सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Kumarasambhavam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा

DevanagariSanskritpublished268 पृष्ठ

( २०१ )
अधरोष्ठोऽकम्पत नेत्रे च प्रान्तभागयोः रक्ते जाते तथा च सा
तन्मुखाद् दृष्टिमाकृष्य भ्रुव कुटिलां कृत्वावज्ञया तिर्यगवालो-
कन् ॥ ७४ ॥
उवाच चैनं परमार्थतो हरं
न वेत्सि नूनं यत एवमात्थ माम् ।
अलोकसामान्यमचिन्त्यहेतुकं
द्विषन्ति मन्दाश्चरितं महात्मनाम् ॥ ७५ ॥
उवाचेति । अथ एनं ब्रह्मचारिणं उवाच च । किमिति । पर-
मार्थतः तत्त्वतः हरं न वेत्सि न जानासि नूनम् । कुतः । यतः मां
एव उक्तया रीत्या आत्थ ब्रवीषि । 'ब्रुवः पञ्चानामादितः '—इति
रूपसिद्धि । अज्ञानादेवायं शिवद्वेषस्तवेत्याशयेनाह—मन्दा मूढाः ।
मूढाल्पपटुनिर्भाग्या मन्दाः ' इत्यमरः । लोकसामान्यमितरजन-
साधारणं न भवति इति अलोकसामान्यं अचिन्त्यहेतुकं दुर्बोध-
कारणकं महात्मनां चरित द्विषन्ति हेत्वपरिज्ञानाद्दूषयन्ति । विद्वां
सस्तु कोऽप्यत्र हेतुरस्तीति बहु मन्यन्त इत्यर्थः ॥ ७५ ॥
PROSE ORDER :—( गौरी ) एन उवाच च, नून परमार्थतः
हरं न वेत्सि, यतः मां एवं आत्थ, मन्दाः अलोकसामान्यं अचिन्त्य-
हेतुकं महात्मनां चरितं द्विषन्ति ॥ ७५ ॥
NOTES :—एनं—एतं ब्रह्मचारिणं to this Brahmacharin.
एनं is the optional form of इदम् and एतत् in the Accu-
sative sing to be used when there is अन्वादेश i e, their
proper forms have already been used in a previous
clause. ' द्वितीयाटौस्वेनः ' पा० २.४.३४ । नूनं—निश्चयेन
certainly. परमार्थतः—परमश्चासौ अर्थश्च परमार्थः ( सत्यं ),

( २०२ )
तस्मात् परमार्थतः ( परमार्थ + तसिल् ) in reality , truly ;
correctly परमार्थ means the highest sense or truth.
तसिल् is added in the sense of the Ablative by
‘पञ्चम्यास्तसिल्’ पा० ५ ३ ७ । न वेत्सि—न जानासि thou
knowest not This is a refutation of the ascetic’s
assertion ‘विदितो महेश्वरः’ in verse 65 आत्थ—ब्रवीषि
thou sayest Present tense, second pers sing of √ ब्र
‘to speak’ ब्रू is replaced by आह and सिप् the
termination by थल् । See notes on आह in verse 56
Now, Parvatı supports this charge by means of a
general statement which means that the dull-minded
find fault with the life of the great, which has some-
thing unusual about it and the purpose of which can
not be easily understood मन्दाः—मूढाः idiots , dull-witted
‘मूढाल्पापटुनिर्भाग्या मन्दा’ इत्यमरः । अलोकसामान्यम्—न
लोकानां लोकेषु वा सामान्यं ( साधारण ) इति अलोकसामान्यम्
or, न विद्यते लोके सामान्यं यस्य तत् which is not in com-
mon with that of other people, i e which has some-
thing extraordinary about it अचिन्त्यहेतुकम्—( न + √
चिन्त् + यत् = अचिन्त्यं ) चिन्तयितुं योग्यं चिन्त्यं ; न चिन्त्य
अचिन्त्यं ( विचारयितुमशक्यम् ) which can not be grasped
अचिन्त्यः हेतुः ( कारणं ) यस्य तत् अचिन्त्यहेतुकम् the motive
of which can not be understood Parvati means to say
that it was not easy for the Brahmacharin to know
as to why Shiva lived in nudity and did other similar
things कप् is added to हेतु because it is at the end

( २०३ )
of a Bahuvrīhi compound, by ‘ शेषाद् विभाषा ’ पा०
५ ४ १५४ । महात्मनाम्—महान् आत्मा येषां ते महात्मानः, तेषाम्
of the magnanimous , of the great-minded चरितं—
चरित्रं the life द्विषन्ति—द्वेषेण पश्यन्ति hate , look at it .
with jealousy For the idea Cf, ‘ दाह्यमाना सुतीव्रेण
नीचाः परशयोऽग्निना । अशक्तास्तत्पदं गन्तुं ततो निन्दां प्रकुर्वते ।
The figure of speech used in this verse is अर्थान्त-
रन्यास in which a statement is corroborated by means
of a general statement 75.
CHANGE OF VOICE :—( गौर्या ) अयं ऊचे च—नूनं
( त्वया ) परमार्थतः हरो न विद्यते, यतः (त्वया ) अहं एवं
उच्ये । मन्दैः अलोकसामान्यं अचिन्त्यहेतुकं महात्मनां चरितं
द्विष्यते ॥ ७५ ॥
HINDI TRANSLATION :—( पार्वती ) उससे बोली—सच-
मुच तुम वास्तविक रूप से महादेव को नहीं जानते, क्योंकि मुझ
से इस प्रकार कहते हो । मूर्ख लोग अलौकिकतापूर्ण एवं जिसका
उद्देश्य आसानी से नहीं समझा जा सकता ऐसे महात्माओं के
चरित्र से शत्रुता करते हैं ॥ ७५ ॥
ENGLISH TRANSLATION —And she said to him—
‘ Indeed thou dost not know Shiva correctly, since
thou talkest thus to me The dull-witted bear enmity
against the course of life of the great, which is not in
common with that of other people and the purpose of
which is difficult to be understood ’ 75
PURPORT IN SANSKRIT :—स्वकोपमवज्ञाञ्च प्रदर्श्य पार्वती
ब्रह्मचारिणमाह—‘ यतस्त्वं शिवस्य याथार्थ्यं न जानासि तस्मादेवं

