कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
( १८७ )
funeral pyres, easy to be obtained from the bosom
of the three-eyed God, will make its home on the
pair of thy breasts which have been a place for sandal
paste 69
PURPORT IN SANSKRIT :—हे पार्वति ! महादेवः स्वशरीरे
चितायाः भस्म लिम्पति । तस्मात् समागमकाले यदा स त्वामा-
लिङ्गिष्यति तदा चन्दनलेपयोग्यं ते वक्षो भस्मयुक्तं भविष्यति,
यद्धि नितरामनुचितं प्रतिभाति ॥ ६९ ॥
इयं च तेऽन्या पुरतो विडम्बना
यदूढया वारणराजहार्यया ।
विलोक्य वृद्धोक्षमधिष्ठितं त्वया
महाजनः स्मेरमुखो भविष्यति ॥ ७० ॥
इयमिति । इयं च ते तव पुरतः आदावेव अन्या विडम्बना ।
परिहास इत्यर्थः । का सेत्यत्राह—ऊढया परिणीतया । वहेः कर्मणि
क्तः । वारणराजहार्यया त्वया अधिष्ठितं आरूढं वृद्धं उक्षाणं वृद्धा-
क्षम् । ‘अचतुर’—इत्यादिना निपातः । विलोक्य महाजनः साधु-
जनः स्मेरमुखः स्मितमुखः भविष्यति उपहसिष्यति यत् । इयमिति
पूर्वेण सम्बन्धः । स्मेरेति ‘नमिकम्पिस्म्यज०’—इत्यादिना
रप्रत्ययः ॥ ७० ॥
PROSE ORDER :—(किं) च पुरतः इयं अन्या ते विडम्बना
यद् ऊढया वारणराजहार्यया त्वया अधिष्ठितं वृद्धोक्षं विलोक्य
महाजनः स्मेरमुखः भविष्यति ॥ ७० ॥
NOTES :—पुरतः—सर्वस्मात् पूर्वमेव first of all, i. e.,
before you go to the house of Shiva and live with
him It is an indeclinable formed by adding तस् to
( १८८ )
धुर । विडम्बना—( वि + √डम्ब् to throw + युच् - अन + आ )
हास्यकारणं matter for laughing ; disgrace ऊढया—
( √वह् to carry + क्तः + आ = ऊढा ) कृतविवाहया by her
who had been married. Passive past part of √वह्
in the sense of ‘to marry.’ Adj of त्वया । वारणराज-
हार्यया—वारणानां (हस्तीनां) राजा वारणराज , तेन हर्तुं (नेतुं)
योग्या वारणराजहार्या, तया fit to be borne by the lord
of elephants. Because she was a princess. In वारण-
राज, राजन् is made राज by adding टच् to it by ‘ राजाहः-
सखिभ्यष्टच् ’ पा० ५.४.९१. i. e., the words राजन्, अहन्
and सखि, when at the end of a Tatpurusha, drop
the final vowel together with the following consonant,
if there be any, and add अ. The compound then is
declined like the words ending in अ. हार्यया—Instru-
mental sing. of हार्या—√हृ + ण्यत् fit to be borne. अधि-
ष्ठितं—( अधि + √स्था + क्त ) आरूढं ridden by ; occupied
by वृद्धोक्षम्—वृद्धं उक्षं वृद्धोक्षं or वृद्धश्चासौ उक्षा ( वृषभः )
च वृद्धोक्षः, तं an old bull. The reference is to the bull
of Shiva. The word उक्षन् ( a bull ) is changed to उक्ष
at the end of a Karmadháraya compound by adding
अ to it by ‘ अचतुर०...जातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः ’
पा० ५.४.७७. महाजनः—महांश्चासौ जनः महाजनः ( सभ्य
लोकः ) great men. It gives the idea of many as well
as of great or respectable. स्मेरमुखः । स्मेर—( √स्मि to
smile + र ) स्मयते इति स्मेरः smiling. र is added by
‘ नमिकम्पिस्म्यजसकमहिंसदीपो रः ’ पा० ३.२.१६७. स्मे˙
( १८६ )
( मन्दहासयुक्तं ) मुखं यस्य स स्मेरमुखः with smiling coun-
tenance 70
CHANGE OF VOICE :-(कि) च पुरतः अनया अन्यया
ते विडम्बनया (भूयते) यद् ऊढया वारणराजहार्यया
त्वया अधिष्ठितं वृद्धोक्षं विलोक्य महाजनेन स्मेरमुखेन भवि-
ष्यते ॥ ७० ॥
HINDI TRANSLATION :—सबसे पहिले यह तुम्हारी और
दूसरी हँसी होगी कि श्रेष्ठ हाथी पर चढ़ने योग्य, विवाहित
तुमको (शिवजी के) बुड्ढे बैल पर बैठे देखकर बड़े आदमी
मुस्कराने लग जावेंगे ॥ ७० ॥
