काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
४२ काव्यमीमांसायाम्
नवमोऽध्यायः अर्थव्याप्तिः ।
“स त्रिधा” इति द्रौहिणिः, दिव्यो, दिव्यमानुषो, मानुषश्च ।
“सप्तधा” इति यायावरीयः; पातालीयो, मर्त्यपातालीयो, दिव्य-
पातालीयो, दिव्यमर्त्यपातालीयश्च । तत्र दिव्यः—
“स्मृत्वा यन्निजवारवासगतया वीणासमं तुम्बरो-
रुद्गीतं नलकूबरस्य विरहादुत्कण्ठुलं रम्भया ।
तेनैरावणकर्णचापलमुषा शक्रोऽपि निद्रां जह-
द्भूयः कारित एव हासिनि शचीवक्त्रे दृशां सम्भ्रमम् ॥”
दिव्यमानुषस्तु चतुर्द्धा । दिव्यस्य मर्त्यागमने, मर्त्यस्य च स्वर्ग-
गमन इत्येको भेदः । दिव्यस्य मर्त्यभावे, मर्त्यस्य च दिव्यभाव इति
द्वितीयः । दिव्येतिवृत्तपरिकल्पनया तृतीयः । प्रभावाविर्भूतदिव्य-
रूपतया चतुर्थः । तत्र दिव्यस्य मर्त्यागमनम्—
“श्रियः पतिः श्रीमति शासितुं जग-
ज्जगन्निवासो वसुदेवसद्मनि ।
वसन्ददर्शावतरन्तमम्बरा-
द्धिरण्मगर्भाङ्गभुवं मुनिं हरिः ॥”
मर्त्यस्य स्वर्गगमनम्—
“पाण्डोर्नन्दन नन्दनं वनमिदं सङ्कल्पजैः सीधुभिः
कृत्तापानककेलि कल्पनतरुषु द्वन्द्वैः सुधालेहिनाम् ।
अप्यत्रेन्दुशिलालवालवलयं सन्तानकानां तले
ज्योत्स्नासङ्गलदच्छनिर्झरजलैर्यत्रं विना पूर्यते ॥”
दिव्यस्य मर्त्यभावः—“इति विकसति तस्मिन्नन्ववाये यदूनां
समजनि वसुदेवो देवकी यत्कलत्रम् ।
किमपरमथ तस्मात्षोडशस्त्रीसहस्र-
प्रणिहितपरिरम्भः पद्मनाभो बभूव ॥”
१ V A कण्ठुलं, V B कण्ठलं. २ A जलं. ३ A पूर्ज्यते.
नवमोऽध्यायः । ४३
मर्त्यस्य दिव्यभावः—"आकाशयानतटकोटिकृतैकपादा-
स्तद्धेमदण्डयुगलान्यवलम्ब्य हस्तैः ।
कौतूहलात्तव तरङ्गविघट्टितानि
पश्यन्ति देवि¹ मनुजाः स्वकलेवराणि ॥"
दिव्येतिवृत्तपरिकल्पना—
"ज्योत्स्नापूरप्रसरविशदे सैकतेऽस्मिन्सरय्वा
वादद्यूतं चिरतरमभूत्सिद्धयूनोः कयोश्चित् ।
एको ब्रूते प्रथमनिहतं कैटभं कंसमन्यः
स त्वं तत्त्वं कथय भवता को हतस्तत्र पूर्वम् ॥"
प्रभावाविर्भूतदिव्यभावः—
"मा गाः पातालमुर्वि² स्फुरसि किमपरं पात्यमानः कुदैत्यै
स्त्रैलोक्यं पादपीठप्रथिम नहि बले पूरयस्यूनमङ्गेः ।
इत्युत्स्म्रायमाने भुवनभृति शिशावङ्कसुप्ते यशोदा
पायाच्चक्राङ्गपादप्रणतिपुलकितस्मेरगण्डस्थला वः ॥"
मर्त्यः—"वधूः श्वश्रूस्थाने व्यवहरति पुत्रः पितृपदे
पदे रिक्ते रिक्ते विनिहितपदार्थान्तरमिति ।
नदीस्रोतो न्यायादकलितविवेकक्रमघनं
न च प्रत्यावृत्तिः प्रवहति जगत्पूर्णमथ च ॥"
पातालीयः—
"कर्कोटः कोटिकृत्व³ः प्रणमति पुरतस्तक्षके देहि चक्षुः
सज्जः सेवाञ्जलिस्ते कपिलकुलिकयोः स्तौति च स्वस्तिकस्त्वाम् ।
पद्मः सङ्घैष भक्तेर्वलगति पुरः कम्बलोऽयं बलोऽयं
सोत्सर्पः सर्पराजो व्रजतु निजगृहं प्रेष्यतां शङ्खपालः ॥"
मर्त्यपातालीयः—"आर्द्रावले व्रज न वेत्स्यपकर्ण कर्णं
द्विः सन्दधाति न शरं हरशिष्यशिष्यः ।
तत्साम्प्रतं समिति पश्य कुतूहलेन
मर्त्यैः शरैरपि किरीटिकिरीटमाथ⁴म् ॥"
१ V A देव. २ B मूर्ध्नि. ३ A कोटिकुण्ठः. ४ A नाथम्.
४४ काव्यमीमांसायाम्
इहापि पूर्ववत्समस्तमिश्रभेदानुगमः । दिव्यपातालीयः—
“स पातु वो यस्य शिखाश्मकर्णिकं
स्वदेहनालं फणपत्रसञ्चयम् ।
विभाति जिह्वायुगलोलकेसरं
पिनाकिनः कर्णभुजङ्गपङ्कजम् ॥”
स्वर्गमर्त्यपातालीयः—
“आंस्तीकोऽस्ति मुनिः स्म विस्मयकृतः पारीक्षितीयान्मखा-
त्त्राता तक्षकक्ष्मणः फणभृतां वंशस्य शक्रस्य च ।
उद्वेल्लन्मलयाद्रिचन्दनलतास्वान्दोलनप्रक्रमे
यस्याद्यापि सविभ्रमं फणिवधूवृन्दैर्यशो गीयते ॥”
सोऽयमित्थङ्कारमुल्लिख्योपजीव्यमानो निःसीमाऽर्थसार्थः सम्प-
द्यते । “अस्तु नाम निःसीमाऽर्थसार्थः । किन्तु द्विरूप एवासौ विचा-
रितसुस्थोऽविचारितरमणीयश्च [इति]। तयोः पूर्वमाश्रितानि शा-
स्त्राणि तदुत्तरं काव्यानि” इत्याौद्भटाः । यथा—
“अपां लङ्घयितुं राशिं रुचा पिञ्जरयन्नभः ।
ज्वमुत्पपात हनुमान्नीलोत्पलदलद्युतिं ॥”
यथा वा—“त आकाशमसिश्याममुत्पत्य परमर्षयः ।
आसेदुरोषधिप्रस्थं मनसा समरंहसः ॥”
