काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
अत्रार्थे—"प्रतिगृहमुपलानामेक एव प्रकारो
मुहुरुपकरणत्वादर्थि(र्जि)ताः पूजिताश्च ।
स्फुरति हतमणीनां किन्तु तद्धाम येन
क्षितिपतिभवने वा खाकरे वा निवासः ॥"
मूलैक्यं यत्र भवेत्परिकरबन्धस्तु दूरतोऽनेकैः ।
तत्परपुरप्रवेशप्रतिमं काव्यं सुकविभाव्यम् ॥
यथा—"यस्यारातिनितम्बिनीभिरभितो वीक्ष्याम्बरं प्रावृषि
स्फूर्जद्गर्जितनिर्जिताम्बुधिरवस्फाराभ्रवृन्दाकुलम् ।
उत्सृष्टप्रसभाभिषेणनभयस्पष्टप्रमोदाश्रुभिः
किञ्चित्कुञ्चितलोचनाभिरसकृद्घ्राताः कदम्बानिलाः ॥"
अत्रार्थे—"आच्छिद्य प्रियतः कदम्बकुसुमं यस्यारिदारैर्नवं
यात्राभङ्गविधायिनो जलमुचां कालस्य चिह्नं महत् ।
हृष्यद्भिः परिचुम्बितं नयनयोर्न्यस्तं हृदि स्थापितं
सीमन्ते निहितं कथञ्चन ततः कर्णावतंसीकृतम् ॥"
तदेतच्चतुष्टयनिबन्धनाश्च कवीनां द्वात्रिंशद्धरणोपायाः । अमीषां
चार्थानामन्वर्था अयस्कान्तवच्चत्वारः कवयः, पञ्चमश्चादृष्टचरार्थ-
दर्शी । तदाहुः—
"भ्रामकश्चुम्बकः किञ्च कर्षको द्रावकश्च सः ।
स कविर्लौकिकोऽन्यस्तु चिन्तामणिरलौकिकः ॥
तन्वानोऽनन्यदृष्टत्वं पुराणस्यापि वस्तुनः ।
योऽप्रसिद्ध्य्यादिभिर्भ्राम्यत्यसौ स्याद्भ्रामकः कविः ॥
यश्चुम्बति परस्यार्थं वाक्येन स्वेन हारिणा ।
स्तोकार्पितनवच्छायं चुम्बकः स कविर्मतः ॥
परवाक्यार्थमाकृष्य यः स्ववाचि निवेशयेत् ।
समुल्लेखेन केनापि स स्मृतः कर्षकः कविः ॥
१ B मूल्यैक्यं. २ A नैकः. ३ B व.
कविरहस्ये द्वादशोऽध्यायः । ६५
अप्रत्यभिज्ञेयतया स्ववाक्ये नवतां नयेत् ।
यो द्रावयित्वा मूलार्थं द्रावकः स भवेत्कविः ॥
चिन्तासमं यस्य रसैकस्रुतिरुदेति चित्राकृतिरर्थसार्थः ।
अदृष्टपूर्वो निपुणैः पुराणैः कविः स चिन्तामणिरद्वितीयः ॥”
तस्य चायोनिर्थः । स च त्रिधा लौकिकालौकिकभेदेन, तयो-
र्मिश्रत्वेन च । तत्र लौकिकः—
“मा कोशकारलतिके वह वर्णगर्वं
किं डम्बरेण चणिके तव कौसुमेन ।
पुण्ड्रेक्षुयष्टिरियमेकतरा चकास्तु
या स्यन्दते रसमृतेऽपि हि यन्त्रयोगात् ॥”
अलौकिकः—“देवी पुत्रमसूत नृत्यत गणाः किं तिष्ठतेत्युन्भुजे
हर्षाद्भृङ्गिरिटावुदाहृतगिरा चामुण्डयाऽऽलिङ्गिते ।
पायाद्वो जितदेवदुन्दुभिघनध्वानप्रवृत्तिस्तयो-
रन्योन्याङ्क¹निपातजर्जरजरत्स्थूलास्थिजन्मा रवः ॥”
मिश्रः—“स्थिते कुक्षेरन्तर्मुरजयिनि निःश्वासमरुतो
जनन्यास्तन्नाभीसरसिजपरागोत्करमुचः ।
निपीताः सानन्दं रचितफणचक्रेण हलिना
समन्तादस्यासुः प्रतिदिनमसेनांसि भवतः ॥”