कथयसि। इदञ्चसुविज्ञातमेव संसारे यत् त्वमिवान्येऽपि मूढ-
पुरुषा अनन्यसाधारणमविज्ञेयकारणञ्च महापुरुषाणां चरित्रं द्वेष-
भावेनाधिक्षिपन्ति ॥ ७५ ॥
विपत्प्रतीकारपरेण मङ्गलं
निषेव्यते भूतिसमुत्सुकेन वा ।
जगच्छरण्यस्य निराशिषः सतः
किमेभिराशोपहतात्मवृत्तिभिः ॥ ७६ ॥
सम्प्रति। अमङ्गलाभ्यासरतिं (५।६५) इत्याद्युक्तदूषणजातं
विपदित्यादिभिः षड्भिः श्लोकैः परिहर्तुमारभते--विपदिति ।
विपत्प्रतीकारपरेण । अनर्थपरिहारार्थिनेत्यर्थ । ' उपसर्गस्य
घञ्यमनुष्ये बहुलम्' इति दीर्घः । भूतिसमुत्सुकेन ऐश्वर्यकामेन
वा मङ्गलं गन्धमाल्यादिकं निषेव्यते । शरणे रक्षणे साधुः शरण्यः ।
' तत्र साधुः' इति यत्प्रत्ययः । ' शरणं गृहरक्षित्रोः ' इत्यमरः ।
जगत शरण्यस्तस्य जगच्छरण्यस्य निराशिषः निरभिलाषस्य
सतः शिवस्य । 'आशीरुरगदंष्ट्रायां विप्रवाक्याभिलाषयोः' इति
शाश्वतः। आशोपहतात्मवृत्तिभि आशया तृष्णयोपहता दूषितात्म-
वृत्तिरन्तःकरणवृत्तिर्येषां ते एभिः मङ्गलैः किम् । वृथेत्यर्थः ।
पूर्वं मङ्गलमित्येकवचनस्य जात्यभिप्रायत्वादेभिरिति बहुवचनेन
परामर्शो न विरुध्यते । इष्टावाप्त्यनिष्टपरिहारार्थिनो हि मङ्गला-
चारनिबन्धः । तदुभयासंस्पृष्टस्य तु यथाकथंचिदास्ताम् । को
दोष इत्यर्थः । एतेन ' अमङ्गलाभ्यासरतिम् ' ( ५।६५ ) इत्युक्तं
प्रत्युक्तम् ॥ ७६ ॥
PROSE ORDER :—विपत्प्रतीकारपरेण वा भूतिसमुत्सुकेन
मङ्गलं निषेव्यते, जगच्छरण्यस्य निराशिषः सतः (शिवस्य)
आशोपहतात्मवृत्तिभिः एभिः किम् ? ॥ ७६ ॥

( २०५ )
Notes :—In this and the following five verses
Pārvatī refutes the charges levelled against Shiva
by the ascetic. In this shloka is refuted the criticism
contained in ‘ अमङ्गलाभ्याससक्तं ’ etc. verse No 65
विपत्प्रतीकारपरेण । प्रतीकारः—( प्रति + √ कृ + घञ् ) परिहारः
warding off इ of प्रति is lengthened by ‘ उपसर्गस्य
घञ्यमनुष्ये बहुलम् ’ पा० ६।३।१२२ विपदां प्रतीकारः परः
( इष्टः ) यस्य सः विपत्प्रतीकारपर , तेन who is anxious to
ward off calamities. भूतिसमुत्सुकेन—भूतौ ( ऐश्वर्ये )
समुत्सुक भूतिसमुत्सुकः, तेन भूतिसमुत्सुकेन eager to obtain
prosperity ‘ भूतिर्भस्मनि सम्पदि ’ इत्यमरः । मङ्गलं—
auspicious things निषेव्यते—( नि + √ सेव् + य + ते ) are
resorted to , are attended to स of √ सेव् is changed
to ष् by ‘ परिनिविभ्यः सेवसितमयसिवुमहसुट्स्तुस्वञ् आम् ’
पा० ८।३।६६। जगच्छरण्यस्य—जगत् + शरण्यस्य । शरण्यः—
(शरण + यत् ) शरणे साधुः (समर्थः) शरण्यः who is capable
of providing shelter यत् is added by ‘ तत्र साधुः ’
पा० ४.४.६८ जगतां शरण्यस्य जगच्छरण्यस्य who is the
protector of the worlds निराशिष —निर्गता आशीः
( इच्छा ) यस्मात् स निराशीः, तस्य निराशिषः who has no
desire आशीः means ‘ desire ’ ‘ आशीः उरगदंष्ट्रायां विप्र-
वाक्याभिलाषयोः ’ इति शाश्वतः । Mark the contrast
between विपत्प्रतीकारपर and जगच्छरण्य and भूतिसमुत्सुक
and निराशीः Pārvatī means to say that it is not only
that Shiva is not विपत्प्रतीकारपर and भूतिसमुत्सुक but
he is जगच्छरण्य and निराशीः, and when he is as such
कु० सं०—१५