ENGLISH TRANSLATION :—Then, first of all, there
will be another humiliation for thee when great men
will have smiling countenances on seeing thee, fit to be
borne by a lordly elephant, riding an old bull, after
marriage 70
PURPORT IN SANSKRIT :—हे पार्वति ! शिवस्य वाहनं
वृषभोऽस्ति, तस्माद्विवाहानन्तरं यदा हस्तिराजवहनयोग्या त्वं
तस्य वृद्धं वृषभमारुह्य तत्स्थानं गमिष्यसि तदा सर्वेऽपि प्रेक्ष-
कास्त्वां दृष्ट्वा हसिष्यन्ति ॥ ७० ॥
द्वयं गतं सम्प्रति शोचनीयतां
समागमप्रार्थनया पिनाकिनः ।
कला च सा कान्तिमती कलावत—
स्त्वमस्य लोकस्य च नेत्रकौमुदी ॥७१॥
द्वयमिति । पिनाकिन. ईश्वरस्य समागमप्रार्थनया प्राप्तिकाम-
कु० सं०-१४
( १६० )
नया क्रियमाणयेति शेषः । सम्प्रति द्वयं शोचनीयतां शोच्यत्वं
गतम् । किं तदाह—सा प्रागेव दृग्शिरोगता । अत्र सेति प्रसिद्धा-
र्थत्वान्न यच्छब्दापेक्षा । तदुक्तं काव्यप्रकाशे—‘प्रक्रान्तप्रसिद्धानु-
भूतार्थविषयस्तच्छब्दो यदुपादानं नापेक्षते ।’ इति । कान्तिमती ।
नित्ययोगे मतुप् । कलावतः चन्द्रस्य कला षोडशो भागः च ।
अस्य लोकस्य नेत्रकौमुदी । नेत्रानन्दिनीत्यर्थः । त्वं च । कान्ति-
मतीत्वनेत्रकौमुदीत्वविशेषणयोरुभयत्राप्यन्वयः । प्रागेकैव शोच्या ।
संप्रति तु त्वमप्यपरेति द्वयं शोच्यमिति पिण्डितार्थः । शोच्यत्वं
च निकृष्टाश्रयणादिति भावः ॥ ७१ ॥
PROSE ORDER :—पिनाकिनः समागमप्रार्थनया सम्प्रति
कलावतः सा कान्तिमती कला च अस्य लोकस्य नेत्रकौमुदी त्वं
च द्वयं शोचनीयतां गतम् ॥ ७१ ॥
NOTES :—पिनाकिनः—of the holder of the Pináka
bow. Some books read instead of it कपालिनः—(कपाल
+इनिः=कपालिन्) कपालं (मृतमुण्डं) अस्यास्तीति कपा-
लिन्, तस्य of one who bears skulls, i. e. of Shiva. It
fits in the context better than पिनाकिनः । समागम-
प्रार्थनया—समागमस्य (सहवासस्य) प्रार्थना समागमप्रार्थना,
तया by the desire for union (with Shiva) सम्प्रति—
अधुना now. कलावतः—(कला+मतुप्=कलावत्) प्रशस्ताः
प्रचुराः वा कलाः सन्ति अस्य इति कलावान् (चन्द्रः) तस्य
of the moon (possessed of digits). The म of मतु
is changed to व when affixed to words ending in म्
or अ, short or long, or having either for their
penultimate ‘मादुपधायाश्च मतोर्वोऽयवादिभ्यः’ पा० ८ २ ६
सा—प्रसिद्धा which is well-known to be held by Shiva
( १६१ )
on his forehead Here सा is not followed by, या, which
should have been according to the general rule
'यत्तदोर्नित्यसम्बन्धः', because 'when the sense can be
easily known the relative pronoun may be left -
understood Cf 'प्रक्रान्तप्रसिद्धानुभूतार्थविषयस्तच्छब्दो यदु-
पादानं नापेक्षते ।' कान्तिमती—( कान्ति+मतुप्+ङीप् )
कान्तिः( द्युतिः ) अस्याः अस्तीति कान्तिमती bright ; possessed
of lustre Adj of कला as well as of त्वं ( पार्वती ) कला
—a digit of the moon, which is borne on his forehead
by Shiva नेत्रकौमुदी । कौमुदी—चन्द्रप्रभा the moon-light.
'चन्द्रिका कौमुदी ज्योत्स्ना' इत्यमरः । It is also used for
a thing which is pleasant like the moon-light नेत्र-
कौमुदी—नेत्रयोः कौमुदी like moon-light for the eyes of
people A handsome woman is often called as such,
because she is regarded agreeable to the eyes like the
moon-light Cf 'त्वं कौमुदी नयनयोः अमृतं त्वमङ्गे ' उत्तर-
रामचरितम् ३ २६ It is an Adj. of त्वं as well as of
कला । द्वयं—two things शोचनीयताम् ( √शुच्+अनीय+
ता ) शोकविषयताम् deplorableness गतम्—प्राप्तम् have
become.