तेषां च चतुर्णामर्थानाम्—
चत्वार एते कथिता मयैव
येऽर्थाः कवीनां हरणोपदेशे ।
प्रत्येक²मष्टत्ववशाद्भवन्ति
द्वात्रिंशता तेऽनुगताः प्रभेदैः ॥
तत्र प्रतिबिम्बकल्पविकल्पाः (८) । स एवार्थः पौ³र्वापर्यविपर्या-
साद्व्यत्यस्तै⁴र्कः (१) ।
१ A अन्योन्याङ्ग. २ B प्रत्येकमाष्टक्य० ३ B पूर्वोपर्य. ४ A स्त.
९
६६ काव्यमीमांसायाम्
यथा—"दृष्ट्वान्येभं छेदमुत्पाद्य रज्ज्वा
यन्तुर्वाचं मन्यमानस्तृणाय ।
गच्छन्द्रेभे नागराजः करिण्या
प्रेम्णा तुल्यं बन्धनं नास्ति जन्तोः ॥"
5 अत्रार्थे—"निर्विवेकमनसोऽपि हि जन्तोः
प्रेमबन्धनमशृङ्खलदाम ।
यत्प्रति प्रतिगजं गजराजः
प्रस्थितश्चिरमधारी करिण्या ॥"
बृहतोऽर्थस्याङ्गप्रणयनं खण्डम् । (२) ।
10 यथा—"पुरा पाण्डुप्रायं तदनु कपिशिङ्गा कृतपदं
ततः पाकोद्रेकादरुणगुणसंवर्द्धितवपुः ।
शनैः शोषारम्भे स्थपुटनिजविष्कम्भविवशं
वने वीतामोदं बदरमरसत्वं कलयति ॥"
अत्रार्थे—"पाकक्रियापरिचयप्रगुणीकृतेन
15 संवर्द्धितारुणगुणं वपुषा निजेन ।
आपादितस्थपुटसंस्थितिशोषपोषा-
देतद्वने विरसतां बदरं बिभर्ति ॥"
संक्षिप्तसार्थविस्तरेण तैलविन्दुः । (३) ।
यथा—"यस्य तन्मभराक्रान्त्या पातालतलगामिनी ।
20 महावराहदंष्ट्राया भूयः सस्मार मेदिनी ॥"
अत्रार्थे—"यत्तन्नाक्रान्तिमज्जत्पृथुलमणिशिलाशल्यवेल्लत्फणान्ते
क्लान्ते पत्यावहीनां चलदचलमहास्तम्भसम्भारसीमा ।
सस्मार स्फारचन्द्रद्युति पुनरवनिस्तद्धिरण्याक्षवक्षः-
स्थूलास्थिश्रेणिशाणानिकषणसितमप्याशु दंष्ट्राग्रमुग्रम् ॥"
25 अन्यतमभाषानिबद्धं भाषान्तरेण परिवर्त्त्यत इति नटनेपथ्यम् ।(४)
यथा—"नेच्छइ पासासंकी काओ दिण्णं पि पहिअघरिणीए ।
१ A वर्गि. २ A वर्णि. ३ A C क्रान्ता. ४ B परिवर्तने नट. ५ नेच्छति पाशाशङ्की
काको दत्तमपि पथिकगृहिण्या । अवनतकरतलोद्धूलितवलयमध्यस्थितं पिण्डम् ॥
कविरहस्ये द्वादशोऽध्यायः । ६७
ओहॆत्तकरयलोग्गलियवलयमज्झट्ठिअं पिण्डं ॥¹”
अत्रार्थे—“दत्तं पिण्डं नयनसलिलक्षालनाधौतगण्डं
द्वारोपान्ते कथमपि तया सङ्गमाशानुबन्धात् ।
वक्रग्रीवश्चलनतशिराः पार्श्वसञ्चारिचक्षुः
पाशाशङ्की गलितवलयं नैनमश्नाति काकः ॥”
छन्दसा परिवृत्तिश्छन्दोविनिमयः । (५) ।
यथा—“कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धनात्
तद्वासः श्लथमेखलागुणधृतं किञ्चिन्नितम्बे स्थितम् ।
एतावत्सखि वेद्मि केवलमहं तस्याङ्गसङ्गे पुनः
कोऽसौ काऽस्मि रतं नु किं कथमपि स्वल्पाऽपि मे न स्मृतिः ॥”
अत्रार्थे—“²धन्यास्तु याः कथयथ प्रियसङ्गमेऽपि
विस्रब्धचाटुकशतानि रतान्तरेषु ।
नीवीं प्रति प्रणिहितश्च करः प्रियेण
सख्यः शपामि यदि किञ्चिदपि स्मरामि ॥”
³कारणपरावृत्त्या हेतुव्यत्ययः । (६) ।
यथा—“ततोऽरुणपरिस्पन्दमन्दीकृतरुचिः शशी ।
दध्रे कामपरिक्षामकामिनीगण्डपाण्डुताम् ॥”
अत्रार्थे—“समं कुसुमचापेन गर्भिणीगण्डपाण्डुना ।
उदयाद्रिशिरःसीम्नि निहितं पदमिन्दुना ॥”
दृष्टस्य वस्तुनोऽन्यत्र सङ्क्रमितिः सङ्क्रान्तकम् । (७) ।
यथा—“स्नानाद्रैर्विधुतकबरीबन्धलोलैरिदानीं
श्रोणीभारः कृतपरिचयः पल्लवैः कुन्तलानाम् ।
अप्येतेभ्यो नभसि पततः पङ्क्तिशो वारिबिन्दून्
स्थित्वोद्ग्रीवं कुवलयदृशां केलिहंसाः पिबन्ति ॥”