( २०६ )
it matters little if he is अमङ्गलाभ्यासरति । सतः—being.
Gen. sing of सत्, pres part of √अस् to be आशोपह-
तात्मवृत्तिभिः—आशया ( तृष्णया ) उपहता आत्मन वृत्तिः यैः
तानि आशोपहतात्मवृत्तीनि, तैः आशोपहतात्मवृत्तिभिः which
corrupt or vitiate the functions of the soul by
producing desire. It qualifies एभिः which stands for
मङ्गलै. । When Shiva has no desire whatsoever he need
not care for auspicious things 76
CHANGE OF VOICE ·—विपत्प्रतीकारपरः वा भूतिसमुत्सुकः
( जन ) मङ्गल निषेवते, जगच्छुरण्यस्य निराशिषः सत (शिवस्य)
आशोपहतात्मवृत्तिभिः एभिः किम् ? ॥ ७६ ॥
HINDI TRANSLATION :—आपत्ति को हटाने में लगा
हुआ अथवा ऐश्वर्य की कामना वाला व्यक्ति शुभ वस्तुओं की
खोज में रहता है, संसार के रक्षक एवं निरीह ( इच्छारहित )
के लिये तृष्णा के द्वारा आत्मा के चलन को बिगाड़ने वाली इन
शुभ वस्तुओं से क्या प्रयोजन ? ॥ ७६ ॥
ENGLISH TRANSLATION —Auspicious things are
resorted to by one, who is anxious to ward off calamities
or eager to attain prosperity What has he, who is the
protector of the world and is free from desires, to do
with these which spoil the functions of the soul by
( producing ) desire 76
PURPORT IN SANSKRIT .—‘ शिवोऽमङ्गलाभ्यासरतिः ’
इति ब्रह्मचारिणः कथितं पार्वती प्रतिवदति—यत् त एव जना
मङ्गलकारीणि वस्तूनि सेवन्ते ये विपत्त्याभिभूता भवन्त्यथ वा
सम्पत्तिप्राप्त्यर्थं समुत्सुका भवन्ति । शिवस्तु सर्वेषां रक्षकस्स्वयं

( २०७ )
न कदाचिदपि विपदाभिभूयते, स आप्तकामश्च तस्मान्न स किमपि
वस्तु कामयते । अतस्तस्यैभिरन्तःकरणतृष्णावर्धकैर्मङ्गलै किं
प्रयोजनम् ? ॥ ७६ ॥
अकिंचनः सन्प्रभवः स संपदां
त्रिलोकनाथः पितृसद्मगोचरः ।
स भीमरूपः शिव इत्युदीर्यते
न सन्ति याथार्थ्यविदः पिनाकिनः ॥ ७७ ॥
अकिंचन इति । स हरः । न विद्यते किंचन द्रव्यं यस्य स
अकिंचनः दरिद्रः सन् संपदां प्रभवत्यस्मादिति प्रभवः कारणम् ।
पितृसद्मगोचरः श्मशानाश्रयः सन् त्रिलोकनाथ त्रयाणां लोकानां
नाथः । ' तद्धितार्थ '—इत्यादिनोत्तरपदसमासः । स देवो भीमरूपः
भयकराकार सन् शिव सौम्यरूप इति उदीर्यते उच्यते । अतः
पिनाकिन हरस्य याथार्थ्यविद यथाभूतो अर्थो यथार्थस्तस्य भावो
याथार्थ्य तत्त्वं तस्य विदः न सन्ति । लोकोत्तरमहिम्ना निर्लेपस्य
यथाकथंचिदवस्थान न दोषायेति भाव । एतेन ' अवस्तुनिर्बन्ध-
परे ' ( ५।६६ ) इति परिहृतं वेदितव्यम् ॥ ७७ ॥
PROSE ORDER —सः अकिञ्चन सन् सम्पदां प्रभव ,
पितृसद्मगोचरः ( सन् ) त्रिलोकनाथः, स भीमरूपः शिव इति
उदीर्यते, पिनाकिनः याथार्थ्यविद् न सन्ति ॥ ७७ ॥
NOTES :—अकिञ्चनः—न विद्यते किंचन ( द्रव्यं ) यस्य सः
अकिंचन. who possesses nothing i e, is poor. It is a
Tatpurusha compound and not a Bahuvrihi, formed
irregularly under the class मयूरव्यंसकादि by मयूरव्यं-
सकादयश्च ' पा० २ । ७२. सम्पदां—सम्पत्तीनां of riches.

