काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 102, कुल 381 में से
संदर्भ में पढ़ेंकविरहस्ये दशमोऽध्यायः । ४९
द्वित्राभिः कोऽपि वाग्भिर्भवति चतसृभिः किञ्च कश्चिद्विवेक्तुं
यस्येत्थं धीः प्रगल्भा स्नपयति सुकवेस्तस्य कीर्त्तिर्जगन्ति ॥१
इत्थङ्कारं घनै्यर्थैर्युत्पन्नमनसः कवेः ।
दुर्गमेऽपि भवेन्मार्गे कुण्ठिता न सरस्वती ॥
इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे
अर्थानुशासने अर्थव्याप्तिर्नवमोऽध्यायः ॥
दशमोऽध्यायः कविचर्या राजचर्या च ।
गृहीतविद्योपविद्यः काव्यक्रियायै प्रयतेत । नामधातुपारायणे,
अभिधानकोशः, छन्दोविचितिः, अलङ्कारतन्त्रं च काव्यविद्याः । क-
लास्तु चतुःषष्टिरुपविद्याः । सुजनोपजीव्यकविसन्निधिः, देशवार्ता, १०
विदग्धवादो, लोकयात्रा, विद्वद्गोष्ठ्यश्च काव्यमातरः पुरातनक-
विनिबन्धाश्च । किञ्च—
स्वास्थ्यं प्रतिभाऽभ्यासो भक्तिर्विद्वत्कथा बहुश्रुतता ।
स्मृतिदार्ढ्यमनिर्वेदश्च मातरोऽष्टौ कवित्वस्य ॥
अपि च नित्यं शुचिः स्यात् । त्रिधा च शौचं वाक्शौचं, मनः- १५
शौचं, कायशौचं च । प्रथमे शास्त्रजन्मनी । तार्तीयीकं तु सनख-
च्छेदौ पादौ, सताम्बूलं मुखं, सविलेपनमात्रं वपुः, महार्हमनुल्बणं
च वासः, सकुसुमं शिर इति । शुचि शीलनं हि सरस्वत्याः संव-
ननमामनन्ति । स यत्स्वभावः कविस्तदनुरूपं काव्यम् । यादृशाकार-
श्चित्रकरस्तादृशाकारमस्य चित्रमिति प्रायोवादः । स्मितपूर्वमभि- २०
भाषणं, सर्वत्रोक्तिगर्भमभिधानं सर्वतो रहस्यान्वेषणं, परकाव्यदूष-
णवैमुख्यमनभिहितस्य, अभिहितस्य तु यथार्थमभिधानम् ।
तस्य भवनं सुसंसृष्टं, ऋतुषट्कोचितविविधस्थानं, अनेकतरुमू-
लकल्पितापाश्रयवृक्षवाटिकं, सक्रीडापर्वतकं, सदीर्घिकापुष्करि-
१ B प्रपन्ना.