अत्रार्थे—“सद्यःस्नातजपत्तपोधनजटाप्रान्तस्रुताः प्रोन्मुखैः
पीयन्तेऽम्बुकणाः कुरङ्गशिशुभिस्तृष्णाव्यथाविक्लवैः ।
१ A ओउत्तरकरयलो B ओहुत्तकरयलो. C explains this as अवनतकरतलावगलित.
२ A धन्यासि या कथयसि. C धन्याः स्थ याः कथयथ. ३ B C कारणप्रवृत्त्या.
६८ काव्यमीमांसायाम्
एतां प्रेमभरालसां च सहसा शुष्यन्मुखीमाकुलः
श्लिष्यन् रक्षति पक्षसम्पुटकृतच्छायः शकुन्तः प्रियाम्॥"
उभयवाक्यार्थोपादानं सम्पुटः (८)
यथा—"विन्ध्यस्याद्रेः परिसरनदी नर्मदा सुभ्रु सैषा
यादोभर्तुः प्रथमगृहिणीं यां विदुः पश्चिमस्य ।
यस्यामन्तःस्फुरितशफरत्रासहासाकुलाक्षी
खैरं खैरं कथमपि मया तीरमुत्तारिताऽसि ॥"
यथा—"नाभीगुहाबिलविशचलवीचिजात-
मञ्जुध्वनिश्रुतिकणत्कलकुकुभानि ।
रेवाजलाम्बविरलं ग्रँहिलीक्रियन्ते
लाटाङ्गनाभिरपराह्ननिमज्जनेषु ॥"
अत्रार्थे—"यद्गार्ग्याभिर्जगाहे गुरुशकुलकुलास्फालनत्रासहास-
व्यस्तोरुस्तम्भिकाभिर्दिशि दिशि सरितां दिग्विजयप्रक्रमेषु ।
अम्भो गम्भीरनाभीकुहरकवलनोन्मुक्तिपर्यायलोल-
त्कल्लोलाबद्धमुग्धध्वनिचकितरणत्कुकुभं कामिनीभिः ॥"
सोऽयं कवेरकवित्वदाघी सर्वथा प्रतिबिम्बकल्पः परिहरणीयः ।
यतः—पृथक्त्वेन न गृह्णन्ति वस्तु काव्यान्तरस्थितम् ।
पृथक्त्वेन न गृह्णन्ति स्ववपुः प्रतिबिम्बितम् ॥
इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे शब्दार्थहरणेपु
कविप्रभेदाः प्रतिबिम्बकल्पविकल्पस्य समीक्षा द्वादशोऽध्यायः ॥
१ B शफरी. २ B कणज्जल. ३ B गृहिणी० ४ B कवेरवकवित्व.
त्रयोदशोऽध्यायः अर्थहरणेष्वालेख्यप्रख्यादिभेदाः।
आलेख्यप्रख्यपरिसङ्ख्याः (८)। सदृशसञ्चारणं समक्रमः (१)।
यथा—"अस्ताद्रिवेश्मनि दिशो वरुणप्रियाया-
स्तिर्यक्कथञ्चिदपयन्न्रणमास्थितायाः।
गण्डैकपार्श्वमिव कुङ्कुमपङ्कचुम्बि
बिम्बं रुचामधिपतेररुणं रराज ॥"
यथा च—"प्राग्दिशः प्रतिकलं विलसन्त्याः
कुङ्कमारुणकपोलतलेन।
साम्यमेति कलितोदयरागः
पश्य सुन्दरि तुषारमयूखः ॥"
अलङ्कृतमनलङ्कृत्याभिधीयत इति विभूषणमोषः (२)।
यथा—"कुवलयसिति मूले बालचन्द्राङ्कुराभं
तदनु खलु ततोऽग्रे पाकपीताग्रपीतम्।
अभिनवरविरोचिर्द्धूमधूम्रं शिखाया-
मिति विविधविकारं दृश्यते दैपमर्चिः ॥"
अत्रार्थे—"मनाङ्गुले नीलं तदनु कपिशोन्मेषमुदरे
ततः पाण्डु स्तोकं स्फुरदरुणलेखं च तदनु।
शिखायामाधूम्रं धृतविविधवर्णक्रममिति
क्षणादर्चिर्द्दैपं दलयति तमः पुञ्जितमपि ॥"
क्रमेणाभिहितस्यार्थस्य विपरीताभिधानं व्युत्क्रमः (३)।
यथा तत्रैव—"श्यामं शिखाभुवि मनागरुणं ततोऽधः
स्तोकावपाण्डुरघनं च ततोऽप्यधस्तात्।
आपिञ्जरं तदनु तस्य तले च नील-
मन्धं तमःपटलमर्द्दति दैपमर्चिः ॥"