यथा च—“तदेव वारि सिन्धूनां महत्स्तेमार्चिषामिति” इत्यादि ॥
“न स्वरूपनिबन्धनमिदं रूपमाकाशस्य सरित्सलिलादेर्वा किन्तु
प्रतिभासनिबन्धनम् । न च प्रतिभासस्तादात्म्येन वस्तुन्यवतिष्ठते ।
यदि तथा स्यात्सूर्याचन्द्रमसोर्मण्डले दृष्ट्या परिच्छिद्यमानद्वादशाङ्गु-
लप्रमाणे पुराणाद्यागमनिवेदितधरावलयमात्रे न स्तः” इति यायाव-
रीयः। एवं नक्षत्रादीनां सरित्सलिलादीनामन्येषां च । यथाप्रतिभासं
च वस्तुनः स्वरूपं शास्त्रकाव्ययोर्निबन्धोपयोगि । शास्त्रे यथा—
१ A अस्तीको. २ V खन्दोलन. ३ C संल्लिख्योपजीव्यमानो. ४ B द्युतिः.
५ C दृष्ट्यपरिच्छिद्यमान.
नवमोऽध्यायः । ४५
“प्रशान्तजलभृत्पङ्के विमले वियदम्भसि ।
ताराकुमुदसम्बन्धे हंसायत इवोडुराट् ॥”
काव्यानि पुनरेतन्मयान्येव । “अस्तु नाम निःसीमाऽर्थसार्थः ।
किन्तु रसवत्त एव निबन्धो युक्तो न नीरसस्य” इत्यपराजितिः ।
यदाह—
“मज्जनपुष्पावचयनसन्ध्याचन्द्रोदयादिवाक्यमिह ।
सरसमपि नातिबहुलं प्रकृतरसानन्वितं रचयेत् ॥
यस्तु सरिद्रिसागरपुरतुरगरथादिवर्णने यत्नः ।
कविशक्तिख्यातिफलो विततधियां नो मतः स इह ॥”
‘आम्’ इति यायावरीयः । अस्ति चानुभूयमानो रसस्यानुगुणो
विगुणश्चार्थः, काव्ये तु कविवचनानि रसयन्ति विरसयन्ति च नार्थाः ।
अन्वयव्यतिरेकाभ्यां चेदमुपलभ्यते । तत्र सरिद्वर्णनरसवत्ता—
“एतां विलोकय तनूदरि ताम्रपर्णी—
मम्भानिधौ विवृतशुक्तिपुटोद्धृतानि ।
यस्याः पयांसि परिणाहिषु हारमूर्त्या
वामभ्रुवां परिणमन्ति पयोधरेषु ॥”
अद्रिवर्णनरसवत्ता—
“एतास्ता मलयोपकण्ठसरितामेणाक्षि रोधोभुव-
श्चौपाभ्यासनिकेतनं भगवतः प्रेयो मनोजन्मनः ।
यासु श्यामनिशासु पीततमसो मुक्तामयीश्चन्द्रिकाः
पीयन्ते विवृतोर्ध्वचञ्चु विचलत्कण्ठं चकोराङ्गनाः ॥”
सागरवर्णनरसवत्ता—
“धत्ते यत्किलकिञ्चितैकगुरुतामेणीदृशां वारुणी
वैधुर्यं विदधाति दम्पतिरुषां यच्चन्द्रिकार्द्रं नभः ।
यच्च स्वर्गसदां वयः स्मरसुहृन्नित्यं सदा सम्पदाम्
यल्लक्ष्मीरधिदैवतं च जलधेस्तत्कान्तमाचेष्टितम् ॥”
१ B अप. २ B omits तु. ३ B omits विरसयन्ति and reads न चार्थो
४ A तलोदरि. ५ B छाया.
२. कवि-विशेष व काव्य-पाक रहस्य (अध्याय ७-९)
४८ काव्यमीमांसायाम्
निबन्ध(न्धे)शुद्धः— “स्तिमितविकसितानामुल्लसद्भ्रूलतानां
मसृणमुकुलितानां प्रान्तविस्तारभाजाम् ।
प्रतिनयननिपाते किञ्चिदाकुञ्चितानां
सुचिरमहमभूवं पात्रमालोकितानाम् ॥”
५ चित्रः— “अलसवलितमुग्धस्निग्धनिष्पन्दमन्दै-
रधिकविकसदन्तर्विस्मयस्मेरतारैः ।
हृदयमशरणं मे पक्ष्मलाक्ष्याः कटाक्षै-
रपहृतमपविद्धं पीतमुन्मूलितं च ॥”
कथोत्थः— “अभिलाषमुदीरितेन्द्रियः
१० स्वसुतायामकरोत्प्रजापतिः ।
अथ तेन निगृह्य विक्रिया-
मभिशप्तः फलमेतदन्वभूत् ॥”
संविधानकभूः— “क्रोधं प्रभो संहर संहरेति
यावद्गिरः खे मरुतां चरन्ति ।
१५ तावत्स वह्निर्भवनेत्रजन्मा
भस्मावशेषं मदनं चकार ॥”
आख्यानकवान्— “पत्युः शिरश्चन्द्रकलामेनैन
स्पृशेति सख्या परिहासपूर्वम् ।
सा रञ्जयित्वा चरणौ कृताशी-
२० र्माल्येन तां निर्वचनं जघान ॥”