In the Kāvya Prakash this verse has been quoted
as an instance of the fault अक्रमत्व i e, the absence of
the syntactical order of words, because the particle च
has been placed after लोकस्य instead of त्वं, which is
its proper position, for it is the word त्वं and not
लोक that is meant to be conjoined with कला ।
( १६२ )
Change of Voice :—पिनाकिनः समागमप्रार्थनया सम्प्रति
कलावतः तया कान्तिमत्या कलया अस्य लोकस्य नेत्रकौमुद्या
त्वया च ( इति ) द्वयेन शोचनीयतां गतेन ( अभावि ) ॥ ७१ ॥
Hindi Translation :—महादेव के साथ रहने की इच्छा
से अब चन्द्रमा की वह चमकती हुई कला और इस संसार के
नेत्रों की चन्द्रिका तू दोनो ही शोचनीय हो गयीं ॥ ७१ ॥
Purport in Sanskrit :—हे गौरि ! मृतमुण्डधारी
महादेवस्तु तादृशोऽमाङ्गलिको यत् शुभमपि वस्तु तत्ससर्गेण
शोकविषयतां याति । तथा हि—पूर्वस्मिन् काले तु तस्य मस्तके
वासाच्चन्द्रमसः कला शोचनीयाऽभूत्, इदानीञ्च ज्योत्स्नेव सर्व-
जगतः नेत्राणामानन्दकारिणी त्वं तत्सहवासेच्छां कुर्वन्ती शोच-
नीया भविष्यसि । किमतः परं दुःखकरम् ? ॥ ७१ ॥
वपुर्विरूपाक्षमलक्ष्यजन्मता
दिगम्बरत्वेन निवेदितं वसु ।
वरेषु यद्बालमृगाक्षि मृग्यते
तदस्ति किं व्यस्तमपि त्रिलोचने ॥ ७२ ॥
( ११३ )
‘ कन्या मृगयते रूपं माता वित्तं पिता श्रुतम् । बान्धवाः कुल-
मिच्छन्ति मिष्टान्नमितरे जनाः ।’ इति लोकानामाभाषणम् । तत्र
किञ्चिदपि नास्तीत्याह—वपुरिति । वपु तावदस्य विरूपाक्षि
विकृतरूपायत्यक्षीणि नेत्राणि यस्य तद् विरूपाक्षम् । ‘ बहुव्रीहौ
सक्थ्यक्षणो स्वाङ्गात्षच् ’ इति षच् प्रत्ययः । वैरुप्यं च त्रिनेत्रत्वा-
दिति क्षीरस्वामी । अतो न सौन्दर्यवार्त्तापीत्यर्थः । अलक्ष्यमज्ञातं
जन्म यस्य तस्य भावस्तत्ता । कुलमपि न ज्ञायत इत्यर्थः । ‘ अल-
क्षिता जनि ’ इति पाठे जनिरुत्पत्तिरलक्षिता न ज्ञाता । ‘ जनि-
रुत्पत्तिरुद्भव ’ इत्यमर । वसु वित्तं दिगम्बरत्वेन एव निवेदितम् ।
नास्तीति ज्ञापितमित्यर्थ । यदि वित्तं भवति तदा कथं दिगम्बरो
भवति । अतो ज्ञेयं निर्धनोऽयमिति । कि बहुना । हे बालमृगाक्षि
पार्वति वरेषु वोढृषु । ‘ वरौ जामातृवोढारौ ’ इति विश्वः । यत्
रूपवित्तादिकं मृग्यते कन्यातद्वन्धुभिरन्विष्यते तत् त्रिलोचने
त्र्यम्बके व्यस्तं एकं अपि । समस्तं मा भूदिति भावः । अस्ति
किम् नास्त्येवेत्यर्थ ॥ ७२ ॥
PROSE ORDER :—( अस्य ) वपु. विरूपाक्षम्, अलक्ष्य-
जन्मता, वसु दिगम्बरत्वेन निवेदितम् । ( हे ) बालमृगाक्षि ! यद्
वरेषु मृग्यते तत् त्रिलोचने व्यस्तं अपि अस्ति किम् ? ॥ ७३ ॥
NOTES :—वपु —शरीरं the body. विरूपाक्षम्—( विरूप
+अक्षि +षच् ) विरूपं ( विकृतं ) अक्षि ( नेत्रं ) यस्य यस्मिन्
वा तद् विरूपाक्षम् having deformed eye. Shiva’s third
eye is described as fiery and tawny-coloured. When
explained thus the compound refers to the third eye
only, but when explained in the following way it will
refer to the state of possessing three eyes—विरूपाणि
अक्षीणि यस्मिन् having odd number of eyes. अक्षि is
made अक्ष by dropping इ and adding अ ( षच् ) instead
of it, when at the end of a Bahuvrīhi compound.
' बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच् ' पा० ५ ४ ११३ । अलक्ष्य-
जन्मता—न लक्ष्यं अलक्ष्यं ( अज्ञातम् ), अलक्ष्यं जन्म यस्य स
अलक्ष्यजन्मा, तस्य भाव अलक्ष्यजन्मत्ता ( जन्म+तल् ) whose
birth or parentage is unknown Some books read
अलक्षिता जनि for अलक्ष्यजन्मत्ता। जनि means उत्पत्ति
birth वसु—धनम् wealth 'रत्ने धने वसु' इत्यमरः Decline
वसु as वसु, वसुनी, वसूनि । वसु, वसुनी, वसूनि । वसुना,
वसुभ्यां, वसुभिः । etc दिगम्बरत्वेन—दिश एव अम्बराणि
( वस्त्राणि ) यस्य स दिगम्बर, तस्य भावः दिगम्बरत्वम्,
तेन by his having the quarters for his garments ;
by his nudity Shiva is described naked and
putting on only the elephant's hide निवेदितं—
विज्ञापितम् is indicated , is shown. When he cannot
afford to have proper garments he must be an extreme-
ly poor man बालमृगाक्षि—( बालमृग+अक्षि+षच्+ङीप् )
बालश्चासौ मृग बालमृग , बालमृगइव अक्षिणी यस्या सा
बालमृगाक्षी, तस्या सम्बोधने O thou possessing eyes like
those of a young fawn. यद्—whatever qualities.
