काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 103, कुल 381 में से
संदर्भ में पढ़ें५० काव्यमीमांसायाम्
णीकं, ससरित्समुद्रावर्त्तकं, सकुल्याप्रवाहं, सबर्हिणहरिणहारीतं,
ससारसचक्रवाकहंसं, सचकोरक्रौञ्चकुररशुकसारिकं, घर्मक्लान्ति-
चौरं, संभूमिधारागृहयन्त्रलतामण्डपकं, सदोलाप्रेङ्खं च स्यात् ।
काव्याभिनिवेशखिन्नस्य मनसस्तद्विनिर्वेदच्छेदायाज्ञामूकपरिजनं
विजनं वा तस्य स्थानम् । अपभ्रंशभाषणप्रवणः परिचारकवर्गः,
समागधभाषाभिनिवेशिन्यः परिचारिकाः । प्राकृतसंस्कृतभाषाविद्
आन्तःपुरिकाः, मित्राणि चास्य सर्वभाषाविन्दि भवेयुः । सदःसं-
स्कारविशुद्ध्यर्थं सर्वभाषाकुशलः, शीघ्रवाक्, चार्वक्षरः, इङ्गिता-
कारवेदी, नानालिपिज्ञः, कविः, लाक्षणिकश्च लेखकः स्यात् । तद्-
सन्निधावतिरात्रादिषु पूर्वोक्तानामन्यतर(मः) ।
स्वभवने हि भाषानियमं यथा प्रभुर्विदधाति तथा भवति ।
श्रूयते हि मगधेषु शिशुनागो नाम राजा; तेन दुरुच्चारानष्टौ
वर्णानपास्य स्वान्तःपुर एव प्रवर्त्तितो नियमः, टकारादयश्चत्वारो
मूर्द्धन्यास्तृतीयवर्जमूष्माणस्त्रयः षकारश्चेति ।
श्रूयते च सूरसेनेषु कुविन्दो नाम राजा; तेन परुषसंयोगाक्षर-
वर्जमन्तःपुर एवेति समानं पूर्वेण ।
श्रूयते च कुन्तलेषु सातवाहनो नाम राजा; तेन प्राकृतभाषात्म-
कमन्तःपुर एवेति समानं पूर्वेण ।
श्रूयते चोज्जयिन्यां साहसाङ्को नाम राजा; तेन च संस्कृतभाषा-
त्मकमन्तःपुर एवेति समानं पूर्वेण ।
तस्य सम्पुटिका सफ़लकग्वटिका, समुद्गकः, सलेखनीकमषी-
भाजनानि ताडिपत्राणि भूर्जत्वचो वा, सलोहकण्टकानि तालद-
लानि, सुसम्मृष्टा भित्तयः, सततसन्निहिताः स्युः । “तद्धि काव्यवि-
द्यायाः परिकरः” इत्याचार्याः । “प्रतिभैव परिकरः” इति याया-
वरीयाः ।
“कविः प्रथममात्मानमेव कल्पयेत्; कियान्मे संस्कारः, क भाषा-
विषये शक्तोऽस्मि, किंरुचिलोकः परिवृढो वा, कीदृशि गोष्ठ्यां
१ BC सम्भूतिधारागृह० २ B सौरसेनेषु. ३ BC कयिन्दो. ४ B omits च.
५ B फलक. ६ B समुद्गक. ७ A सलेखनी B सलेखनीयक.