √दूङ् परितापे to suffer pain, to be sorry, is
conjugated as दूयते (लट्) दुदुवे (लिट्) दविष्यते (लृट्)
अदविष्ट (लुङ्) स्म is a particle which when used with
a present tense or present participle, gives them a
past sense. Cf. 'लट् स्मे' पा० ३ २ ११८ । बाहुलतोपधायिनी
—प्रशस्तो बाहुः बाहुलता, तां उपधत्ते इति बाहुलतोपधायिनी
(√धा+णिनिः+ङीप्) who uses her creeper-like arm as a