These are mentioned in the verse—" कन्या मृगयते रूपं
माता वित्तं पिता श्रुतम्। बान्धवाः कुलमिच्छन्ति मिष्टान्नमितरे
जनाः।" वरेषु—व्रियते इति वर ( √वृ+अप् ) तेषु with
regard to bridegrooms. मृग्यते—is sought. Passive
present of √मृग् to seek. त्रिलोचने—त्रीणि लोचनानि
यस्य सः त्रिलोचनः, तस्मिन् in the three-eyed God ( i e.,
( १६५ )
Shiva ). व्यस्तम्—( वि+√अस् to throw+क्तः ) एकैकम्
even one ; separately ; scattered. It is the opposite
of समस्तम्. The ascetic means to say that even one of
the required qualities of a bridegroom is not found
in Shiva, to say nothing of the aggregate of all of
them. 72.
CHANGE OF VOICE :—( अस्य ) वपुषा विरूपाक्षेण
( भूयते ) अलक्ष्यजन्मतया ( भूयते ) वसु दिगम्बरत्वं निवेदितवत्;
( हे ) बालमृगाक्षि यत् ( जनाः ) वरेषु मृगयन्ते तेन त्रिलोचने
व्यस्तेन अपि भूयते ? ॥ ७२ ॥
HINDI TRANSLATION :—( इस महादेव का ) शरीर विकृत
आंख वाला है, जन्म अज्ञात है, धन उसकी नग्नता बताती है ;
( हे ) मृगशावक के समान नेत्र वाली, जो बातें वरों में
खोजी जाती हैं, क्या उनमें से एक भी इस तीन आंखों वाले में
है ? ॥ ७२ ॥
ENGLISH TRANSLATION :—His body possesses de-
formed eyes, his birth is unknown, ( and his ) wealth
is shown by his having the quarters for a garment
( i.e., nudity ). O thou possessing eyes like those of
a young fawn, whatever is sought in a bridegroom,
is that even in part found in the three-eyed
one ? 72.
PURPORT IN SANSKRIT :—हे मृगशावकनयने पार्वति !
सौन्दर्य, धनं, विद्या, कुलञ्चेति चत्वारि वस्तूनि परीक्ष्य कन्यार्थे
वराः स्वीक्रियन्ते, परं महादेवे त्वेतेषु एकमपि वस्तु नास्ति चतुर्णां
( १६६ )
तु का कथा ? यतस्तस्य शरीरं पिङ्गलनेत्रयुक्तं नेत्रत्रययुक्तं वाऽस्ति
तस्मान्न स सुन्दर, यतस्तस्योत्पत्तिविषये न किमपि ज्ञायते
तस्मात् स कुलीन इति कथयितुं न शक्यते, यतश्च स नग्नो विवस्त्रो
वाऽस्ति तस्मात्स निर्धन इति विज्ञायते। शिवो न केनापि प्रकारेण ते
योग्य इति तात्पर्यम् ॥ ७२ ॥
निवर्त्तयास्मादसदीप्सितान्मनः
क्व तद्विधस्त्वं क्व च पुण्यलक्षणा ।
अपेक्ष्यते साधुजनेन वैदिकी
श्मशानशूलस्य न यूपसत्क्रिया ॥ ७३ ॥
निवर्त्तयेति । अस्मात् असदीप्सितात् अनिष्टमनोरथात् मनः
निवर्त्तय निवारय । तद्विधः स पूर्वोक्ता विधा प्रकारो यस्य
तथोक्तः । अमङ्गलशील इत्यर्थः । क्व । महदन्तरमित्यर्थः । पुण्य-
लक्षणा प्रशस्तभाग्यचिह्ना त्वं च क्व । अतो न तवायमर्ह इत्यर्थः ।
तथा हि । साधुजनेन । ‘साधुर्वाधुषिके चारौ सज्जने चाभिधेयवत् ’
इति विश्वः । श्मशानशूलस्य श्मशानभूमिनिखातस्य मध्यशङ्कोः
वैदिकी वेदोक्ता । यूपो नाम पशुबन्धनसाधनभूतं संस्कृतदारुविशे-
षस्तस्य सत्क्रिया प्रोक्षणाभ्युक्षणादिसंस्कार यूपसत्क्रिया न
अपेक्ष्यते नेष्यते । यथा श्मशानशूले यूपसत्क्रिया न क्रियते तथा
त्वमपि तस्मै न घटस इति तात्पर्यार्थः ॥ ७३ ॥
PROSE ORDER :—(हे गौरि) अस्माद् असदीप्सिताद् मनः
निवर्तय, तद्विधः क्व ? पुण्यलक्षणा त्वं च क्व ? साधुजनेन श्मशान-
शूलस्य वैदिकी यूपसत्क्रिया न अपेक्ष्यते ॥ ७३ ॥
NOTES :—असदीप्सितात् । ईप्सितात्—( √आप् + सन् +
क्तः ) मनोरथात् desire. For the formation of ईप्सित see
( १६७ )
notes on ईप्सित in verse 5 न सन् असत् ; असच्च
तदीप्सितं च श्रमदीप्सितं, तस्मात् from the evil desire, viz.