सामान्यनिबन्धे विशेषाभिधानं विशेषोक्तिः (४)।
यथा—"इत्युद्गते शशिनि पेशलकान्तदूती-
संलापसञ्चलितलोचनमानसाभिः।
१ A. रगुणं.
७० काव्यमीमांसायाम्
अग्राहि मण्डनविधिर्विपरीतभूषा-
विन्यासहासितसखीजनमङ्गनाभिः ॥”
अत्रार्थे—“चकार काचित्सितचन्दनाङ्के
काञ्चीकलापं स्तनभारपृष्ठे ।
प्रियं प्रति प्रेषितचित्तवृत्ति-
र्नितम्बबिम्बे च बबन्ध हारम् ॥”
उपसर्जनस्यार्थस्य प्रधानतायामुत्तंसः (५) ।
यथा—“दीपयन्नथ नभः किरणौघैः
कुङ्कुमारुणपयोधरगौरः ।
हेमकुम्भ इव पूर्वपयोधे-
रुन्ममज्ज शनकैस्तुहिनांशुः ॥”
अत्रार्थे—“ततस्तमःश्यामलपट्टकञ्चुकं
विपाटयत्किञ्चिद्दृश्यतान्तरा ।
निशातरुण्याः स्थितशेषकुङ्कुम-
स्तनाभिरामं स(श)कलं कलावतः ॥”
तदेव वस्तूक्तिवशादन्यथा क्रियत इति १नवनेपथ्यम् (६) ।
यथा—“आननेन्दुशशलक्ष्म कपोले
सादरं विरचितं तिलकं यत् ।
तत्प्रिये विरचितावधिभङ्गे
धौतमीक्षणजलैस्तरलाक्ष्याः ॥”
अत्रार्थे—“शोकाश्रुभिर्वासखण्डितानां
सिक्ताः कपोलेषु विलासिनीनाम् ।
कान्तेषु कालात्ययमाचरत्सु
स्वल्पायुषः पत्रलता बभूवुः ॥”
परिकरसाम्ये सत्यपि परिकार्यस्यान्यथात्वादेकपरिकार्यः (७) ।
“अव्याद्गजेन्द्रवदनः स इमां त्रिलोकीं
यस्योद्धृतेन गगने महता करेण ।
१ A नटनेपथ्यम्.
कविरहस्ये त्रयोदशोऽध्यायः । ७१
मूलप्ररूढसितदन्तबिसाङ्कुरेण
नालायितं तपनबिम्बसरोरुहस्य ॥”
अत्रार्थे—“सरलकरदण्डनालं गजवपुषः पुष्करं विभोर्जयति ।
मूलबिसकाण्डभूमौ यत्राभूदेकदंष्ट्रैव ॥”
विकृतेः प्रकृतिप्रापणं प्रत्यापत्तिः (८) ।
यथा—“रविसङ्क्रान्तसौभाग्यस्तुषाराविलमण्डलः ।
निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ॥”
अत्रार्थे—“तस्याः प्रतिद्वन्द्विभवाद्दिषादा-
त्सद्यो विमुक्तं मुखमाबभासे ।
निःश्वासबाष्पापगमे प्रपन्नः
प्रसादमात्मीयमिवात्मदर्शः ॥”
ता इमा आलेख्यप्रख्यस्य भिदाः । सोऽयमनुग्राह्यो मार्गः ।
आहुश्च—“सोऽयं भणितिवैचित्र्यात्समस्तो वस्तुविस्तरः ।
नटवद्वर्णिकायोगादन्यथात्वमिवाच्छति ॥”
अथ तुल्यदेहितुल्यस्य भिदाः (८) । तस्यैव वस्तुनो विषयान्तरयो-
जनादन्यरूपापत्तिर्विषयपरिवर्त्तः (१) ।
यथा--“ये सीमन्तितगात्रभस्मरजसो ये कुम्भकक्षैषिणो
ये लीढाः श्रवणाश्रयेण फणिना ये चन्द्रशैल्यद्रुहः ।
ते कुप्यद्गिरिजाविभक्तवपुषश्चित्तव्यथासाक्षिणः
स्थाणोर्दक्षिणनासिकापुटभुवः श्वासानिलाः पान्तु वः ॥”
अत्रार्थे—“ये कीर्णकथितोदराब्जमधवो ये म्लापितोरःस्रजो
ये तापात्तरलेन तल्पफणिना पीतप्रतीपोज्झिताः ।
ते राधास्मृतिसाक्षिणः कमलया सासूयमाकर्णिता
गाढान्तर्दवथोः प्रततसरलाः श्वासा हरेः पान्तु वः ॥”
