सामग्री पर जाएँ
सर्वकोश
कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Kumarasambhavam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा

DevanagariSanskritpublished268 पृष्ठ

पृष्ठ 48, कुल 268 में से

संदर्भ में पढ़ें
पृष्ठ 48

( २१ )
Purport in Sanskrit :-पूर्वं तु पार्वती कटिप्रदेशे
क्षौमादिनिर्मितां कोमलां काञ्चीं दधार, अधुना तु व्रतनियमानुसारं
तया मुञ्जतृणनिर्मिता त्रिरावृत्ता कर्कशा काञ्ची धृता । इयं काञ्ची
पारुष्यात् क्षणे क्षणे तस्याः शरीरे रोमाञ्चमकरोत् , यतश्च सा
तद्धारणेऽनभ्यस्तासीत्तया तस्याः कटिप्रदेशः संघर्षणेन रक्ती-
कृतः ॥ १०॥
विसृष्टरागादधरानिवर्तितः
स्तनाङ्गरागारुणिताच्च कन्दुकात ।
कुशाङ्कुरादानपरिक्षताङ्गुलिः
कृतोऽक्षसूत्रप्रणयी तया करः ॥ ११ ॥
विसृष्टेति । तया देव्या विसृष्टरागात् त्यक्तलाक्षारसरञ्जनात्
अधरात् अधरोष्ठात् निवर्तितः । निसृष्टरागादिति पाठे नितरां
त्यक्तलाक्षारागात् । रागत्यागेन निष्प्रयोजनत्वादिति भावः । तथा
( स्तनाङ्गरागारुणितात् ) स्तनाङ्गरागेण अरुणितात् अरुणीकृतात्
पतनसमये तस्य स्तनयोरुपरोधात् इति भावः । कन्दुकात च
निवर्तितः । ( कुशाङ्कुरादानपरिक्षताङ्गुलि ) कुशाङ्कुराणामादानेन
लवनेन क्षताः व्रणिताः अङ्गुलयो यस्य स तथोक्त करः पाणिः
अक्षसूत्रप्रणयी अक्षमालासहचरः कृत ।
Prose Order :-तया विसृष्टरागात् अधरात् स्तनाङ्ग-
रागारुणितात् कन्दुकात च निवर्तितः करः कुशाङ्कुरादानपरि-
क्षताङ्गुलि अक्षसूत्र प्रणयी कृतः ॥ ११ ॥
Notes —विसृष्टरागात । विसृष्टः-( वि+ √सृज्+क्तः )
त्यक्तः given up ; left ; removed. √ सृज् to create, changes
its meaning when preceded by वि । रागः-( √रञ्ज्+
कु० सं०-४