marrying Shiva. Ablative case is used of that from
which one is kept off ‘वारणार्थानामीप्सितः’ पा० १।४।२७।
तद्विधः-सा विधा (प्रकारः) यस्य सः तद्विधः of that sort,
i e, as described in the foregoing shlokas क्व-क्व-
These two particles are used to indicate great disparity
between two things Here they show the great
difference with regard to beauty etc between Shiva
and Parvati See notes on verse 4 पुण्यलक्षणा-पुण्यानि
(शुभानि) लक्षणानि (चिह्नानि) यस्याः सा possessed of
auspicious marks The statement contained in the
first two lines is corroborated by means of an instance
(दृष्टान्त) in the last two lines. साधुजनेन-साधुश्चासौ
जनस्तेन (पण्डितजनेन) by good persons श्मशानशूलस्य
- श्मशाने श्मशानस्य वा शूलम् (शङ्कु) श्मशानशूलं, तस्य of
the stake used for impaling criminals in a cemetery
ground वैदिकी-(वेद + ठञ्-इक + ङीप्) वेदे भवा
वैदिकी (वेदोक्ता) as ordained in the Vedas ठञ् is added
by the rule ‘अध्यात्मादिभ्यश्च’। यूपसत्क्रिया। यूपः-a
sacrificial post to which beasts are tied in sacrifices.
सत्क्रिया-संस्कारः a purificatory ceremony, such as
washing etc यूपस्य सत्क्रिया यूपसत्क्रिया or यूपोचिता
सत्क्रिया यूपसत्क्रिया the ceremonies with regard to a
sacrificial post. न अपेक्ष्यते-न इष्यते is not desired.
A stake is used for unholy purposes while a sacrificial
( १६८ )
post is used for sacred purposes—how can, then, the
rites prescribed for the latter be performed in case
of the former ? And just as it is improper to do so,
so is your relation with Shiva 73
CHANGE OF VOICE —( हे गौरि ) अस्माद् असदीप्सिताद्
( त्वया ) मनः निवत्र्यताम्, तद्विधेन क ( भूयते ) पुण्यलक्षणया
त्वया च क ( भूयते ) ? साधुजनः श्मशानशूलस्य वैदिकीं यूप-
सत्क्रियां न अपेक्षते ॥ ७३ ॥
HINDI TRANSLATION :—( हे पार्वति ) इस बुरी इच्छा से
मन हटा लो ; इस प्रकार का वह कहां और शुभ चिन्हो वाली
तुम कहां ? श्रेष्ठ पुरुष श्मशान की शूली का वेदों में बताया हुआ
यज्ञस्तम्भ सम्बन्धी संस्कार नहीं करते ॥ ७३ ॥
ENGLISH TRANSLATION - Turn thy heart from this
evil desire, how widely different are the two—he of
that sort and thee possessed of auspicious marks ? Good
persons do not perform with regard to a stake in the
cemetery the purificatory ceremonies proper for a
sacrificial post as ordained in the Vedas 73
PURPORT IN SANSKRIT :—हे पार्वति ! चिताभस्मकपाला-
द्यशुभवस्तुषु प्रीतिकारिणि शिवे शुभचिह्नान्वितायां त्वयि च मह-
दन्तरम्, तस्माच्छिवप्राप्तिरूपानुचिता कामना त्वया त्याज्या । यथा
हि पण्डिताः श्मशानस्थितस्य शङ्कोः यूपसम्बन्धिनं वेदोक्तं संस्कारं
न कुर्वन्ति तथैव त्वयाप्यमाङ्गलिकः स माङ्गलिक इव न कम-
नीयः ॥ ७३ ॥
इति द्विजातौ प्रतिकूलवादिनि
प्रवेपमानाधरलक्ष्यकोपया ।
( १६६ )
विकुञ्चितभ्रूलतमाहिते तया
विलोचने तिर्यगुपान्तलोहिते ॥ ७४ ॥
इतीति । इति एवं प्रकारेण द्विजातौ द्विजे प्रतिकूलवादिनि
सति । प्रवेपमानाधरलक्ष्यकोपया प्रवेपमानेन चञ्चलेनाधरोष्ठेन
लक्ष्यः अनुमेयः कोपः क्रोधो यस्यास्तथोक्तया तया पार्वत्या उपान्त-
लोहिते प्रान्तरक्ते विलोचने विकुञ्चितभ्रूलतं विकुञ्चिते कुटिलिते
भ्रूलते यस्मिंस्तत्तथा । सभ्रूभङ्गमित्यर्थः । तिर्यक् साचि आहिते
निहिते । अनादरात्तिर्यगैक्ष्यतेत्यर्थः ॥ ७४ ॥
PROSE ORDER :—द्विजातौ इति प्रतिकूलवादिनि ( सति )
प्रवेपमानाधरलक्ष्यकोपया तया उपान्तलोहिते विलोचने विकुञ्चित-
भ्रूलतं तिर्यग् आहिते ॥ ७४ ॥
NOTES :—द्विजातौ—द्वे जाती ( जन्मनी ) यस्य स द्विजा-
तिः, तस्मिन् the Brāhmaṇa प्रतिकूलवादिनि—प्रतीपं कुलात्
प्रतिकूलं against the current , hence against one's