किञ्च संस्कृतवत्सर्वासपि भाषासु यथासामर्थ्यं यथारुचि यथा-
कौतुकं चावहितः स्यात् । शब्दार्थयोश्चाभिधानाभिधेयव्यापार-
प्रगुणतामवबुध्येत ।
तदुक्तम्—
i एकोऽर्थः संस्कृतोक्त्या ससुकविरचनः प्राकृतेनापरोऽस्मि-
न्न्योऽपभ्रंशगीर्भिः किमपरमपरो भूतभाषाक्रमेण ।
१ A संविभानभूः. २ B आख्यानवान्.
कविरहस्ये दशमोऽध्यायः । ४९
द्वित्राभिः कोऽपि वाग्भिर्भवति चतसृभिः किञ्च कश्चिद्विवेक्तुं
यस्येत्थं धीः प्रगल्भा स्नपयति सुकवेस्तस्य कीर्त्तिर्जगन्ति ॥१
इत्थङ्कारं घनै्यर्थैर्युत्पन्नमनसः कवेः ।
दुर्गमेऽपि भवेन्मार्गे कुण्ठिता न सरस्वती ॥
इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे
अर्थानुशासने अर्थव्याप्तिर्नवमोऽध्यायः ॥
दशमोऽध्यायः कविचर्या राजचर्या च ।
गृहीतविद्योपविद्यः काव्यक्रियायै प्रयतेत । नामधातुपारायणे,
अभिधानकोशः, छन्दोविचितिः, अलङ्कारतन्त्रं च काव्यविद्याः । क-
लास्तु चतुःषष्टिरुपविद्याः । सुजनोपजीव्यकविसन्निधिः, देशवार्ता, १०
विदग्धवादो, लोकयात्रा, विद्वद्गोष्ठ्यश्च काव्यमातरः पुरातनक-
विनिबन्धाश्च । किञ्च—
स्वास्थ्यं प्रतिभाऽभ्यासो भक्तिर्विद्वत्कथा बहुश्रुतता ।
स्मृतिदार्ढ्यमनिर्वेदश्च मातरोऽष्टौ कवित्वस्य ॥
अपि च नित्यं शुचिः स्यात् । त्रिधा च शौचं वाक्शौचं, मनः- १५
शौचं, कायशौचं च । प्रथमे शास्त्रजन्मनी । तार्तीयीकं तु सनख-
च्छेदौ पादौ, सताम्बूलं मुखं, सविलेपनमात्रं वपुः, महार्हमनुल्बणं
च वासः, सकुसुमं शिर इति । शुचि शीलनं हि सरस्वत्याः संव-
ननमामनन्ति । स यत्स्वभावः कविस्तदनुरूपं काव्यम् । यादृशाकार-
श्चित्रकरस्तादृशाकारमस्य चित्रमिति प्रायोवादः । स्मितपूर्वमभि- २०
भाषणं, सर्वत्रोक्तिगर्भमभिधानं सर्वतो रहस्यान्वेषणं, परकाव्यदूष-
णवैमुख्यमनभिहितस्य, अभिहितस्य तु यथार्थमभिधानम् ।
तस्य भवनं सुसंसृष्टं, ऋतुषट्कोचितविविधस्थानं, अनेकतरुमू-
लकल्पितापाश्रयवृक्षवाटिकं, सक्रीडापर्वतकं, सदीर्घिकापुष्करि-
१ B प्रपन्ना.
५० काव्यमीमांसायाम्
णीकं, ससरित्समुद्रावर्त्तकं, सकुल्याप्रवाहं, सबर्हिणहरिणहारीतं,
ससारसचक्रवाकहंसं, सचकोरक्रौञ्चकुररशुकसारिकं, घर्मक्लान्ति-
चौरं, संभूमिधारागृहयन्त्रलतामण्डपकं, सदोलाप्रेङ्खं च स्यात् ।
काव्याभिनिवेशखिन्नस्य मनसस्तद्विनिर्वेदच्छेदायाज्ञामूकपरिजनं
विजनं वा तस्य स्थानम् । अपभ्रंशभाषणप्रवणः परिचारकवर्गः,
समागधभाषाभिनिवेशिन्यः परिचारिकाः । प्राकृतसंस्कृतभाषाविद्
आन्तःपुरिकाः, मित्राणि चास्य सर्वभाषाविन्दि भवेयुः । सदःसं-
स्कारविशुद्ध्यर्थं सर्वभाषाकुशलः, शीघ्रवाक्, चार्वक्षरः, इङ्गिता-
कारवेदी, नानालिपिज्ञः, कविः, लाक्षणिकश्च लेखकः स्यात् । तद्-
सन्निधावतिरात्रादिषु पूर्वोक्तानामन्यतर(मः) ।
स्वभवने हि भाषानियमं यथा प्रभुर्विदधाति तथा भवति ।
श्रूयते हि मगधेषु शिशुनागो नाम राजा; तेन दुरुच्चारानष्टौ
वर्णानपास्य स्वान्तःपुर एव प्रवर्त्तितो नियमः, टकारादयश्चत्वारो
मूर्द्धन्यास्तृतीयवर्जमूष्माणस्त्रयः षकारश्चेति ।
श्रूयते च सूरसेनेषु कुविन्दो नाम राजा; तेन परुषसंयोगाक्षर-
वर्जमन्तःपुर एवेति समानं पूर्वेण ।
श्रूयते च कुन्तलेषु सातवाहनो नाम राजा; तेन प्राकृतभाषात्म-
कमन्तःपुर एवेति समानं पूर्वेण ।
श्रूयते चोज्जयिन्यां साहसाङ्को नाम राजा; तेन च संस्कृतभाषा-
त्मकमन्तःपुर एवेति समानं पूर्वेण ।
तस्य सम्पुटिका सफ़लकग्वटिका, समुद्गकः, सलेखनीकमषी-
भाजनानि ताडिपत्राणि भूर्जत्वचो वा, सलोहकण्टकानि तालद-
लानि, सुसम्मृष्टा भित्तयः, सततसन्निहिताः स्युः । “तद्धि काव्यवि-
द्यायाः परिकरः” इत्याचार्याः । “प्रतिभैव परिकरः” इति याया-
वरीयाः ।
“कविः प्रथममात्मानमेव कल्पयेत्; कियान्मे संस्कारः, क भाषा-
विषये शक्तोऽस्मि, किंरुचिलोकः परिवृढो वा, कीदृशि गोष्ठ्यां
१ BC सम्भूतिधारागृह० २ B सौरसेनेषु. ३ BC कयिन्दो. ४ B omits च.
५ B फलक. ६ B समुद्गक. ७ A सलेखनी B सलेखनीयक.
कविरहस्ये दशमोऽध्यायः । ५१
विनीतः¹, कस्य वा चेतः संसजत इति बुद्ध्वा भाषाविशेषमाश्रयेत"
इत्याचार्याः । "एकदेशकवेरियं नियमतन्त्रणा, स्वतन्त्रस्य पुनरेक-
भाषावत्सर्वा अपि² भाषाः स्युः" इति यायावरीयः । देशविशेषव-
शेन च भाषाश्रयणं दृश्यते । तदुक्तम्—
"गौडाद्याः संस्कृतस्थाः परिचितरुचयः प्राकृते लाटदेश्याः
सापभ्रंशप्रयोगाः सकलमरुभुवष्टक्कभादानकाश्च ।
आवन्त्याः पारियात्राः सह दशपुरजैर्भूतभाषां भजन्ते
यो मध्येमध्यदेशं निवसति स कविः सर्वभाषानिषण्णः ॥"