( २०८ )
प्रभवः—( प्र + √भू + अप् ) प्रभवन्त्यस्मादिति प्रभवः ( उत्पत्ति-
स्थानम् ) source ; producer पितृसद्मगोचरः—पितॄणां
( भूतानां ) सद्म ( स्थान ) गोचर ( आश्रयः ) यस्य स पितृ-
सद्मगोचरः who lives in the abode of the dead ie, in
the cremation-ground Cf ' वासः पितॄणां वने ' । सद्मन्
—गृहं an abode ' गृह गेहोदवसितं वेश्म सद्म निकेतनम्,
इत्यमरः । Decline सद्मन् as सद्म, सद्मनी, सद्मानि etc
गोचरः—dwelling-place Primarily it means ' a pasture
ground for cattle ' त्रिलोकनाथ —त्र्यवयवो लोकस्त्रिलोकः,
(मध्यमपदलोपिसमासः ) तस्य नाथः Lord of the three
regions. Or, according to Mallinátha त्रयाणां लोकानां
नाथ त्रिलोकनाथः, but this is not without doubt See
notes on त्रिलोकसौन्दर्यम् in verse 41 भीमरूप —बिभेति
अस्मादिति भीमम्, भीमं रूपं यस्य सः भीमरूपः who is of
terrible form शिवः—the auspicious one ; benign.
उदीर्यते—( उद् + √ईर् + य + ते ) कथ्यते is said √ईर् to
shake or to go, when preceded by उत् means 'to say'.
पिनाकिनः—शिवस्य of the Pináka-holder See notes on
this word in verse 56 याथार्थ्यविदः । याथार्थ्यम्—यथा-
भूतोऽर्थो यथार्थ ( प्रादिसमासः ) . यथार्थस्य भावः याथार्थ्यं
( यथार्थ + ष्यञ् ) तत्त्व reality याथार्थ्यं विदन्ति ( जानन्ति )
इति याथार्थ्यविदः ( √विद् + क्विप् ) who know the reality.
Párvati says that no one can form an accurate
idea of Shiva, who is possessed of contradictory quali-
ties, such as, being poor he is the source of all wealth,
though living in the cemetery-ground he is the lord

( २०१ )
of all the three worlds and though of terrible form
he is auspicious. When it is so the remarks about
Shiva by the ascetic do not hold good. This verse
is a reply to verses 66, 67 and 68. 77.
CHANGE OF VOICE :—तेन अकिंचनेन सता संपदां प्रभवेण
( भूयते ), पितृवनगोचरेण ( सता ) त्रिलोकनाथेन ( भूयते ),
तं भीमरूपं ( सन्तं ) ( जनाः ) शिव इति उदीरयन्ति , पिनाकिनः
याथार्थ्यविद्भि न भूयते ॥ ७७ ॥
HINDI TRANSLATION —वह निर्धन होते हुए भी
सम्पत्तियों का उत्पत्ति स्थान है, मृतकों की भूमि में रहता हुआ
भी तीनों लोकों का स्वामी है, वह भयङ्कर आकार वाला भी
लोगों में कल्याणकारी कहा जाता है, शिव की वास्तविकता
को जानने वाले ( पुरुष ) नहीं हैं ॥ ७७ ॥
ENGLISH TRANSLATION —Though poor, he is the
source of wealth, living in the cemetery ground, he
is the lord of the three worlds, being of terrible form,
he is called auspicious. There is none who knows the
reality about the Pinaka-holder (ie, Shiva) 77
PURPORT IN SANSKRIT :—यद्यपि शिवो भूषणवस्त्रादिभिः
रहितः स्वयं निर्धनः परं स सर्वप्रकारकाणां धनानामुत्पादकः,
यद्यपि स गृहहीन श्मशानवासी तथापि स त्रयाणामपि लोकानां
प्रभुः, एवमेव च यद्यपि सर्पादिभिरावृतो भयानकरूपः परं स
शिवः ( कल्याणकारी ) कथ्यते । एतेन ज्ञायते यत्संसारे
शिवस्य याथार्थ्येन ज्ञातारो न सन्ति । तच्च कथनम्प्ययथात-
थम् ॥ ७७ ॥

( २१० )
विभूषणोद्भासि पिनद्धभोगि वा
गजाजिनालम्बि दुकूलधारि वा ।
कपालि वा स्यादथ वेन्दुशेखरं
न विश्वमूर्तेरवधार्यते वपुः ॥ ७८ ॥
देवस्य लौकिकं अलौकिकं च प्रमाधनं नास्तीत्याशयेनाह—
विभूषणेति । विश्वं मूर्तिर्यस्येति विश्वमूर्तेः अष्टमूर्तेः शिवस्य वपुः
शरीरं भूषणैरुद्भासत इति विभूषणोद्भासि स्यात् । पिनद्धभोगि
आमुक्तभुजङ्गमं वा स्यात् । पिनद्धेति नह्यतेरपिपूर्वात्कर्मणि क्तः ।
‘वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः ।’ इत्यकारलोपः । गजाजि-
नालम्बि स्यात् । अथ वा दुकूलधारि स्यात् । कपालमस्यास्तीति
कपालि ब्रह्मशिरःकपालशेखरं वा स्यात् ‘अथ इन्दुशेखरं वा
स्यात् । न अवधार्यते न निर्धार्यते । सर्वं सम्भवतीत्यर्थः ।
एतेन ‘त्वमेव तावत्’ (५।६७) श्लोकोक्तं प्रत्युक्तमिति
ज्ञेयम् ॥ ७८ ॥
PROSE ORDER :—विश्वमूर्तेः वपुः न अवधार्यते, विभू-
षणोद्भासि वा पिनद्धभोगि, गजाजिनालम्बि वा दुकूलधारि,
कपालि वा अथवा इन्दुशेखरं स्यात् ॥ ७८ ॥
NOTES :—विश्वमूर्तेः—विश्वं मूर्ति (स्वरूपं) यस्य स विश्व-
मूर्ति तस्य विश्वमूर्ते of him whose form is the universe
i.e., of Shiva न अवधार्यते—न निश्चीयते is not known
definitely, √धृ to hold when preceded by अव means ‘to
determine accurately’ विभूषणोद्भासि । उद्भासि—( उत्+
√भास्+णिनिः) उद्भासते इति उद्भासि (शोभि) shining
विभूषणै उद्भासते इति विभूषणोद्भासि resplendent with orna-
ments. पिनद्धभोगि । पिनद्ध—(अपि+√नह् to bind+क्त )