wishes प्रतिकूलं वदतीति प्रतिकूलवादिन् ( वद् + णिनिः )
तस्मिन् talking against her wish Pārvati was least
prepared to listen to such an adverse criticism of her
beloved, hence प्रवेपमानाधरलक्ष्यकोपया—( प्र + √वेप् +
शानच् ) प्रवेपमानेन ( कम्पमानेन ) अधरेण ( अधरोष्ठेन ) लक्ष्यः
( अनुमेयः ) कोपो यस्याः सा प्रवेपमानाधरलक्ष्यकोपा, तया
whose anger could be guessed by her quivering the
nether lip. It is well-known that the lower-lip begins
to tremble if an attempt is made to speak while in
anger. उपान्तलोहिते—अन्तस्य समीपं उपान्तं ; उपान्तयोः
( प्रान्तभागयोः ) लोहिते ( रक्ते ) उपान्तलोहिते red at the
( २०० )
corners Adj. of विलोचने the eyes विकुञ्चितभ्रूलतम्।
विकुञ्चिता—(वि + √कुञ्च् to contract + क्तः) कुटिलतां नीता
contracted; curved (in a frown) भ्रूलता—भ्रूरेव लता
भ्रूलता creeper-like eyebrows विकुञ्चिता भ्रूलता यस्मिन्
कर्मणि तद् विकुञ्चितभ्रूलतम् in which the creeper-like
brows were contracted तिर्यक्—(तिरस् + √अञ्च् +
क्विन्) obliquely, sideways तिरस् is changed to तिरि
before अञ्च् by 'तिरसस्तिर्यलोपे' पा० ६ ३ ६४। आहिते—
(आ + √धा + क्त) कृते; प्रेरिते i. e., were cast It is
natural that Párvatí's anger was excited when the
ascetic talked ill of her beloved 74
CHANGE OF VOICE:—द्विजातौ इति प्रतिकूलवादिनि
(सति) प्रवेपमानाधरलक्ष्यकोपा सा उपान्तलोहिते विलोचने
विकुञ्चितभ्रूलतं तिर्यग् आहितवती ॥ ७४ ॥
HINDI TRANSLATION:—उस ब्राह्मण के इस प्रकार
(उसकी इच्छा के) विरुद्ध बोलने पर, जिसका क्रोध निचले
ओंठ के फड़फड़ाने से प्रकट हो रहा था ऐसी उस (पार्वती) ने
कोनों की ओर लाल नेत्रों से भौंहों को टेढ़ा कर के (उस पर)
तिरछी निगाह डाली ॥ ७४ ॥
ENGLISH TRANSLATION —When the Bráhmana was
talking so adversely, askance eyes, red at the corners
(and) with the creeper-like eye-brows contracted (in
frown) were cast (at him) by her whose anger was
visible from her quivering nether lip 74.
PURPORT IN SANSKRIT:—शिवनिन्दारूपं ब्रह्मचारि-
णास्तत्कथनं श्रुत्वा पार्वती नितरां कुपिता जाता, क्रोधेन च तस्या
( २०१ )
अधरोष्ठोऽकम्पत नेत्रे च प्रान्तभागयोः रक्ते जाते तथा च सा
तन्मुखाद् दृष्टिमाकृष्य भ्रुव कुटिलां कृत्वावज्ञया तिर्यगवालो-
कन् ॥ ७४ ॥
उवाच चैनं परमार्थतो हरं
न वेत्सि नूनं यत एवमात्थ माम् ।
अलोकसामान्यमचिन्त्यहेतुकं
द्विषन्ति मन्दाश्चरितं महात्मनाम् ॥ ७५ ॥
उवाचेति । अथ एनं ब्रह्मचारिणं उवाच च । किमिति । पर-
मार्थतः तत्त्वतः हरं न वेत्सि न जानासि नूनम् । कुतः । यतः मां
एव उक्तया रीत्या आत्थ ब्रवीषि । 'ब्रुवः पञ्चानामादितः '—इति
रूपसिद्धि । अज्ञानादेवायं शिवद्वेषस्तवेत्याशयेनाह—मन्दा मूढाः ।
मूढाल्पपटुनिर्भाग्या मन्दाः ' इत्यमरः । लोकसामान्यमितरजन-
साधारणं न भवति इति अलोकसामान्यं अचिन्त्यहेतुकं दुर्बोध-
कारणकं महात्मनां चरित द्विषन्ति हेत्वपरिज्ञानाद्दूषयन्ति । विद्वां
सस्तु कोऽप्यत्र हेतुरस्तीति बहु मन्यन्त इत्यर्थः ॥ ७५ ॥
PROSE ORDER :—( गौरी ) एन उवाच च, नून परमार्थतः
हरं न वेत्सि, यतः मां एवं आत्थ, मन्दाः अलोकसामान्यं अचिन्त्य-
हेतुकं महात्मनां चरितं द्विषन्ति ॥ ७५ ॥
NOTES :—एनं—एतं ब्रह्मचारिणं to this Brahmacharin.
एनं is the optional form of इदम् and एतत् in the Accu-
sative sing to be used when there is अन्वादेश i e, their
proper forms have already been used in a previous
clause. ' द्वितीयाटौस्वेनः ' पा० २.४.३४ । नूनं—निश्चयेन
certainly. परमार्थतः—परमश्चासौ अर्थश्च परमार्थः ( सत्यं ),
( २०२ )
तस्मात् परमार्थतः ( परमार्थ + तसिल् ) in reality , truly ;
correctly परमार्थ means the highest sense or truth.