जानीयाल्लोकसाम्मत्यं कविः कुत्र ममेति च ।
असम्रमतं परिहरेन्मतेऽभिनिविशेत च ॥
जनापवादमात्रेण न जुगुप्सेत चात्मनि ।
जानीयात्स्वयमात्मानं यतो लोको निरङ्कुशः ॥
गीतसूक्तिरतिक्रान्ते स्तोता देशान्तरस्थिते ।
प्रत्यक्षे तु कवौ लोकः सावज्ञः सुमहत्यपि ॥
³प्रत्यक्षकविकाव्यं च रूपं च कुलयोषितः ।
गृहवैद्यस्य विद्या च कस्मैचिद्यदि रोचते ॥
इदं महाहासकरं विचेष्टितं
परोक्तिपाटच्चरतारतोऽपि यत् ।
सदुक्तिरत्नाकरतां गतान्कवीन्
कवित्वमात्रेण समेन निन्दति ॥
वचः स्वादु सतां लेह्यं लेशस्वाद्वपि कौतुकात् ।
बालस्त्रीहीनजातीनां काव्यं याति मुखान्मुखम् ॥
कार्यावसरसज्जानां परिव्राजां महीभुजाम् ।
काव्यं सद्यः कवीनां च भ्रमल्यह्ना दिशो दश ॥
पितुर्गुरोर्नरेन्द्रस्य सुतशिष्यपदातयः ।
अविविच्यैव काव्यानि स्तुवन्ति च पठन्ति च ॥
१ A विनीतोऽस्मि. २ B omits अपि. ३ B प्रत्यक्षं तु कविकाव्यं.
५२ काव्यमीमांसायाम्
किञ्च¹ नाङ्गीकृतं पठेद्यसमाप्तिस्तस्य फलमिति कविरहस्यम् । न
नवीनमेकाकिनः पुरतः । स हि स्वीयं ब्रुवाणः कतरेण साक्षिणा
जीयेत । न च स्वकृतिं बहु मन्येत² । पक्षपातो हि गुणदोषौ विप-
र्यासयति । न च दृप्येत् । दर्पलवोऽपि सर्वसंस्कारानुच्छिनत्ति । प-
रैश्च परीक्षयेत् । यदुदासीनः पश्यति न तदनुष्ठातेति प्रायो वादः ।
कविमानिनं तु छन्दोऽनुवर्त्तनेन³ रञ्जयेत् । कविम्मन्यस्य हि पुरतः
सूक्तमरण्यरुदितं स्याद्विप्लवेत च । तदाह—
"इदं हि वैदग्ध्यरहस्यमुत्तमं
पठेन्न सूक्तिं कविमानिनः पुरः ।
न केवलं तां न विभावयत्यसौ
स्वकाव्यबन्धेन विनाशयत्यपि ॥”
अनियतकालाः प्रवृत्तयो विप्लवन्ते तस्माद्दिवसं निशां च यामक्र-
मेण चतुर्द्धा विभजेत् । स प्रातरुत्थाय कृतसन्ध्यावरिवस्यः सार-
स्वतं सूक्तमधीयीत । ततो विद्यावसथे यथासुखमासीनः काव्यस्य
विद्या उपविद्याश्चानुशीलयेदाप्रहरात् । न ह्येवंविधमन्यत्प्रतिभा-
हेतुर्यथा प्रत्यग्रसंस्कारः । द्वितीये काव्यक्रियाम् । उपमध्याह्नं स्नाया-
दविरुद्धं भुञ्जीत च । भोजनान्ते काव्यगोष्ठीं प्रवर्त्तयेत् । कदाचिच्च
प्रश्नोत्तराणि भिन्दीत । काव्यसमस्याधारणा, मातृकाभ्यासः, चित्रा
योगा इत्यायामत्रयम् । चतुर्थ एकाकिनः परिमितपरिषदो वा पूर्वा-
ह्णभागविहितस्य काव्यस्य परीक्षा । रसावेशतः काव्यं विरचयतो
न च विवेकी दृष्टिस्तस्मादनुपरीक्षेत⁴ । अधिकस्य त्यागो, न्यूनस्य
पूरणम्, अन्यथास्थितस्य परिवर्त्तनं, प्रस्मृतस्यानुसन्धानं च ।
इत्यहीनम् ।
सायं सन्ध्यामुपासीत सरस्वतीं च । ततो दिवा विहितपरी-
क्षितस्याभिलेखनमाप्रदोषात् । यावदार्त्ति श्रियमभिमन्येत । द्विती-
यतृतीयौ साधु शयीत । सम्यक्स्वापो वपुषः परमारोग्याय । चतुर्थे
सप्रयत्नं प्रतिबुध्येत । ब्राह्मे मुहूर्त्ते मनः प्रसीदत्तांस्तानर्थानध्य-
क्षयति । इत्याहोरात्रिकम् ।
१ B omits किञ्च. २ B मन्येत्. ३ B छन्दानु. ४ B तस्मात्तदनु परीक्षयेत्.
५ A परीक्षकाः
कविरहस्ये दशमोऽध्यायः । ५३
चतुर्विधश्चासौ; असूर्यम्पश्यो, निष्षण्णो, दत्तावसरः, प्रायोजनि-
कश्च [इति]। यो गुहागर्भभूमिगृहादिप्रवेशान्नष्ठिकवृत्तिः कवते असा-
वसूर्यम्पश्यः। तस्य सर्वे कालाः। यः काव्यक्रियायामभिनिविष्टः
कवते न च नैष्ठिकवृत्तिः स निष्षण्णः। तस्यापि त एव कालाः। यः
सेवादिकमविरुन्धानः कवते स दत्तावसरः। तस्य कतिपये कालाः। 5
निशायास्तुरीयो यामार्द्धः। स हि सारस्वतो मुहूर्त्तः। भोजनान्तः।
सौहित्यं हि स्वास्थ्यमुपस्थापयति। व्यवायोपरमः। यदार्त्तिविनिवृ-
त्तिरेकमेकाग्रतायतनम्। याप्ययानयात्रा। विषयान्तरविनिवृत्तं
हि चित्तं यत्र यत्र प्रणिधीयते तत्र² तत्र गडूचीलागं लगति। यदा
यदा चात्मनः क्षणिकतां मन्यते स स काव्यकरणकालः। यस्तु 10
प्रस्तुतं किञ्चन संविधानकमुद्दिश्य कवते, स प्रायोजनिकः। तस्य
³प्रयोजनवशात्कालव्यवस्था। बुद्धिमदाहार्यबुद्ध्योरियं नियममुद्रा।
औपदेशिकस्य पुनरिच्छैव। सर्वे कालाः सर्वाश्च नियममुद्राः।
पुरुषवत् योषितोऽपि कवीभवेयुः। संस्कारो ह्यात्मनि समवैति, न
स्त्रैणं पौरुषं वा विभागमपेक्षते। श्रूयन्ते दृश्यन्ते च⁴ राजपुत्र्यो महा- 15
मात्रदुहितरो गणिकाः कौतुकिभार्याश्च शास्त्रप्रहृत⁵बुद्धयः कवयश्च।
सिद्धं च प्रबन्धमनेकादर्शगतं कुर्यात्। यदित्थं कथयन्ति—
“निक्षेपो विक्रयो दानं देशत्यागोऽल्पजीविता।
⁶त्रुटिको वह्निरम्भश्च प्रबन्धोच्छेदहेतवः॥
दारिद्र्यं व्यसनासक्तिरवज्ञा मन्दभाग्यता। 20
दुष्टे द्विष्टे च विश्वासः पञ्च काव्यमहापदः॥” [इति]