द्विरूपस्य वस्तुनोऽन्यतम(र)रूपोपादानं द्वन्द्वविच्छित्तिः (२) ।
यथा—“उत्क्लेशं केशबन्धः कुसुमशररिपोः कल्मषं वः स मुष्या-
द्यत्रेन्दुं वीक्ष्य गङ्गाजलभरलुलितं बालभावादभूताम् ।
१ A. B. मूलावलम्ब.
७२ काव्यमीमांसायाम्
क्रौञ्चारातिश्च फाण्टस्फुरितशफरिकामोहेलोलेक्षणश्रीः
सद्यः प्रोद्यन्मृणालीग्रहणरसलसत्पुष्करश्च द्विपास्यः ॥"
अत्रार्थे—"दिश्याद्धूर्जटिजूटकोटिसरिति ज्योत्स्नालवोद्भासिनी
शाशाङ्की कलिका जलभ्रमिशशाद्राग् दृष्टनष्टा सुखम् ।
यां चञ्चच्छफरीभ्रमेण मुकुलीकुर्वन्फणालीं मुहु-
र्मुह्यल्लक्ष्यमहिर्र्जघृक्षतितमामाकुञ्चनप्राञ्चनैः ॥"
पूर्वार्थानामर्थान्तरैरन्तरणं रत्नमाला (३) ।
यथा—"कपाले मार्जारः पय इति करांल्लेढि शशिनः
तरुच्छिद्रप्रोतान्बिसमिति करेणुः कलयति ।
रतान्ते तल्पस्थान्हरति वनिताऽप्यंशुकमिति
प्रभामत्तश्चन्द्रो जगदिदमहो विभ्रमयति ॥"
अत्रार्थे—"ज्योत्स्नार्चिर्दुग्धबुद्ध्या कवलितमसकृद्भाजने राजहंसैः
खांसे कर्पूरपांसुच्छुरणरभसतः सम्भृतं सुन्दरीभिः ।
पुम्भिर्व्यस्तं स्तनान्तात्सिचयमिति रहःसम्भ्रमे वल्लभानां
लीढं द्राक्सिन्धुवारेष्वभिनवसुमनोलम्पटैः षट्पदैश्च ॥"
सङ्ख्यावैषम्येणार्थप्रणयनं सङ्ख्योल्लेखः (४) ।
यथा—"नमन्नारायणच्छायाच्छुरिताः पादयोर्नखाः ।
त्वच्चन्द्रमिव सेवन्ते रुद्र रुद्रे(न्द्रे)न्दवो दश (?) ॥"
अत्रार्थे—"उमैकपादाम्बुरुहे स्फुरन्नखे
कृतागसो यस्य शिरःसमागमे ।
षडात्मतामाश्रयतीव चन्द्रमाः
स नीलकण्ठः प्रियमातनोतु वः ॥"
सममभिधायाधिकस्योपन्यासश्छलिका(५)। द्विधा च सा संवादिनी
विसंवादिनी च [इति] ।
तयोः प्रथमा यथा—"अङ्गणे शशिमरीचिलेपने
सुसमिन्दुकरपुञ्जसन्निभम् ।
राजहंसमसमीक्ष्य कातरा
रौति हंसवनिताऽश्रुगद्गदम् ॥"
कविरहस्ये त्रयोदशोऽध्यायः । ७३
अत्रार्थे—"चन्द्रप्रभाप्रसरहासिनि सौधपृष्ठे
दुर्लक्षपक्षतिपुटां न विवेद जायाम् ।
मूढश्रुतिर्मुखरनूपुरनिःस्वनेन
व्याहारिणीमपि पुरो गृहराजहंसः ॥"
द्वितीया तत्रैवार्थे यथा—"ज्योत्स्नाजलस्नायिनि सौधपृष्ठे
विविक्तमुक्ताफलपुञ्जगौरम् ।
विवेद हंसी दयितं कथञ्चि-
च्चलत्तुलाकोटिक्लैर्निनादैः ॥"
निषेधस्य विधिना निबन्धो विधानापहारः । (६) ।
यथा—"कुरबक कुचाघातक्रीडारसेन वियुज्यसे
बकुलविटपिन् स्मर्त्तव्यं ते मुखासवसेचनम् ।
चरणघटनाशून्यो यास्यस्यशोक सशोकता-
मिति निजपुरत्यागे यस्य द्विषां जगदुः स्त्रियः ॥"
अत्रार्थे—"मुखमदिरया पादन्यासैर्विलासविलोकितै-
र्बकुलविटपी रक्ताशोकस्तथा तिलकद्रुमः ।
जलनिधितटीकान्ताराणां क्रमात्ककुभां जये
झगिति गमिना यद्वर्गीभिर्विकासमहोत्सवम् ॥"
बहूनामर्थानामेकत्रोपसंहारो माणिक्यपुञ्जः । (७) ।
यथा—"शैलच्छलेन खं दीर्घं भुजमुत्तभ्य॑ भूवधूः ।
निशासख्याः करोतीव शशाङ्कतिलकं मुखे ॥"
यथा च—"फुल्लातिमुक्तकुसुमस्तबकाभिराम-
दूरोल्लसत्किरणकेसरमिन्दुसिंहम् ।
दृष्ट्वोदयाद्रिशिखरस्थितमन्धकार-
दुर्वारवारणघटा व्यघटन्त सद्यः ॥"