तसिल् is added in the sense of the Ablative by
‘पञ्चम्यास्तसिल्’ पा० ५ ३ ७ । न वेत्सि—न जानासि thou
knowest not This is a refutation of the ascetic’s
assertion ‘विदितो महेश्वरः’ in verse 65 आत्थ—ब्रवीषि
thou sayest Present tense, second pers sing of √ ब्र
‘to speak’ ब्रू is replaced by आह and सिप् the
termination by थल् । See notes on आह in verse 56
Now, Parvatı supports this charge by means of a
general statement which means that the dull-minded
find fault with the life of the great, which has some-
thing unusual about it and the purpose of which can
not be easily understood मन्दाः—मूढाः idiots , dull-witted
‘मूढाल्पापटुनिर्भाग्या मन्दा’ इत्यमरः । अलोकसामान्यम्—न
लोकानां लोकेषु वा सामान्यं ( साधारण ) इति अलोकसामान्यम्
or, न विद्यते लोके सामान्यं यस्य तत् which is not in com-
mon with that of other people, i e which has some-
thing extraordinary about it अचिन्त्यहेतुकम्—( न + √
चिन्त् + यत् = अचिन्त्यं ) चिन्तयितुं योग्यं चिन्त्यं ; न चिन्त्य
अचिन्त्यं ( विचारयितुमशक्यम् ) which can not be grasped
अचिन्त्यः हेतुः ( कारणं ) यस्य तत् अचिन्त्यहेतुकम् the motive
of which can not be understood Parvati means to say
that it was not easy for the Brahmacharin to know
as to why Shiva lived in nudity and did other similar
things कप् is added to हेतु because it is at the end
( २०३ )
of a Bahuvrīhi compound, by ‘ शेषाद् विभाषा ’ पा०
५ ४ १५४ । महात्मनाम्—महान् आत्मा येषां ते महात्मानः, तेषाम्
of the magnanimous , of the great-minded चरितं—
चरित्रं the life द्विषन्ति—द्वेषेण पश्यन्ति hate , look at it .
with jealousy For the idea Cf, ‘ दाह्यमाना सुतीव्रेण
नीचाः परशयोऽग्निना । अशक्तास्तत्पदं गन्तुं ततो निन्दां प्रकुर्वते ।
The figure of speech used in this verse is अर्थान्त-
रन्यास in which a statement is corroborated by means
of a general statement 75.
CHANGE OF VOICE :—( गौर्या ) अयं ऊचे च—नूनं
( त्वया ) परमार्थतः हरो न विद्यते, यतः (त्वया ) अहं एवं
उच्ये । मन्दैः अलोकसामान्यं अचिन्त्यहेतुकं महात्मनां चरितं
द्विष्यते ॥ ७५ ॥
HINDI TRANSLATION :—( पार्वती ) उससे बोली—सच-
मुच तुम वास्तविक रूप से महादेव को नहीं जानते, क्योंकि मुझ
से इस प्रकार कहते हो । मूर्ख लोग अलौकिकतापूर्ण एवं जिसका
उद्देश्य आसानी से नहीं समझा जा सकता ऐसे महात्माओं के
चरित्र से शत्रुता करते हैं ॥ ७५ ॥
ENGLISH TRANSLATION —And she said to him—
‘ Indeed thou dost not know Shiva correctly, since
thou talkest thus to me The dull-witted bear enmity
against the course of life of the great, which is not in
common with that of other people and the purpose of
which is difficult to be understood ’ 75
PURPORT IN SANSKRIT :—स्वकोपमवज्ञाञ्च प्रदर्श्य पार्वती
ब्रह्मचारिणमाह—‘ यतस्त्वं शिवस्य याथार्थ्यं न जानासि तस्मादेवं
कथयसि। इदञ्चसुविज्ञातमेव संसारे यत् त्वमिवान्येऽपि मूढ-
पुरुषा अनन्यसाधारणमविज्ञेयकारणञ्च महापुरुषाणां चरित्रं द्वेष-
भावेनाधिक्षिपन्ति ॥ ७५ ॥
विपत्प्रतीकारपरेण मङ्गलं
निषेव्यते भूतिसमुत्सुकेन वा ।
जगच्छरण्यस्य निराशिषः सतः
किमेभिराशोपहतात्मवृत्तिभिः ॥ ७६ ॥
सम्प्रति। अमङ्गलाभ्यासरतिं (५।६५) इत्याद्युक्तदूषणजातं
विपदित्यादिभिः षड्भिः श्लोकैः परिहर्तुमारभते--विपदिति ।
विपत्प्रतीकारपरेण । अनर्थपरिहारार्थिनेत्यर्थ । ' उपसर्गस्य
घञ्यमनुष्ये बहुलम्' इति दीर्घः । भूतिसमुत्सुकेन ऐश्वर्यकामेन
वा मङ्गलं गन्धमाल्यादिकं निषेव्यते । शरणे रक्षणे साधुः शरण्यः ।
' तत्र साधुः' इति यत्प्रत्ययः । ' शरणं गृहरक्षित्रोः ' इत्यमरः ।
जगत शरण्यस्तस्य जगच्छरण्यस्य निराशिषः निरभिलाषस्य