पुनः समापयिष्यामि, पुनः संस्करिष्यामि, सुहृद्भिः सह विवेच-
यिष्यामीति कर्तुराकुलता राष्ट्रोपप्लवश्च प्रबन्धविनाशकारणानि।
अहर्निशाविभागेन य इत्थं कवते कृती।
एकावलीव तत्काव्यं सतां कण्ठेषु लम्बते॥ 25
१ Explained in A as डिबिकागमनं. २ B omits one यत्र and one तत्र.
३ C प्रयोजक०. ४ B omits च. ५ B प्रहि. ६ A त्रुटिमो.
५४ काव्यमीमांसायाम्
यथा यथाऽभियोगश्च संस्कारश्च भवेत्कवेः ।
तथा तथा निबन्धानां तारतम्येन रम्यता ॥
मुक्तके कवयोऽनन्ताः सङ्घाते कवयः शतम् ।
महाप्रबन्धे तु कविरेको द्वौ दुर्लभास्त्रयः ॥
५ अत्राह स्म¹—"बह्वपि स्वेच्छया कामं प्रकीर्णमभिधीयते ।
अनुज्झितार्थसम्बन्धः प्रबन्धो दुरुदाहरः ॥” [इति]
रीतिं विचिन्त्य विगणय्य गुणान्विगाह्य
शब्दार्थसार्थमनुसृत्य च सूक्तिमुद्राः ।
कार्यो निबन्धविषये विदुषा प्रयत्नः
१० के पोतयन्त्ररहिता जलधौ प्लवन्ते ॥
लीढाभिधोपनिषदां सविधे बुधाना-
मभ्यस्यतः प्रतिदिनं बहुदृश्वनोऽपि ।
किञ्चित्कदाचन कथञ्चन सूक्तिपाका-
द्धक्तत्त्वमुन्मिषति कस्यचिदेव पुंसः ॥
१५ इत्यनन्यमनोवृत्तेर्निःशेषेऽस्य क्रियाक्रमे ।
एकपत्नीव्रतं धत्ते कवेर्देवी सरस्वती ॥
सिद्धिः सूक्तिषु सा तस्य जायते जगदुत्तरा ।
मूलच्छायां² न जानाति यस्याः सोऽपि गिरां गुरुः ॥
राजा कविः कविसमाजं विदधीत । राजनि कवौ सर्वो लोकः कविः
२० स्यात् । स काव्यपरीक्षायै सभां कारयेत् । सा षोडशभिः स्तम्भै-
ऋर्तुभिर्द्वारैरष्टभिर्मत्तवारणीभिरुपेता स्यात् । तदनुलग्नं राज्ञः केलि-
गृहम् । मध्येसभां चतुःस्तम्भान्तरा हस्तमात्रोत्सेधा समणिभूमिका
वेदिका । तस्यां राजासनम् । तस्य चोत्तरतः संस्कृताः कवयो निवि-
शेरन् । बहुभाषाकवित्वे यो यत्राधिकं प्रवीणः स तेन व्यपदिश्यते ।
२५ यस्त्वनेकत्र प्रवीणः स सङ्क्रम्य तत्र तत्रोपविशेत् । ततः परं वेदवि-
द्याविदः प्रामाणिकाः पौराणिकाः स्मार्त्ता भिषजो मौहूर्त्तिका अन्ये-
ऽपि तथाविधाः । पूर्वेण प्राकृताः कवयः; ततः परं नटनर्त्तकगायन-
१ B omits स्म. २ B मूल्यच्छायां.
कविरहस्ये दशमोऽध्यायः । ५५
वादनवाग्जीवनकुशीलवतालावचरा अन्येऽपि तथाविधाः । पश्चि-
मेनापभ्रंशिनः कवयः; ततः परं चित्रलेप्यकृतो माणिक्यबन्धका
वैकटिकाः स्वर्णकारवर्द्धकिलोहकारा अन्येऽपि तथाविधाः । दक्षिणतो
भूतभाषाकवयः; ततः परं भुजङ्गा गणिकाः प्लवकशौभिकजम्भक-
मल्लाः शस्त्रोपजीविनोऽन्येऽपि तथाविधाः ।
तत्र यथासुखमासीनः काव्यगोष्ठीं प्रवर्त्तयेत् भावयेत्परीक्षेत च ।
वासुदेवसातवाहनशूद्रकसाहसाङ्कादीन्सकलान्सभापतीन्दानमाना-
भ्यामनुकुर्यात् । तुष्टपुष्टाश्चास्य सभ्या भवेयुः, स्थाने च पारितो-
षिकं लभेरन् । लोकोत्तरस्य काव्यस्य च यथार्हा पूजा कवेर्वा ।
अन्तरान्तरा च काव्यगोष्ठीं शास्त्रवादाननुजानीयात् । मध्वपि नाॅन-
वदंशं स्वदते । काव्यशास्त्रविरतौ विज्ञानिष्वभिरमेत । देशान्तरा-
गतानां च विदुषामैन(न्य)द्वारा सङ्गं कार(म)येदौचित्याद्यावस्थिति
पूजां च । वृत्तिकामांश्चोपजंपेत् सङ्गृह्णीयाच्च । पुरुषरत्नानामेक एव
राजोदन्वान्भाजनम् । राजचरितं च राजोपजीविनोऽप्यनुकुर्य्युः ।
राज्ञ एव ह्यसावुपकारो यद्राजोपजीविनां संस्कारः ।
महानगरेषु च काव्यशास्त्रपरीक्षार्थं ब्रह्मसभाः कारयेत् । तत्प-
रीक्षोत्तीर्णानां ब्रह्मरथयानं पट्टबन्धश्च । श्रूयते चोज्जयिन्यां काव्य-
कारपरीक्षा—
“इह कालिदासमेण्ठावत्रामररूपसूरभारवयः ।
हरिचन्द्रचन्द्रगुप्तौ परीक्षिताविह विशालायाम् ॥”
श्रूयते च पाटलिपुत्रे शास्त्रकारपरीक्षा—
“अत्रोपवर्षवर्षाविह पाणिनिपिङ्गलाविह व्याडिः ।
वररुचिपतञ्जली इह परीक्षिताः ख्यातिमुपजग्मुः ॥”