( २११ )
बद्धः tied. अ of अपि is optionally dropped by ‘वष्टि
भागुरिरल्लोपमवाप्योरुपसर्गयोः ’, so also अपिनद्धः। भोगिन्—
(भोग+इनिः) भोगः (फणः) अस्यास्तीति भोगिन् posses-
sing hood i.e., a serpent ‘उरगः पन्नगो भोगी जिह्मगः
पवनाशनः’ इत्यमरः। पिनद्धाः भोगिनः यस्मिन् तत् पिनद्धभोगि
engirdled or wrapped by serpents. गजाजिनालम्बि—
गजस्य अजिनं (चर्म) आलम्बते इति गजाजिनालम्बि (आ+
√लम्ब्+णिनिः) covered with elephant's hide. अजिनं
—skin ‘अजिनं कृत्तिः चर्म’ इत्यमरः। दुकूलधारि—दुकूलं
(क्षौमं) धारयति इति दुकूलधारि (√धृ+णिनिः) putting
on silken garments कपालि—(कपाल+इनि) कपालं
(शिरोऽस्थि) यस्मिन् अस्तीति कपालि having a skull (in
the crest) According to the mythological books
Shiva holds in his crest a skull of Brahman's head Cf.
‘जगत्सिसृक्षासमयेषु वेधसां प्रणामलोलानि शिरांसि पादयोः।
जगद्विरामेषु कपालशेषतां गतानि तिष्ठन्ति जटासु धूर्जटेः।
According to another legend ‘Shiva once got very
angry with Brahman on hearing the latter's proud
declaration that he (Shiva) had sprung from his fore-
head, etc, and created in anger the fierce Kálabhair-
ava, who severed one of the heads of Brahman with
his nails. Shiva, therefore, wore, as Kálabhairava,
the skull of Brahman's head इन्दुशेखरं—इन्दुः शेखरे
(शेखरे वा) यस्य तत् having moon on its crest.
विभूषणे द्वासि etc. are Adjectives of वपुः and so in
neuter gender nom. singular.

( २१२ )
Pārvatī means to say that Shiva's form is a
puzzle for the people, which they can never solve.
Therefore to say that his form is such and such is
not right. This is a reply to verses 66, 67 and
71. 78.
CHANGE OF VOICE :—विश्वमूर्ते वपुः ( जना ) न अव-
धारयन्ति, ( तेन ) विभूषणोद्भासिना वा पिनद्धभोगिना, गजाजि-
नालम्बिना वा दुकूलधारिणा, कपालिना वा अथवा इन्दुलेखेणा
भूयते ॥ ७८ ॥
HINDI TRANSLATION :—जगत्स्वरूप ( शिव ) का शरीर
निश्चय तोर पर ज्ञात नहीं है; वह आभूषणों से चमकता हुआ
है अथवा सापों से लपेटा हुआ, हाथी के चर्म से ढका हुआ है
अथवा रेशमी वस्त्र से, सिर में कपाल धारण किये हुए है या
चन्द्रमा ( की कला ) ॥ ७८ ॥
ENGLISH TRANSLATION —The body of him whose form
is the Universe can not be determined, it may be
resplendent with ornaments or wrapped with serpents,
it may be covered with elephant-hide or silken gar-
ments, or it may have a skull or the moon on its
crest 78
PURPORT IN SANSKRIT :—जगत्स्वरूपस्य शिवस्य रूपं
प्रकारतः परिमाणतश्च।विज्ञेयमेव । न तद्विषये किञ्चिदपि परमार्थत.
कथयितुं शक्यते यतः शिवो देहशोभार्थमाभूषणानि धारयन्
सर्पानपि धत्ते ; क्षौमवस्त्रावृतो हस्तिचर्मापि धारयति तथा च
मृतमुण्डयुक्तश्चन्द्रकलाभूषितोऽप्यस्ति । एव विरोधात्मकस्य तदी-
यस्वरूपस्य याथार्थ्यं ज्ञातु न कोऽपि पारयति ॥ ७८ ॥

