सामग्री पर जाएँ
सर्वकोश
काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

Kavyamimamsa of Rajasekhara with Hindi Commentary

महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा

DevanagariSanskritpublished381 पृष्ठ

पृष्ठ 111, कुल 381 में से

संदर्भ में पढ़ें
पृष्ठ 111

५८ काव्यमीमांसायाम्
“न” इति यायावरीयः । उल्लेखवाग्वदसन्दर्भः परिहरणीयः
प्रत्यभिज्ञायातः पादोऽपि । तस्यापि साम्येन किञ्चन दुष्टं स्यात् ।
यथा- “इत्युक्तवानुक्तिविशेषरम्यं
मनः समाधाय जयोपपत्तौ ।
उदारचेता गिरमित्युदारां
द्वैपायनेनाभिदधे नरेन्द्रः ॥”
यथा च— “इत्युक्तवानुक्तिविशेषरम्यं
रामानुजन्मा विरराम मानी ।
सङ्क्षिप्तमाप्तावसरं च वाक्यं
सेवाविधिज्ञैः पुरतः प्रभूणाम् ॥”
उल्लेखवान्यथा- “नमः संसारनिर्वाणविषामृतविधायिने ।
सप्तलोकोर्मिभङ्गाय शङ्करक्षीरसिन्धवे ॥”
यथा च— “प्रसरद्विन्दुनादाय शुद्धामृतमयात्मने ।
नमोऽनन्तप्रकाशाय शङ्करक्षीरसिन्धवे ॥”
“पाद एवान्यथात्वकरणकारणं न हरणम्, अपि तु स्वीकरणम्”
इत्याचार्याः ।
यथा- “त्यागाधिकाः स्वर्गमुपाश्रयन्ते
त्यागेन हीना नरकं व्रजन्ति ।
न त्यागिनां किञ्चिदसाध्यमस्ति
त्यागो हि सर्वव्यसनानि हन्ति ॥”
यथा च— “त्यागो हि सर्वव्यसनानि हन्ती-
त्यलीकमेतद्भुवि सम्प्रतीतम् ।
जातानि सर्वव्यसनानि तस्या-
स्त्यागेन मे मुग्धविलोचनायाः ॥”
तदिदं स्वीकरणापरनामधेयं हरणमेव । तद्वदूर्द्धमयोगेऽपि । यथा—
१ AB नाप्रत्यभिज्ञायातः.