इत्थं सभापतिर्भूत्वा यः काव्यानि परीक्षते ।
यशस्तस्य जगद्व्यापि स सुखी तत्र तत्र च ॥
इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे
कविचर्या राजचर्या च दशमोऽध्यायः ॥
१ B वादनाज्जीवन. २ B वैगडिक. ३ B नानवरं दंशं. ४ B मन. ५ उपजयेत्.
६ A महाकाव्य.
५६ काव्यमीमांसायाम्
एकादशोऽध्यायः शब्दहरणम्।
परप्रयुक्तयोः शब्दार्थयोरुपनिबन्धो हरणम्। तद्द्विधा परित्याज्य-
मनुग्राह्यं च। तयोः शब्दहरणमेव तावत्पञ्चधा पदतः, पादतः,
अर्द्धतः, वृत्ततः, प्रबन्धतश्च [इति]। “तत्रैकपदहरणं न दोषाय” इत्या-
चार्याः। “अन्यत्र द्व्यर्थपदात्” इति यायावरीयः। तत्र श्लिष्टस्य
श्लिष्टपदेन हरणम्—
“दूराकृष्टशिलीमुखव्यतिकरान्नो किं किरातानिमा-
नाराद्ध्यावृतपीतलोहितमुखान्किं वा पलाशानपि।
पान्थाः केसरिणं न पश्यत पुरोऽप्येनं वसन्तं वने
मूढा रक्षत जीवितानि शरणं यात प्रियां देवताम् ॥”
यथा च—“मा गाः पान्थ प्रियां त्यक्त्वा दूराकृष्टशिलीमुखम्।
स्थितं पन्थानमावृत्य किं किरातं न पश्यसि ॥”
श्लिष्टपदैकदेशेन हरणम्—
“नाश्चर्यं यदनार्याप्तावस्तप्रीतिरयं मयि।
मांसोपयोगं कुर्वीत कथं क्षुद्रहितो जनः ॥”
यथा च—“कोपान्मानिनि किं स्फुरत्यतितरां शोभाधरस्तेऽधरः
किं वा चुम्बनकारणाद्दयित नो वायौर्विकारादयम्।
तस्मात्सुभ्रु सुगन्धिमाहितरसं स्निग्धं भजस्वादरा-
न्मुग्धे मां सरसं ब्रुवन्निति तया गाढं समालिङ्गितः॥”
श्लिष्टस्य यमकेन हरणम्—“हलमपारपयोनिधिविस्तृतं
प्रहरता हलिना समराङ्गणे।
निजयशश्च शशाङ्ककलामलं
निरवधीरिताकुलमासुरम् ॥”
यथा च—“दलयता विशिखैर्बलमुन्मदं
निरवधीरिताकुलमासुरम्।
दशसु दिक्षु च तेन यशः सितं
निरवधीरिताकुलमासुरम् ॥”
१ A पुरः, २ V मुक्त्वा. ३ B चुंबनकारणादपि तनोर्वायोर्विकारादयं.
कविरहस्ये एकादशोऽध्यायः। ५७
श्लिष्टस्य प्रश्नोत्तरेण हरणम्—
“यस्यां भुजङ्गवर्गः कर्णायतेक्षणं कामिनीवदनं च ”
यथा च—“किं करोति कियत्कालं वेश्यावेश्मनि कामुकः।
कीदृशं वदनं वीक्ष्य तस्याः कर्णायतेक्षणम्॥”
यमकस्य यमकेन हरणम्—
“वरदाय नमो हरये पतति जनो यं स्मरन्नपि न मोहरये।
बहुशश्चक्रन्द हतां मनसि दितिर्येन दैत्यचक्रं दहता॥”
यथा च—चक्रं दहतारं चक्रन्द हतारम्।
खड्गेन तवाजौ राजन्नरिनारी॥
एवमन्योन्यसमन्वये¹ऽन्येऽपि भेदाः।
नन्विदमुपदेश्यमेव न भवति।
यदित्थं कथयन्ति—“पुंसः कालातिपातेन चौर्यमन्यद्विशीर्यति।
अपि पुत्रेषु पौत्रेषु वाक्चौर्यं च² न शीर्यति॥”
“अयमप्रसिद्धः प्रसिद्धिमानहम्, अयमप्रतिष्ठः प्रतिष्ठावानहम्,
अप्रक्रान्तमिदमस्य संविधानकं प्रक्रान्तं मम, गुडूचीवचनोऽयं मृद्वी-
कावचनोऽहम्, अनादृतभाषाविशेषोऽयमहमादृतभाषाविशेषः, प्र-
शान्तज्ञातृकमिदं, देशान्तरितकर्त्तृकमिदम्, उ³च्छ(त्स)न्ननिबन्धन-
मूलमिदं, म्लेच्छितकोपोनिबन्धनमूलमिदमित्येवमादिभिः कारणैः
शब्दहरणेऽर्थहरणे वा⁴भिरमेत” इत्यवन्तिसुन्दरी।
“त्रिभ्यः पदेभ्यः प्रभृति त्वश्लिष्टेभ्यो हरणम्” इत्याचार्याः।
यथा—“स पातु वो यस्य जटाकलापे
स्थितः शशाङ्कः स्फुटहारगौरः।
नीलोत्पलानामिव नालपुञ्जे
निद्रायमाणः शरदीव हंसः॥”
यथा च—“स पातु वो यस्य हतावशेषा-
स्तत्तुल्यवर्णाञ्जनरञ्जितेषु।
लावण्ययुक्तेष्वपि वित्रसन्ति
दैत्याः स्वकान्तानयनोत्पलेषु॥”
१ B अन्योन्यसंबन्धादन्येपि भेदाः. २ V न विशीर्यते. ३ V उत्सन्न. ४ A चा.
५८ काव्यमीमांसायाम्
“न” इति यायावरीयः । उल्लेखवाग्वदसन्दर्भः परिहरणीयः
प्रत्यभिज्ञायातः पादोऽपि । तस्यापि साम्येन किञ्चन दुष्टं स्यात् ।
यथा- “इत्युक्तवानुक्तिविशेषरम्यं
मनः समाधाय जयोपपत्तौ ।
उदारचेता गिरमित्युदारां
द्वैपायनेनाभिदधे नरेन्द्रः ॥”
यथा च— “इत्युक्तवानुक्तिविशेषरम्यं
रामानुजन्मा विरराम मानी ।
सङ्क्षिप्तमाप्तावसरं च वाक्यं
सेवाविधिज्ञैः पुरतः प्रभूणाम् ॥”
उल्लेखवान्यथा- “नमः संसारनिर्वाणविषामृतविधायिने ।
सप्तलोकोर्मिभङ्गाय शङ्करक्षीरसिन्धवे ॥”
यथा च— “प्रसरद्विन्दुनादाय शुद्धामृतमयात्मने ।
नमोऽनन्तप्रकाशाय शङ्करक्षीरसिन्धवे ॥”
“पाद एवान्यथात्वकरणकारणं न हरणम्, अपि तु स्वीकरणम्”
इत्याचार्याः ।
यथा- “त्यागाधिकाः स्वर्गमुपाश्रयन्ते
त्यागेन हीना नरकं व्रजन्ति ।
न त्यागिनां किञ्चिदसाध्यमस्ति
त्यागो हि सर्वव्यसनानि हन्ति ॥”
यथा च— “त्यागो हि सर्वव्यसनानि हन्ती-
त्यलीकमेतद्भुवि सम्प्रतीतम् ।
जातानि सर्वव्यसनानि तस्या-
स्त्यागेन मे मुग्धविलोचनायाः ॥”