( २१३ )
तदङ्गसंसर्गमवाप्य कल्पते
ध्रुवं चिताभस्मरजो विशुद्धये ।
तथा हि नृत्याभिनयक्रियाच्युतं
विलिप्यते मौलिभिरम्बर्गौकसाम् ॥ ७९ ॥
' अयक्तरूप किमतः परं वद् ' इति ( ५।६९ ) श्लोकोक्तं प्रत्याह
—तदङ्गेति । तदङ्गसंसर्गं तस्य शिवस्याङ्गं तस्य संसर्ग अवाप्य
आसाद्य चिताभस्मरजः चिताभस्मेव रजो विशुद्धये कल्पते । अलं
पर्याप्तोनीत्यर्थः । अलमर्थयोगात् ' नमः स्वस्तिस्वाहा—' इत्या-
दिना चतुर्थी । ध्रुवं शोधकत्वं प्रमाणसिद्धमित्यर्थः । प्रमाणमेवाह—
तथा हि । प्रसिद्धमेवेत्यर्थः । नृत्याभिनयक्रियाच्युतं नृत्ये ताण्डवे
योऽभिनयो ऽर्थव्यञ्जकचेष्टाविशेषः स एव क्रिया तया निमित्तेन च्युतं
पतितम् । चिताभस्मरजः इति शेषः । अम्बर्गौकसां देवानां
मौलिभिः विलिप्यते ध्रियते । अशुद्धं चेत्कथमिन्द्रादिभिर्ध्रियेतेत्यर्था-
पत्तिरनुमानं वा प्रमाणमित्यर्थः ॥ ७९ ॥
PROSE ORDER :—चिताभस्मरज अपि तदङ्गसंसर्गं अवाप्य
ध्रुवं शुद्धये कल्पते, तथा हि नृत्याभिनयक्रियाच्युतं ( तत् ) अम्ब-
रौकसां मौलिभिः विलिप्यते ॥ ७९ ॥
NOTES :—चिताभस्मरजः—चितायाः भस्म एव रजः ( अनु-
लेपनचूर्णं ) चिताभस्मरज the powder in the form of the
ashes of funeral pyre Or, चितायाः भस्मना रज ( चूर्णं )
चिताभस्मरज the particles of the ashes of the funeral
pyre ( with which Shiva besmears his body ) तदङ्ग-
संसर्ग—तस्य ( शिवस्य ) अङ्गस्य ( देहस्य ) संसर्ग ( संपर्क )
तदङ्गसंसर्ग contact with his body. अवाप्य—प्राप्य having

५. सर्ग १२-१७ (कार्तिकेय सेनापतित्व व तारकासुर वध)

( २१४ )
obtained ध्रुवं—निश्चयेन indeed , surely. शुद्धये—पवित्रता-
करणाय for purification ; sanctifying Dative is used by
the rule ‘क्लृपि संपद्यमाने च’ which means ‘a noun
expressive of the purpose for which anything is done,
or the result to which anything leads is put in the
Dative case’ नृत्याभिनयक्रियाच्युतम् । अभिनय —हृद्गतभावा-
भिव्यञ्जकशरीरचेष्टा: movements of the body indicative of
internal feelings , gesticulations नृत्ये ( ताण्डवे ) अभिनयः
एव क्रिया नृत्याभिनयक्रिया, तया च्युतम् नृत्याभिनयक्रियाच्युतम् ।
dropped down by the movements of the body while
dancing Adj of तत् understood Shiva’s dance is
known as ताण्डव, which is a very vehement dance
अम्बरौकसाम्—अम्बरं ( व्योम ) ओकः ( गृहं ) येषां ते अम्बरौ-
कसः तेषां whose abode is in the heaven, i e, gods
( then to say nothing of human beings ). ओकः—
गृह ‘ओकः सद्मनि चाश्रये’ इत्यमर । मौलिभि —शिरोभि on
heads or foreheads. विलिप्यते—is rubbed , is applied
Pārvati says that Shiva’s body is so much sanc-
tifying that even the ashes of the funeral pyre are
made purifying and fit for the use of gods by its
contact This is a reply to ‘ पदं चिताभस्मरजः करिष्यति ’
in verse 69 79
CHANGE OF VOICE:—चिताभस्मरजसा अपि तदङ्गसंसर्गं
अवाप्य ध्रुवं शुद्धये कल्प्यते, तथा हि नृत्याभिनयक्रियाच्युत (तत्)
अम्बरौकसां मौलयः विलिम्पन्ति ॥ ७६ ॥
HINDI TRANSLATION :—चिता की राख भी उस (शिव)

( २१५ )
के शरीर से छूकर वास्तव में शुद्धि की करने वाली हो जाती है,
इसीलिये ( शिव के ) नाचने से गिरी हुई ( वह धूल ) देवताओं
के शिरों से लगायी जाती है ॥ ७९ ॥
ENGLISH TRANSLATION :-Certainly the particles of
ashes of the funeral pyre become sanctifying by coming
in contact with his body , and so they are rubbed on
the heads of the dwellers of heaven ( i e. gods ) when
dropped down by the movements of the body during
the dance 79
PURPORT IN SANSKRIT :-शिवस्य देहस्तु तथा पाव-
नोऽस्ति यत्तत्संपर्केण चिताभस्मापि परेषां शुद्धिकारकं भवति ।
अनेनैव कारणेन नृत्यकाले तस्य देहाच्छ्युतान् रजःकणान् उत्थाप्य
देवाः स्वशिर सु लिम्पन्ति । यद्धि देवानामपि शुद्धिकारकं
तत्कियत्पावन भवेदिति कथनं व्यर्थमेव ॥ ७९ ॥
असंपदस्तस्य वृषेण गच्छतः
प्रभिन्नदिग्वारणवाहनो वृषा ।
करोति पादावुपगम्य मौलिना
विनिद्रमन्दाररजोरुणाङ्गुली ॥ ८० ॥
यदुक्तं 'दिगम्बरत्वेन निवेदितं वसु' ( ५।७२ ) 'इयं च
तेऽन्या पुरतो विडम्बना' ( ५।७२) इत्यादि च तत्रोत्तरमाह—असंपद्
इति । प्रभिन्नदिग्वारणवाहनः प्रभिन्नो मदस्रावी दिग्वारणो दिग्गजो
वाहन यस्य सः । ऐरावतेनोढ इत्यर्थः । वृषा देवेन्द्रः असंपदः
दरिद्रस्य वृषेण गच्छत वृषभारूढस्य तस्य ईश्वरस्य पादौ मौलिना
मुकुटेन उपगम्य प्रणम्येत्यर्थः। विनिद्रमन्दाररजोरुणाङ्गुली विनिद्राणां