यथा च—"संविधातुमभिषेकमुदासे
मन्मथस्य लसदंशुलौघः ।
१ B म्य.
७४ काव्यमीमांसायाम्
यामिनीवनितया ततचिह्नः
सोत्पलो रजतकुम्भ इवेन्दुः ॥"
यथा च—
“उदयति पश्य कृशोदरि दलितत्वक्षीर(त्वक्सार)१करणिभिः किरणैः।
उदयाचलचूडामणिरेष पुरो रोहिणीरमणः ॥”
यथा च—“उदयति नवनीतपिण्डपाण्डुः कुमुदवनान्यवघट्टयन्कराग्रैः।
उदयगिरितटस्फुटाट्टहासो रजनिवधूमुखदर्पणः शशाङ्कः॥”
यथा च—“प्रोषितैकेन्दुहंसेऽस्मिन्स्लाविव तमोऽम्बुभिः ।
नभस्तडागे मदनस्ताराकुमुदद्वा(भा)सिनि ॥”
अत्रार्थे—“रजनिपुरन्ध्रिरोध्रतिलकस्तिमिरद्विपयूथकेसरी
रजतमयोऽभिषेककलशः कुसुमायुधमेदिनीपतेः ।
अयमुदयाचलैकचूडामणिर्भिनवदर्पणो दिशा-
मुदयति गगनसरसि हंसस्य हसन्निव विभ्रमं शशी ॥”
कन्दभूतोऽर्थः कन्दलायमानैर्विशेषैरभिधीयत इति कन्दः । (८) ।
यथा—
“विशिखामुखेषु विसरति पुञ्जीभवतीव सौधशिखरेषु ।
कुमुदाकरेषु विकसति शशिकलेशपरिस्रुता ज्योत्स्ना ॥”
अत्रार्थे—“वियति विसर्पतीव कुमुदेषु बह्ळभवतीव योषितां
प्रतिफलतीव जरठशरकाण्ड२पाण्डुषु गण्डभित्तिषु ।
अम्भसि विकसतीव ३लसतीव सुधाधवलेषु धामसु
ध्वजपटपल्लवेषु ललतीव समीरचलेषु चन्द्रिका ॥
स्फटिकमणिघट इवेन्दुस्तस्यामपिधानमाननमिवाङ्कः ।
क्षरति चिरं तेन यथा ज्योत्स्ना घनसारधूलिरिव ॥
सितमणिकलशादिन्दोर्हरिणहरित्तृणपिधानतो गलितैः ।
रजनिभुजिष्या सिञ्चति नभोऽङ्गणं चन्द्रिकाम्भोभिः ॥
संविधातुमभिषेकमुदासे
मन्मथस्य लसदंशुजलौघः ।
१ Explained in C as सदृशैः. २ K विपाण्डुषु. ३ K हसतीव.
कविरहस्ये त्रयोदशोऽध्यायः । ७५
यामिनीवनितया ततचिह्नः
सोत्पलो रजतकुम्भ इवेन्दुः ॥”
ता इमास्तुल्यदेहिसदृशस्य परिसंख्याः । “सोऽयमुल्लेखवाननु-
ग्राह्यो मार्गः” इति सुरानन्दः ।
तदाह— “सरस्वती सा जयति प्रकामं ५
देवी श्रुतिः स्वस्त्ययनं कवीनाम् ।
अनर्घतामानयति स्वभङ्ग्या
योल्लिख्य यत्किञ्चिदिहार्थरत्नम् ॥”
अथ परपुरप्रवेशसदृशस्य भिदाः (८) । उपनिबद्धस्य वस्तुनो
युक्तिमती परिवृत्तिर्हुडयुद्धम् । (१) १०
यथा— “कथमसौ न भजत्यशरीरतां
हतविवेकपदो हतमन्मथः ।
प्रहरतः कदलीदलकोमले
भवति यस्य दया न वधूजने ॥”
अत्रार्थे— “कथमसौ मदनो न नमस्यतां १५
स्थितविवेकपदो मकरध्वजः ।
मृगदृशां कदलीललितं वपु-
र्यदभिहन्ति शरैः कुसुमोद्भवैः ॥”
प्रकारान्तरेण विसदृशं यद्वस्तु तस्य निबन्धः प्रतिकञ्चुकम् । (२) ।
यथा— “माद्यच्चकोरक्षणतुल्यधाम्नो २०
धारां दधाना मधुनः पतन्तीम् ।
चञ्च्वग्रदष्टोत्पलनालहृद्या
हंसीव रेजे शशिरत्नपारी ॥”
अत्रार्थे— “मसारपारेण बभौ ददाना
काचित्सुरां विद्रुमनालकेन । २५
१ C Explains as ख्यातिकारणं. २ B ति.
वल्लूरवल्लीं दधतेव चञ्च्वा
केलीशुकेनाञ्जलिना धृतेन ॥”
उपमानस्योपमानान्तरपरिवृत्तिर्वस्तुसंचारः । (३) ।
यथा— “अविरलमिव दाम्ना पौण्डरीकेण बद्धः
स्नपित इव च दुग्धस्रोतसा निर्भरेण ।
कवलित इव कृत्स्नश्चक्षुषा स्फारितेन
प्रसभममृतमेघेनेव सान्द्रेण सिक्तः ॥”
अत्रार्थे—“मुक्तानामिव रज्जवो हिमरुचेर्मालाः कलानामिव
क्षीराब्धेरिव वीचयः क्लममुषः पीयूषधारा इव ।
दीर्घापाङ्गनदीं विलङ्घ्य सहसा लीलानुभावाञ्चिताः
सद्यः प्रेमभरोल्लसा मृगदृशो मामभ्यषिञ्चन्दृशः ॥
शब्दालङ्कारस्यार्थालङ्कारेणान्यथात्वं धातुवादः । (४) ।
यथा— “जयन्ति बाणासुरमौलिलालिताः
