सामग्री पर जाएँ
सर्वकोश
कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Kumarasambhavam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा

DevanagariSanskritpublished268 पृष्ठ

पृष्ठ 207, कुल 268 में से

संदर्भ में पढ़ें
पृष्ठ 207

( १६० )
नया क्रियमाणयेति शेषः । सम्प्रति द्वयं शोचनीयतां शोच्यत्वं
गतम् । किं तदाह—सा प्रागेव दृग्शिरोगता । अत्र सेति प्रसिद्धा-
र्थत्वान्न यच्छब्दापेक्षा । तदुक्तं काव्यप्रकाशे—‘प्रक्रान्तप्रसिद्धानु-
भूतार्थविषयस्तच्छब्दो यदुपादानं नापेक्षते ।’ इति । कान्तिमती ।
नित्ययोगे मतुप् । कलावतः चन्द्रस्य कला षोडशो भागः च ।
अस्य लोकस्य नेत्रकौमुदी । नेत्रानन्दिनीत्यर्थः । त्वं च । कान्ति-
मतीत्वनेत्रकौमुदीत्वविशेषणयोरुभयत्राप्यन्वयः । प्रागेकैव शोच्या ।
संप्रति तु त्वमप्यपरेति द्वयं शोच्यमिति पिण्डितार्थः । शोच्यत्वं
च निकृष्टाश्रयणादिति भावः ॥ ७१ ॥
PROSE ORDER :—पिनाकिनः समागमप्रार्थनया सम्प्रति
कलावतः सा कान्तिमती कला च अस्य लोकस्य नेत्रकौमुदी त्वं
च द्वयं शोचनीयतां गतम् ॥ ७१ ॥
NOTES :—पिनाकिनः—of the holder of the Pináka
bow. Some books read instead of it कपालिनः—(कपाल
+इनिः=कपालिन्) कपालं (मृतमुण्डं) अस्यास्तीति कपा-
लिन्, तस्य of one who bears skulls, i. e. of Shiva. It
fits in the context better than पिनाकिनः । समागम-
प्रार्थनया—समागमस्य (सहवासस्य) प्रार्थना समागमप्रार्थना,
तया by the desire for union (with Shiva) सम्प्रति—
अधुना now. कलावतः—(कला+मतुप्=कलावत्) प्रशस्ताः
प्रचुराः वा कलाः सन्ति अस्य इति कलावान् (चन्द्रः) तस्य
of the moon (possessed of digits). The म of मतु
is changed to व when affixed to words ending in म्
or अ, short or long, or having either for their
penultimate ‘मादुपधायाश्च मतोर्वोऽयवादिभ्यः’ पा० ८ २ ६
सा—प्रसिद्धा which is well-known to be held by Shiva

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद) · पृष्ठ 207, कुल 268 में से · SarvaKosh