सतः शिवस्य । 'आशीरुरगदंष्ट्रायां विप्रवाक्याभिलाषयोः' इति
शाश्वतः। आशोपहतात्मवृत्तिभि आशया तृष्णयोपहता दूषितात्म-
वृत्तिरन्तःकरणवृत्तिर्येषां ते एभिः मङ्गलैः किम् । वृथेत्यर्थः ।
पूर्वं मङ्गलमित्येकवचनस्य जात्यभिप्रायत्वादेभिरिति बहुवचनेन
परामर्शो न विरुध्यते । इष्टावाप्त्यनिष्टपरिहारार्थिनो हि मङ्गला-
चारनिबन्धः । तदुभयासंस्पृष्टस्य तु यथाकथंचिदास्ताम् । को
दोष इत्यर्थः । एतेन ' अमङ्गलाभ्यासरतिम् ' ( ५।६५ ) इत्युक्तं
प्रत्युक्तम् ॥ ७६ ॥
PROSE ORDER :—विपत्प्रतीकारपरेण वा भूतिसमुत्सुकेन
मङ्गलं निषेव्यते, जगच्छरण्यस्य निराशिषः सतः (शिवस्य)
आशोपहतात्मवृत्तिभिः एभिः किम् ? ॥ ७६ ॥
( २०५ )
Notes :—In this and the following five verses
Pārvatī refutes the charges levelled against Shiva
by the ascetic. In this shloka is refuted the criticism
contained in ‘ अमङ्गलाभ्याससक्तं ’ etc. verse No 65
विपत्प्रतीकारपरेण । प्रतीकारः—( प्रति + √ कृ + घञ् ) परिहारः
warding off इ of प्रति is lengthened by ‘ उपसर्गस्य
घञ्यमनुष्ये बहुलम् ’ पा० ६।३।१२२ विपदां प्रतीकारः परः
( इष्टः ) यस्य सः विपत्प्रतीकारपर , तेन who is anxious to
ward off calamities. भूतिसमुत्सुकेन—भूतौ ( ऐश्वर्ये )
समुत्सुक भूतिसमुत्सुकः, तेन भूतिसमुत्सुकेन eager to obtain
prosperity ‘ भूतिर्भस्मनि सम्पदि ’ इत्यमरः । मङ्गलं—
auspicious things निषेव्यते—( नि + √ सेव् + य + ते ) are
resorted to , are attended to स of √ सेव् is changed
to ष् by ‘ परिनिविभ्यः सेवसितमयसिवुमहसुट्स्तुस्वञ् आम् ’
पा० ८।३।६६। जगच्छरण्यस्य—जगत् + शरण्यस्य । शरण्यः—
(शरण + यत् ) शरणे साधुः (समर्थः) शरण्यः who is capable
of providing shelter यत् is added by ‘ तत्र साधुः ’
पा० ४.४.६८ जगतां शरण्यस्य जगच्छरण्यस्य who is the
protector of the worlds निराशिष —निर्गता आशीः
( इच्छा ) यस्मात् स निराशीः, तस्य निराशिषः who has no
desire आशीः means ‘ desire ’ ‘ आशीः उरगदंष्ट्रायां विप्र-
वाक्याभिलाषयोः ’ इति शाश्वतः । Mark the contrast
between विपत्प्रतीकारपर and जगच्छरण्य and भूतिसमुत्सुक
and निराशीः Pārvatī means to say that it is not only
that Shiva is not विपत्प्रतीकारपर and भूतिसमुत्सुक but
he is जगच्छरण्य and निराशीः, and when he is as such
कु० सं०—१५
( २०६ )
it matters little if he is अमङ्गलाभ्यासरति । सतः—being.
Gen. sing of सत्, pres part of √अस् to be आशोपह-
तात्मवृत्तिभिः—आशया ( तृष्णया ) उपहता आत्मन वृत्तिः यैः
तानि आशोपहतात्मवृत्तीनि, तैः आशोपहतात्मवृत्तिभिः which
corrupt or vitiate the functions of the soul by
producing desire. It qualifies एभिः which stands for
मङ्गलै. । When Shiva has no desire whatsoever he need
not care for auspicious things 76
CHANGE OF VOICE ·—विपत्प्रतीकारपरः वा भूतिसमुत्सुकः
( जन ) मङ्गल निषेवते, जगच्छुरण्यस्य निराशिषः सत (शिवस्य)
आशोपहतात्मवृत्तिभिः एभिः किम् ? ॥ ७६ ॥
HINDI TRANSLATION :—आपत्ति को हटाने में लगा
हुआ अथवा ऐश्वर्य की कामना वाला व्यक्ति शुभ वस्तुओं की
खोज में रहता है, संसार के रक्षक एवं निरीह ( इच्छारहित )
के लिये तृष्णा के द्वारा आत्मा के चलन को बिगाड़ने वाली इन
शुभ वस्तुओं से क्या प्रयोजन ? ॥ ७६ ॥
ENGLISH TRANSLATION —Auspicious things are
resorted to by one, who is anxious to ward off calamities
or eager to attain prosperity What has he, who is the
protector of the world and is free from desires, to do
with these which spoil the functions of the soul by
( producing ) desire 76
PURPORT IN SANSKRIT .—‘ शिवोऽमङ्गलाभ्यासरतिः ’
इति ब्रह्मचारिणः कथितं पार्वती प्रतिवदति—यत् त एव जना
मङ्गलकारीणि वस्तूनि सेवन्ते ये विपत्त्याभिभूता भवन्त्यथ वा
सम्पत्तिप्राप्त्यर्थं समुत्सुका भवन्ति । शिवस्तु सर्वेषां रक्षकस्स्वयं