( २१६ )
विकसितानां मन्दाराणां कल्पतरुकुसुमानां रजोभि परागैररुणा
अङ्गुष्ठयो ययोस्तौ यथोक्तौ करोति । दिग्गजरोहिणामिन्द्रादीनामपि
वन्द्यस्येन्दुमौलेः किं सपद् वृषारोहणे वा को दोष इत्यर्थ ॥ ८० ॥
PROSE ORDER —प्रभिन्नदिग्वारणवाहन वृषा उपगम्य
असम्पद् वृषेण गच्छन् तस्य पादौ मौलिना विनिद्रमन्दाररजो-
रुणाङ्गुष्ठौ करोति ॥ ८० ॥
NOTES .—प्रभिन्नदिग्वारणवाहनः । प्रभिन्न —( प्र + √भिद्

  • क्त ) मदयुक्त shedding ichor ( मद् ) । Literally it
    means whose temples are split open (for shedding
    ichor) ‘प्रभिन्नो गर्जितो मत्त’ इत्यमरः । दिग्वारण —दिश
    (प्राचीदिशः) वारण (हस्ती) दिग्वारण the elephant
    of the eastern quarter (which belongs to Indra and
    is named ऐरावत) He is one of those elephants
    which, according to mythology, stand in the four or
    eight quarters of the sky and support the earth
    वारणः—an elephant ‘मतङ्गजो गजो नाग कुञ्जरो वारणः
    करी’ इत्यमर । वाहन—(वह् + ल्युट्—अन) यानम् a convey-
    ance प्रभिन्न दिग्वारण वाहन यस्य सः प्रभिन्नदिग्वारणवाहन
    having for his vehicle the rutting elephant of the
    (eastern) quarter Or, according to some inter-
    pretors—प्रभिन्नाः (पराभूताः) दिग्वारणाः (स्वातिरिक्ता
    दिग्गजा.) येन स प्रभिन्नदिग्वारण , तादृश वाहन यस्य स
    प्रभिन्नदिग्वारणवाहन who has for his vehicle the
    elephant of the (eastern) quarter, who has routed
    other elephants of the quarters वृषा—वर्षतीति वृषा

( २१७ )
इन्द्रः Indra ‘वासवो वृत्रहा वृषा’ इत्यमर । See notes on
it in verse 61 उपगम्य—( उप+√गम्+ल्यप् ) समीपं
आगत्य coming near ; approaching असम्पदः—नास्ति
संपद् यस्य सः असम्पत्, तस्य of him who possesses no
wealth. वृषेण—वृषभेण on a bull. ‘उक्षा भद्रो बलीवर्द
ऋषभो वृषभो वृषः’ इत्यमर । तस्य—शिवस्य of him
(Shiva) मौलिना—शिरसा by his head. विनिद्रमन्दार-
रजोरुणाङ्गुती । विनिद्र —विगता निद्रा यस्य स विनिद्र (विक-
सितः) a full-blown flower. मन्दार —देववृक्ष one of
the five trees of paradise Here, the flowers of that
tree, so मन्दारस्य इमे मन्दारा. (मन्दार+अण्) । अण्
is dropped and hence no change in the word प्रभिन्नानां
मन्दाराणां रजोभि (परागैः) अरुणा (रक्ता) अङ्गुलयो ययोस्तौ
प्रभिन्नमन्दाररजोरुणाङ्गुती whose toes are made red
with the pollen-dust of the full blown flowers of the
heavenly trees Adj of पादौ । The colour of the toes
of Shiva's feet is changed by the colour of Mandar
flowers borne on the head by Indra
This verse is a suitable reply to ‘इयं च तेऽन्या
पुरतो विडम्बना’ verse No 70, and contains a contrast
between वृष ( a bull ) and दिग्धारण ( an elephant of
the quarters ) Párvatī says it is immaterial
it Shiva has a bull for his vehicle when Indra
whose vehicle is ऐरावत coming to him bows
his head before him It shows the real greatness of
Shiva 80

( २१८ )
Change of Voice —प्रभिन्नदिग्वारणवाहनेन वृष्णा उप-
गम्य असम्पद् वृषेण गच्छन् तस्य पादौ मौलिना विनिद्रमन्दार-
रजोरुणाङ्गुली क्रियेते ॥ ८० ॥
Hindi Translation —किसी प्रकार की सम्पत्ति न
रखने वाले, बैल पर चढ़ने वाले, उस ( शिव ) के पैरो को, मद
बहाने वाला ( पूर्व ) दिशा का हाथी जिसकी सवारी है ऐसा इन्द्र
समीप आकर अपने सिर द्वारा, खिले हुए देववृक्षों के पुष्पों के
पराग से लाल अङ्गुली वाला करता है ॥ ८० ॥
English Translation —Indra, whose vehicle is the
rutting elephant of the ( eastern ) quarter, coming
near, makes with his head the feet of him who is
wealthless and who rides a bull, possessing toes
( made ) red by the pollen-dust of the full blown flowers
of the heavenly trees 80-
Purport in Sanskrit —यद्यपि स शिव स्वयं निर्धनो
वृद्धोक्षवाहनश्च परं जगत्यसाधारणैश्वर्यवान् मघवापि यस्य हि
हस्तिराज ऐरावतो वाहनं तत्समक्षमागत्य सत्कारप्रदर्शनार्थं स्वर्ग-
वृक्षपुष्पभूषितं स्वशिरस्तच्चरणयोर्नमयति येन शिवस्य पादाङ्गु-
लयः पुष्परागेण रागयुक्ता भवन्ति । यस्य हि इन्द्रादयोऽपि चरण-
सेवका स कियन्महानिति कथनेनास्ताम् ॥ ८० ॥
विवक्षता दोषमपि च्युतात्मना
त्वयैकमीशं प्रति साधु भाषितम् ।
यमामनन्त्यात्मभुवोऽपि कारणं
कथं स लक्ष्यप्रभवो भविष्यति ॥ ८१ ॥