दशास्यचूडामणिचक्रचुम्बिनः ।
सुरासुराधीशशिखान्तशायिनो
भवच्छिदस्त्र्यम्बकपादपांसवः ।
अत्रार्थे— “सन्मार्गालोकनप्रौढिनिरजीकृतजन्तवः ।
जयन्त्यपूर्वव्यापाराः पुरारेः पादपांसवः ॥”
तस्यैव वस्तुन उत्कर्षेणान्यथाकरणं सत्कारः । (५) ।
यथा—“स्नानाद्रार्द्रैर्विधुतकबरीबन्धलोलैरिदानीं
श्रोणीभारः कृतपरिचयः पल्लवैः कुन्तलानाम् ।
अप्येतेभ्यो नभसि पततः पङ्क्तिशो वारिबिन्दून्
स्थित्वोद्ग्रीवं कुवलयदृशां केलिहंसाः पिबन्ति ॥”
अत्रार्थे—“लक्ष्म्याः क्षीरनिधेरुदक्तवपुषो वेणीलताग्रच्युता
ये मुक्ताग्रथनामसन्नसभगाः प्राप्ताः पयोबिन्दवः ।
कविरहस्ये त्रयोदशोऽध्यायः । ७७
ते वः पान्तु विशेषसस्पृहदृशा दृष्टाश्चिरं शार्ङ्गिणा
हेलोद्ग्रीवजलेशहंसवनितालीढाः सुधास्वादवः ॥”
पूर्वं सदृशः पश्चाद्द्भिन्नो जीवञ्जीवकः । (६) ।
यथा— “नयनोदरयोः कपोलभागे
रुचिमद्रत्नगणेषु भूषणेषु ।
सकलप्रतिबिम्बितेन्दुबिम्बा
शतचन्द्राभरणै(णे)व काचिदासीत् ॥”
अत्रार्थे—“भास्वत्कपोलतलकुण्डलपारिहार्य-
सन्मेखलामणिगणप्रतिबिम्बितेन ।
चन्द्रेण भाति रमणी रमणीयवक्त्र-
शोभाभिभूतवपुषेव निषेव्यमाणा ॥”
प्राक्तनवाक्याभिप्रायनिबन्धो भावमुद्रा । (७) ।
यथा— “ताम्बूलवल्लीपरिणद्धपूगा-
खेलालतालिङ्गितचन्दनासु ।
तमालपत्रास्तरणासु रन्तुं
प्रसीद शश्वन्मलयस्थलीषु ॥”
अत्रार्थे— “निश्चेतनानामपि युक्तयोगदो
नूनं स एनं मदनोऽधितिष्ठति ।
एला यदाश्लिष्टवतीह चन्दनं
पूगद्रुमं नागलताऽधिरोहति ॥”
पूर्वार्थपरिपन्थिनी वस्तुरचना तद्विरोधी(धिनी) । (८) ।
यथा— “हारो वक्षसि दन्तपत्रविशदं कर्णे दलं कौमुदं
माला मूर्ध्नि दुकूलिनी तनुलता कर्पूरशुक्लौ स्तनौ ।
वक्त्रे चन्दनबिन्दुरिन्दुधवलं बालं मृणालं करे
वेषः किं सित एष सुन्दरि शरच्चन्द्रात्त्वया शिक्षितः ॥”
अत्रार्थे—“मूर्तिर्नीलदुकूलिनी मृगमदैः प्रत्यङ्गपत्रक्रिया
बाहू मेचकरत्नकङ्कणभृतौ कण्ठे मसारावली ।
७८ काव्यमीमांसायाम्
व्यालम्बालकवल्लरीकमलिकं कान्ताभिसारोत्सवे
यत्सत्यं तमसा मृगाक्षि विहितं वेषे तवाचार्यकम् ॥”
इत्यर्थहरणोपाया द्वात्रिंशदुपदर्शिताः ।
हानोपादानविज्ञाने कवित्वं तत्र मां प्रति ॥
किं चैते हरणोपाया ज्ञेयाः सप्रतियोगिनः ।
अर्थस्य वैपरीत्येन विज्ञेया प्रतियोगिता ॥
किञ्च—शब्दार्थशासनविदः कति नो कवन्ते
यद्वाङ्मयं श्रुतिधनस्य चकास्ति चक्षुः ।
किन्त्वस्ति यद्वचसि वस्तु नवं सदुक्ति-
सन्दर्भिणां स धुरि तस्य गिरः पवित्राः ॥
इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे
अर्थहरणेष्वालेख्यप्रख्यादिभेदास्त्रयोदशोऽध्यायः ॥
चतुर्दशोऽध्यायः जातिद्रव्यक्रियासमयस्थापना ।
अशास्त्रीयमलौकिकं च परम्परायातं यमर्थमुपनिबध्नन्ति कवयः
स कविसमयः ।
“नन्वेष दोषः । कथङ्कारं पुनरुपनिबन्धनार्हः ?” इत्याचार्याः ।
“कविमार्गानुग्राही कथमेष दोषः?” इति यायावरीयः। “निमित्तं तर्हि
वाच्यम्” इत्याचार्याः । “इदमभिधीयते” इति यायावरीयः ।
पूर्वे हि विद्वांसः सहस्रशाखं साङ्गं च वेदमवगाह्य, शास्त्राणि
चावबुध्य, देशान्तराणि द्वीपान्तराणि च परिभ्रम्य, यानर्थानुपलभ्य
प्रणीतवन्तस्तेषां देशकालान्तरवशेनान्यथात्वेऽपि तथात्वेनोपनि-
बन्धो यः स कविसमयः । कविसमयशब्दश्चायं मूलमपश्यद्भिः
प्रयोगमात्रदर्शिभिः प्रयुक्तो रूढश्च ।
