कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
पृष्ठ 40, कुल 268 में से
संदर्भ में पढ़ेंbounding in peacocks, which afterwards came to be
known by her name among the people 7.
Purport in Sanskrit :—पार्वत्याः पिता स्वदुहितुर्मन-
स्तद्योग्येऽर्थे लग्नं ज्ञात्वा संतुष्ट आसीत्, अतस्तेन सा वनं
गन्तुमनुज्ञाता । साऽपि पितुरनुमतिं संप्राप्य मयूराद्यहिंस्रप्राणि-
समन्वितं शान्तमेकं हिमवतः शृङ्गं तपः कर्त्तुं प्रययौ, यच्च
शेखरं तपोऽवसाने तस्या नाम्नैव 'गौरीशिखरं' इति प्रसिद्धं
जातम् ॥ ७ ॥
विमुच्य सा हारमहार्यनिश्चया
विलोलयष्टि प्रविलुप्तचन्दनम् ।
बबन्ध बालारुणबभ्रु वल्कलं
पयोधरोत्सेधविशीर्णसंहति ॥ ८ ॥
विमुच्येति । अहार्यनिश्चया अनिवार्यनिश्चया सा गौरी विलो-
लयष्टिप्रविलुप्तचन्दनम् विलोलाभिः चलाभिः यष्टिभि प्रतिसरैः
प्रविलुप्तं प्रमृष्टं चन्दनं स्तनान्तरगतं येन त तथोक्त हारं मुक्तावलीं
विमुच्य विहाय बालारुणबभ्रु बालार्कपिङ्गल पयोधरोत्सेधविशीर्ण-
संहति पयोधरयोः स्तनयोः उत्सेधेन उच्छ्रायेण विशीर्णा विघटिता
संहति अवयवसंश्लेषो यस्य तत्तथोक्तं वल्कलं कण्ठलम्बि
स्तनोत्तरीयभूतं बबन्ध । धारयामासेत्यर्थः ।
Prose Order —अहार्यनिश्चया सा विलोलयष्टिप्रविलुप्त-
चन्दनं हारं विमुच्य बालारुणबभ्रु पयोधरोत्सेधविशीर्णसंहति
वल्कलं बबन्ध ॥ ८ ॥
Notes:—अहार्यनिश्चया—न हार्यः ( अत्याज्यः ) निश्चयो
यस्याः सा whose determination was unalterable, i e, of
firm resolution हार्य—( √हृ+ण्यत् ) which can be