तदिदं स्वीकरणापरनामधेयं हरणमेव । तद्वदूर्द्धमयोगेऽपि । यथा—
१ AB नाप्रत्यभिज्ञायातः.
कविरहस्ये एकादशोऽध्यायः । ५९
“पादस्ते नरवर दक्षिणे समुद्रे
पादोऽन्यो हिमवति हेमकूटलग्ने ।
आक्रामत्यलघु महीतलं त्वयीत्थं
भूपालाः प्रणतिमपास्य किन्नु कुर्युः ॥”
यथा चोत्तरार्द्धे¹—“इत्थं ते विधृतपदद्वयस्य राज-
न्नाश्चर्यं कथमिव सीधनी न भिन्ना ॥”
एवं व्यस्तार्द्धप्रयोगेऽपि² । यथा—
“तत्तावदेव शशिनः स्फुरितं महीयो
यावन्न तिग्मरुचिमण्डलमभ्युदेति ।
अभ्युद्गते³ सकलधामनिधौ⁴ तु तस्मि-
न्निन्दोः सिताभ्रशकलस्य च को विशेषः ॥”
यथा च—“तत्तावदेव शशिनः स्फुरितं महीयो
यावन्न किञ्चिदपि गौरतरा हसन्ति ।
ताभिः पुनर्विहसिताननपङ्कजाभि-
रिन्दोः सिताभ्रशकलस्य च को विशेषः ॥”
पादे⁵ एवान्यथात्वकरणं न स्वीकरणं पादोनहरणं वा । यथा—
“अरण्ये निर्जने रात्रावन्तर्वेश्मनि साहसे ।
न्यासापह्नवने चैव दिव्या सम्भवति क्रिया ॥”
यथा चोत्तरार्द्धे—
“तन्वङ्गी यदि लभ्येत दिव्या सम्भवति क्रिया ।”
यथा वा—“यस्य केशेषु जीमूता नद्यः सर्वाङ्गसन्धिषु ।
कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः ॥”
यथा चोत्तरार्द्धे—“कुक्षौ समुद्राश्चत्वारः स सहेत स्वरानलम् ॥”
भिन्नार्थानां तु पादानामेकेन पादेनान्वयनं कवित्वमेव । यथा—
————————————————————————————————————————————
१ B चोत्तरार्द्धं. २ A प्रयोगोपि. ३ B अभ्युद्यते. ४ V S तुहिनधामनिधौ. ५ A पादा.
६० काव्यमीमांसायाम्
“किमिह किमपि दृष्टं स्थानमस्ति श्रुतं वा
व्रजति दिनकरोऽयं यत्र नास्तं कदाचित्।
भ्रमति विहगसार्थानित्थमापृच्छमानो
रजनिविरहभीतश्चक्रवाको वराकः॥”
यथा च—“जयति सितविलोल्व्यालयज्ञोपवीती
घनकपिलजटान्तर्भ्रान्तगङ्गाजलौघः।
अविदितमृगचिह्नामिन्दुलेखां दधानः
परिणतशितिकण्ठश्यामकण्ठः पिनाकी॥”
यथा च—“कुमुदवनमपश्री श्रीमदम्भोजखण्डं
त्यजति मद²मुलूकः प्रीतिमांश्चक्रवाकः।
उदयमहिमरश्मिर्याति शीतांशुदस्तं
हतविधिललितानां ही विचित्रो विपाकः॥”
यथा³ च—“किमिह किमपि दृष्टं स्थानमस्ति श्रुतं वा
घनकपिलजटान्तर्भ्रान्तगङ्गाजलौघः।
निवसति स⁵ पिनाकी यत्र यायां त⁴दस्मिन्
हतविधिललितानां ही विचित्रो विपाकः॥”
पादोनवतकतिपयपदप्रयोगोऽपि। यथा—
“या व्यापारवती रसान् रसयितुं काचित्कवीनां नवा
दृष्टिर्या परिनिष्ठितार्थविषयोन्मेषा च वैपश्चिती।
ते द्वे अप्यवलम्ब्य विश्वमनिशं निर्वर्णयन्तो वयं
श्रान्ता नैव च लब्धमब्धिशयन त्वद्भक्तितुल्यं सुखम्॥”
यथा च चतुर्थपादे—
“श्रान्ता नैव च लब्धमुत्पलदृशां प्रेम्णः समानं सुखम्॥”
पादैकदेशग्रहणमपि पदैकदेशोपलक्षणपरम्। यथा—
“असकलहसितत्वात्क्षालितानीव कान्त्या
मुकुलितनयनत्वाद्व्यक्तकर्णोत्पलानि।
१ शितिकण्ठः. २ V मुद. ३ A omits यथा च. ४ B न. ५ V सर्वशं.
