काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 112, कुल 381 में से
संदर्भ में पढ़ेंकविरहस्ये एकादशोऽध्यायः । ५९
“पादस्ते नरवर दक्षिणे समुद्रे
पादोऽन्यो हिमवति हेमकूटलग्ने ।
आक्रामत्यलघु महीतलं त्वयीत्थं
भूपालाः प्रणतिमपास्य किन्नु कुर्युः ॥”
यथा चोत्तरार्द्धे¹—“इत्थं ते विधृतपदद्वयस्य राज-
न्नाश्चर्यं कथमिव सीधनी न भिन्ना ॥”
एवं व्यस्तार्द्धप्रयोगेऽपि² । यथा—
“तत्तावदेव शशिनः स्फुरितं महीयो
यावन्न तिग्मरुचिमण्डलमभ्युदेति ।
अभ्युद्गते³ सकलधामनिधौ⁴ तु तस्मि-
न्निन्दोः सिताभ्रशकलस्य च को विशेषः ॥”
यथा च—“तत्तावदेव शशिनः स्फुरितं महीयो
यावन्न किञ्चिदपि गौरतरा हसन्ति ।
ताभिः पुनर्विहसिताननपङ्कजाभि-
रिन्दोः सिताभ्रशकलस्य च को विशेषः ॥”
पादे⁵ एवान्यथात्वकरणं न स्वीकरणं पादोनहरणं वा । यथा—
“अरण्ये निर्जने रात्रावन्तर्वेश्मनि साहसे ।
न्यासापह्नवने चैव दिव्या सम्भवति क्रिया ॥”
यथा चोत्तरार्द्धे—
“तन्वङ्गी यदि लभ्येत दिव्या सम्भवति क्रिया ।”
यथा वा—“यस्य केशेषु जीमूता नद्यः सर्वाङ्गसन्धिषु ।
कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः ॥”
यथा चोत्तरार्द्धे—“कुक्षौ समुद्राश्चत्वारः स सहेत स्वरानलम् ॥”
भिन्नार्थानां तु पादानामेकेन पादेनान्वयनं कवित्वमेव । यथा—
————————————————————————————————————————————
१ B चोत्तरार्द्धं. २ A प्रयोगोपि. ३ B अभ्युद्यते. ४ V S तुहिनधामनिधौ. ५ A पादा.