( २१६ )
यदुक्तं ' अलक्ष्यजन्मता ' ( ५।७२ ) इति तत्रोत्तरमाह—
विवक्षतेति । च्युतात्मना नष्टस्वभावेनान एव दोषं दूषणं विवक्षता
वक्तुमिच्छता अपि त्वया ईशं प्रति एकं अलक्ष्यजन्मता इत्येतदेकम् ।
वच इत्यर्थः । साधु भाषितं सम्यगुक्तम् । कुतः । यं ईश्वरं आत्म-
भुवः अपि ब्रह्मणोऽपि । 'ब्रह्मात्मभू सुरज्येष्ठ ' । कारणं आमनन्ति '
उदाहरन्ति । विद्वांस इति शेषः । ' पाघ्राध्मास्थाम्नादाण् '—
इत्यादिना मनादेशः । स ईश्वरः कथं लक्ष्यप्रभवः लक्ष्यजन्मा भवि-
ष्यति। अनादिनिधनस्य भगवतः कारणशङ्का कलङ्कश्च नान्विष्यत
इत्यर्थः ॥ ८१ ॥
PROSE ORDER :—च्युतात्मना दोषं विवक्षता अपि त्वया
ईशं प्रति एकं साधु भाषितम्, यं आत्मभुव अपि कारणं आम-
नन्ति सः कथं लक्ष्यप्रभवः भविष्यति ॥ ८१ ॥
NOTES :—च्युतात्मना—च्युतः ( पतित ) आत्मा ( अन्तः-
करणं ) यस्य स च्युतात्मा, तेन one possessing a depraved
soul. Pārvatī calls the ascetic so because he talked
so much ill of Shiva विवक्षता—( √वच्+सन्+शतृ ) वक्तुं
इच्छति विवक्षति, विवक्षति इति विवक्षन् (वक्तुमिच्छन्), तेन
विवक्षता by one who wants to speak. Instrumental
sing of विवक्षन् Present part. of the Desiderative of
√वच्, The suffix सन् is added to express desire अपि—
though you wanted to point out Shiva's faults you
have unconsciously said one good point about him.
ईशं प्रति—महेशं प्रति with regard to the Lord Accu-
sative is used because of प्रति । ' अभित परित समया नि-
कषा हा प्रतियोगेऽपि।' साधु—सम्यक् a good point viz
अलक्ष्यजन्मता in verse 72 आत्मभुवः—( आत्मन्+√भू+

( २२० )
क्विप्) आत्मना (स्वयमेव) भवतीति आत्मभू (ब्रह्मा), तेन
आत्मभुवा of the self existent i.e. of Brahman 'ब्रह्मा
आत्मभूः सुरज्येष्ठः परमेष्ठी पितामहः' इत्यमरः। कारण—the
cause of birth, the creator Cf. 'यो वै ब्रह्माणं विदधाति
पूर्वम्' said of the Lord of universe आमनन्ति—प्रति-
पादयन्ति describe; celebrate, consider √म्ना to
praise; to learn, is changed to मन in the सार्वधातुक
लकारs by 'पाघ्राध्मास्थानाम्नादाण्दृश्यर्त्तिर्त्तिशदसदां पिबजिघ्र-
धमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः' । पा० ७।३।७८ ।
which replaces √पा etc. by पिब etc. respectively.
लक्ष्यप्रभवः—प्रभवति अस्मात् इति प्रभव (उत्पत्तिस्थानम्),
लक्ष्य (ज्ञेयः) प्रभव यस्य सः लक्ष्यप्रभवः whose origin is
known or visible.
The ascetic had said अलक्ष्यजन्मता about Shiva in
bad sense, but Pārvatī has wisely interpreted it in
a good sense and has thus given a suitable reply to
him 81
CHANGE OF VOICE:—च्युतात्मा दोषं विवक्षन् अपि त्वं
ईशं प्रति एकं साधु भाषितवान्, यः आत्मभुवः अपि कारणं
आम्नायते तेन कथं लक्ष्यप्रभवेण भविष्यते ? ॥ ८१ ॥
HINDI TRANSLATION —नीच आत्मा वाले, दोषों को
कहने की इच्छा करते हुए भी तूने महेश के बारे में एक अच्छी
बात कह दी; जिसे (विद्वान् लोग) ब्रह्मा का भी कारण बताते हैं
उसकी उत्पत्ति किस प्रकार जानी जा सकती है ? ॥ ८१ ॥
ENGLISH TRANSLATION —Thou, of depraved soul,
although wishing to speak the faults (of Shiva) hast