कविरहस्ये एकादशोऽध्यायः । ६१
पिबति मधुसुगन्धीन्याननानि प्रियाणां
त्वयि विनिहितभारः कुन्तलानामधीशः ॥”
यथा वोत्तरार्धे—“पिबतु मधुसुगन्धीन्याननानि प्रियाणां
मयि विनिहितभारः कुन्तलानामधीशः ॥”
वाक्यस्यान्यथा व्याख्यानमपि न स्वीकरणं हरणं वा । यथा— ५
“सुभ्रु त्वं कुपितेत्यपास्तमशनं त्यक्ता कथा योषितां
दूरादेव मयोज्झिताः सुरभयः स्रग्दाम(गन्ध)धूपादयः ।
कोपं रागिणि मुञ्च मय्यवनते दृष्टे प्रसीदाधुना
सद्यस्त्वद्विरहाद्भवन्ति दयिते सर्वा ममान्धा दिशः ॥”
एतच्च कान्ताप्रसादनपरं वाक्यं कुपितदृष्टिपरतया व्याख्यातं १०
न स्वीकृतं हृतं वा । यत्तु परकीयं स्वीयमिति प्रोक्तानामन्यतमेन
कारणेन विलपन्ति, तन्न केवलं हरणम्, अपि तु दोषोदाहरणम् ।
मुक्तकप्रबन्धविषयं तत् । मूल्यक्रयोऽपि हरणमेव । वरमप्रसिद्ध्य-
शसो न पुनैर्दुर्यशः ।
सभापतिस्तु द्विधा, उपजीव्य, उपजीवकश्च [इति] । तत्रोपजी- १५
वनमात्रेण न कश्चिद्दोषः । यतः सर्वोऽपि परेभ्य एव व्युत्पद्यते ।
केवलं तत्र समुदायो गुरुः । “तद्दुक्तिहरणम्” इत्याचार्याः ।
यथा—“ऊरुद्वन्द्वं सरसकदलीकाण्डसब्रह्मचारि ।”
यथा च—“ऊरुद्वयं कदलीकन्दलयोः सवंशं २०
श्रोणिः शिलाफलकसोदरसन्निवेशा ।
वक्षः स्तनद्वितयताडितकुम्भशोभं
सब्रह्मचारि शशिनश्च मुखं मृगाक्ष्याः ॥”
“उक्तयो ऽर्थान्तरसङ्क्रान्ता न प्रत्यभिज्ञायन्ते, स्वदन्ते च; तद्-
र्थास्तु हरणादपि हरणं स्युः” इति यायावरीयः ।
“नास्त्यचौरः कविजनो नास्त्यचौरो वणिग्जनः । २५
स नन्दति बिना वाच्यं यो जानाति निगूहितुम् ॥
१ A omits नं. २ B प्रोक्त्वा नान्यतमेनकर. ३ B न तु दु. ४ B कदलि०. ५ A सदंशं.
६२ काव्यमीमांसायाम्
उत्पादकः कविः कश्चित्कश्चिच परिवर्त्तकः ।
आच्छादकस्तथा चान्यस्तथा संवर्गकोऽपरः ॥
शब्दार्थोक्तिषु यः पश्येदिह किञ्चन नूतनम् ।
उल्लिखेत्किञ्चन प्राच्यं मन्यतां स महाकविः ॥”
५ इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे
एकादशोऽध्यायः शब्दहरणानि ॥
द्वादशोऽध्यायः शब्दार्थहरणेपु कविप्रभेदाः प्रति-
बिम्बकल्पविकल्पस्य च समीक्षा ।
“पुराणकविक्षुण्णे वर्त्मनि दुरापमस्पृष्टं वस्तु, ततश्च तदेव संस्कर्र्तु
१०प्रयतेत” इत्याचार्याः । “न” इति वाक्पतिराजः ।
“आसंसारमुदारैः कविभिः प्रतिदिनगृहीतसारोऽपि ।
अद्याप्यभिन्नमुद्रो विभाति वाचां परिस्पन्दः ॥”
“तत्प्रतिभासाय च परप्रबन्धेष्ववदधीत । तदवगाहने हि तदे-
कयोनयोऽर्थाः पृथक्पृथक् प्रथन्ते” इत्येके । “तत्रत्यानामर्थानां छा-
१५ यया परिवृत्तिः फलम्” इत्यपरे । “महात्मनां हि संवादिन्यो बुद्धय
एकमेवार्थमुपस्थापयन्ति, तत्परित्यागाय तानाद्रियेत” इति च
केचित् । “न” इति यायावरीयः । सारस्वतं चक्षुरवाङ्मनसगोचरेण
प्रणिधानेन दृष्टमदृष्टं चार्थजातं स्वयं विभजति ।
तदाहुः—सुप्तस्यापि महाकवेः शब्दार्थौ सरस्वती दर्शयति। तदि-
२० तरस्य तत्र जाग्रतोऽप्यन्धं चक्षुः । अन्यदृष्टचरे ह्यर्थे महाकवयो
जात्यन्धाः । तद्विपरीते तु दिव्यदृशः । न तत् त्र्यक्षः सहस्राक्षो वा
यच्चर्मचक्षुषोऽपि कवयः पश्यन्ति । मतिदर्पणे कवीनां विश्वं प्रति-
फलति । कथं नु वयं दृश्यामह इति महात्मनामहंपूर्विकयैव श-
ब्दार्थाः पुरो धावन्ति । यत्सिद्धप्रणिधाना योगिनः पश्यन्ति, तन्न
१ Explained in C as अनेककाव्यार्थग्राही. B संवर्ध. २ B तत्रस्या०. ३ A वा.
४ B omits अन्य.
कविरहस्ये द्वादशोऽध्यायः । ६३
वाचां विचरन्ति कवयः इत्यनन्ता महाकविषु ^१सृ(विसृ)क्तयः[इति]
“समस्तमस्ति” इति यायावरीयः । किन्तु त्रिपथमिममभ्यगीष्महि ·
यदुतान्ययोनिर्निह्नुतयोनिरयोनिश्च[इति] । तत्रान्ययोनिर्द्विधा प्र-
तिबिम्बकल्प, आलेख्यप्रख्यश्च [इति]। निह्नुतयोनिरपि द्विधा तु-
ल्यदेहितुल्यः परपुरप्रवेशसदृशश्च [इति]। ^२अयोनिः पुनरेकादश(?) ५
एव । तत्र—
अर्थः स एव सर्वो वाक्यान्तरविरचना परं यत्र ।
तदपरमार्थविभेदं काव्यं प्रतिबिम्बकल्पं स्यात् ॥
यथा— “ते पान्तु वः पशुपतेरलिनीलभासः
कण्ठप्रदेशघटिताः फणिनः स्फुरन्तः । १०
चन्द्रामृताम्बुकणसङ्गसमुत्प्ररूढ-
यैरङ्कुरैरिव विराजति कालकूटः ॥”
यथा च—“जयन्ति नीलकण्ठस्य नीलाः कण्ठे महाहयः ।
गलद्गङ्गाम्बु^३संसिक्तकालकूटाङ्कुरा इव ॥
कियताऽपि यत्र संस्कारकर्मणा वस्तु भिन्नवद्भाति । १५
तत्कथितमर्थचतुरैरालेख्यप्रख्यमिति काव्यम् ॥
तत्रैवार्थे यथा—
“जयन्ति धवलव्यालाः शम्भोजूटावलम्बिनः ।
गलद्गङ्गाम्बुसंसिक्तचन्द्रकन्दाङ्कुरा इव ॥”
विषयस्य यत्र भेदेऽप्यभेदबुद्धिर्नितान्तसादृश्यात् । २०
तत्तुल्यदेहितुल्यं काव्यं बध्नन्ति सुधियोऽपि ॥
यथा—“अवीनादौ कृत्वा भवति तुरगो यावदवधिः
पशुर्धन्यस्तावत्प्रतिवसति यो जीवति सुखम् ।
अमीषां निर्माणं किमपि तदभूद्गन्धकरिणां
वनं वा क्षोणीभृद्गहनमथवा येन शरणम् ॥” २५
१ A ख. २ B ये अयो. ३ B संसिक्ताः.