काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 107, कुल 381 में से
संदर्भ में पढ़ें५४ काव्यमीमांसायाम्
यथा यथाऽभियोगश्च संस्कारश्च भवेत्कवेः ।
तथा तथा निबन्धानां तारतम्येन रम्यता ॥
मुक्तके कवयोऽनन्ताः सङ्घाते कवयः शतम् ।
महाप्रबन्धे तु कविरेको द्वौ दुर्लभास्त्रयः ॥
५ अत्राह स्म¹—"बह्वपि स्वेच्छया कामं प्रकीर्णमभिधीयते ।
अनुज्झितार्थसम्बन्धः प्रबन्धो दुरुदाहरः ॥” [इति]
रीतिं विचिन्त्य विगणय्य गुणान्विगाह्य
शब्दार्थसार्थमनुसृत्य च सूक्तिमुद्राः ।
कार्यो निबन्धविषये विदुषा प्रयत्नः
१० के पोतयन्त्ररहिता जलधौ प्लवन्ते ॥
लीढाभिधोपनिषदां सविधे बुधाना-
मभ्यस्यतः प्रतिदिनं बहुदृश्वनोऽपि ।
किञ्चित्कदाचन कथञ्चन सूक्तिपाका-
द्धक्तत्त्वमुन्मिषति कस्यचिदेव पुंसः ॥
१५ इत्यनन्यमनोवृत्तेर्निःशेषेऽस्य क्रियाक्रमे ।
एकपत्नीव्रतं धत्ते कवेर्देवी सरस्वती ॥
सिद्धिः सूक्तिषु सा तस्य जायते जगदुत्तरा ।
मूलच्छायां² न जानाति यस्याः सोऽपि गिरां गुरुः ॥
राजा कविः कविसमाजं विदधीत । राजनि कवौ सर्वो लोकः कविः
२० स्यात् । स काव्यपरीक्षायै सभां कारयेत् । सा षोडशभिः स्तम्भै-
ऋर्तुभिर्द्वारैरष्टभिर्मत्तवारणीभिरुपेता स्यात् । तदनुलग्नं राज्ञः केलि-
गृहम् । मध्येसभां चतुःस्तम्भान्तरा हस्तमात्रोत्सेधा समणिभूमिका
वेदिका । तस्यां राजासनम् । तस्य चोत्तरतः संस्कृताः कवयो निवि-
शेरन् । बहुभाषाकवित्वे यो यत्राधिकं प्रवीणः स तेन व्यपदिश्यते ।
२५ यस्त्वनेकत्र प्रवीणः स सङ्क्रम्य तत्र तत्रोपविशेत् । ततः परं वेदवि-
द्याविदः प्रामाणिकाः पौराणिकाः स्मार्त्ता भिषजो मौहूर्त्तिका अन्ये-
ऽपि तथाविधाः । पूर्वेण प्राकृताः कवयः; ततः परं नटनर्त्तकगायन-
१ B omits स्म. २ B मूल्यच्छायां.