सामग्री पर जाएँ
सर्वकोश
काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

Kavyamimamsa of Rajasekhara with Hindi Commentary

महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा

DevanagariSanskritpublished381 पृष्ठ

पृष्ठ 101, कुल 381 में से

संदर्भ में पढ़ें
पृष्ठ 101

४८ काव्यमीमांसायाम्
निबन्ध(न्धे)शुद्धः— “स्तिमितविकसितानामुल्लसद्भ्रूलतानां
मसृणमुकुलितानां प्रान्तविस्तारभाजाम् ।
प्रतिनयननिपाते किञ्चिदाकुञ्चितानां
सुचिरमहमभूवं पात्रमालोकितानाम् ॥”
५ चित्रः— “अलसवलितमुग्धस्निग्धनिष्पन्दमन्दै-
रधिकविकसदन्तर्विस्मयस्मेरतारैः ।
हृदयमशरणं मे पक्ष्मलाक्ष्याः कटाक्षै-
रपहृतमपविद्धं पीतमुन्मूलितं च ॥”
कथोत्थः— “अभिलाषमुदीरितेन्द्रियः
१० स्वसुतायामकरोत्प्रजापतिः ।
अथ तेन निगृह्य विक्रिया-
मभिशप्तः फलमेतदन्वभूत् ॥”
संविधानकभूः— “क्रोधं प्रभो संहर संहरेति
यावद्गिरः खे मरुतां चरन्ति ।
१५ तावत्स वह्निर्भवनेत्रजन्मा
भस्मावशेषं मदनं चकार ॥”
आख्यानकवान्— “पत्युः शिरश्चन्द्रकलामेनैन
स्पृशेति सख्या परिहासपूर्वम् ।
सा रञ्जयित्वा चरणौ कृताशी-
२० र्माल्येन तां निर्वचनं जघान ॥”
किञ्च संस्कृतवत्सर्वासपि भाषासु यथासामर्थ्यं यथारुचि यथा-
कौतुकं चावहितः स्यात् । शब्दार्थयोश्चाभिधानाभिधेयव्यापार-
प्रगुणतामवबुध्येत ।
तदुक्तम्—
i एकोऽर्थः संस्कृतोक्त्या ससुकविरचनः प्राकृतेनापरोऽस्मि-
न्न्योऽपभ्रंशगीर्भिः किमपरमपरो भूतभाषाक्रमेण ।
१ A संविभानभूः. २ B आख्यानवान्.