तत्र कश्चिदाद्यत्वेन व्यवस्थितः कविसमयेनार्थः, कश्चित्परस्परो-
पक्रमार्थं स्वार्थाय धूर्त्तैः प्रवर्त्तितः । स च त्रिधा स्वर्ग्यो भौमः
कविरहस्ये चतुर्दशोऽध्यायः । ७९
पातालीयश्च [इति] । स्वर्गपातालीययोर्भौमः प्रधानः । स हि महा-
विषयः । स च चतुर्द्धा जातिद्रव्यगुणक्रियारूपार्थतया । तेऽपि
प्रत्येकं त्रिधा असतो निबन्धनात्, सतोप्यनिबन्धनात्, नियमतश्च ।
तत्र सामान्यस्यासतो निबन्धनं यथा—नदीषु पद्मोत्पलादीनि ।
जलाशयमात्रेऽपि हंसादयः । यत्र तत्र पर्वतेषु सुवर्णरत्नादिकं च ।
नदीपद्मानि यथा— “दीर्घीकुर्वन्पटुमदकलं कूजितं सारसानां
प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः ।
यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः
शिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥”
नदीनीलोत्पलानि—“गगनगमनलीलालम्भितान्स्वेदबिन्दून्
मृदुभिरनिलचारैः खेचराणां हरन्तीम् ।
कुवलयवनकान्त्या जाह्नवीं सोऽभ्यपश्यत्
दिनपतिसुतयेव व्यक्तदत्ताङ्गपालीम् ॥”
एवं नदीकुमुदाद्यपि । सलिलमात्रे हंसा यथा—
“आसीदस्ति भविष्यतीह स जनो धन्यो धनी धार्मिकः
यः श्रीकेशववत्करिष्यति पुनः श्रीमत्कुडुङ्गेश्वरम् ।
हेलान्दोलितहंससारसकुलक्केङ्कारसम्मूर्च्छितै-
रित्याघोषयतीव तन्नवनदी यच्चेष्टितं वीचिभिः ॥”
पर्वतमात्रे सुवर्णं यथा— “नागावासश्चित्रपोताभिरामः
स्वर्णास्फीतिव्यासदिक्चक्रवालः ।
साम्यात्सख्यं जग्मिवानम्बुराशे-
रेष ख्यातस्तेन जीमूतभर्त्ता ॥”
रत्नानि यथा— “नीलाश्मरश्मिपटलानि महेभमुक्त-
सूत्कारशीकरविसृञ्जि तटान्तरेषु ।
आलोकयन्ति सरलीकृतकण्ठनालाः
सानन्दमम्बुदधियाऽत्र मयूरनार्यः ॥”
१ A वा. २ AB वारि. ३ A स्वर्णस्फीति.
८० काव्यमीमांसायाम्
एवमन्यदपि । सतोऽप्यनिबन्धनं तद्यथा—न मालती वसन्ते,
न पुष्पफलं चन्दनद्रुमेषु, न फलमशोकेषु ।
तत्र प्रथमः—"मालतीविमुखश्चैत्रो विकासी पुष्पसम्पदाम् ।
आश्चर्यं जातिहीनस्य कथं सुमनसः प्रियाः ॥"
द्वितीयः—"यद्यपि चन्दनविटपी विधिना फलकुसुमवर्जितो विहितः ।
निजवपुषैव परेषां तथापि सन्तापमपहरति ॥"
तृतीयः—"दैवायत्ते हि फले किं क्रियतामेतदत्र तु वदामः ।
नाGeneric? नाशोकस्य किसलयैर्वृक्षान्तरपल्लवास्तुल्याः ॥"
अनेकत्र प्रवृत्तवृत्तीनामेकत्राचरणं नियमः । तद्यथा—समुद्रेष्वेव
मकराः, ताम्रपर्ण्यामेव मौक्तिकानि ।
तयोः प्रथमः— "गोत्राग्रहारं नयतो गृहत्वं
खनाममुद्राङ्कितमम्बुराशिम् ।
दायादवर्गेषु परिस्फुरत्सु
दंष्ट्रावलेपो मकरस्य वन्द्यः ॥"
द्वितीयः—"कामं भवन्तु सरितो भुवि सप्रतिष्ठाः
खादूनि सन्तु सलिलानि च शुक्तयश्च ।
एतां विहाय वरवर्णिनि ताम्रपर्णीं
नान्यत्र सम्भवति मौक्तिककामधेनुः ॥"
असतोऽपि द्रव्यस्य निबन्धनम् । तद्यथा—मुष्टिग्राह्यत्वं सूचीभे-
द्यत्वं च तमसः, कुम्भापवाह्यत्वं च ज्योत्स्नायाः ।
तत्र प्रथमम्—"तनुलग्ना इव ककुभः भूवलयं चरणचारमात्रमिव ।
दिवमिव चालिकदघ्नीं मुष्टिग्राह्यं तमः कुरुते ॥"
यथा च—"पिहिते कारागारे तमसि च सूचीमुखाग्रनिर्भेद्ये ।
मयि च निमीलितनयने तथापि कान्ताननं व्यक्तम् ॥"
द्वितीयम्—"³यैश्चन्द्रावितकेतकोदरदलस्रोतःश्रियं बिभ्रती
येयं मौक्तिकदामगुम्फनविधेर्योग्यच्छविः प्राग्भूत् ।
१ C जनितः. २ V कुम्भोपवाह्यत्वं. ३ V शङ्खद्रावित० C तन्त्रद्रावित० तन्त्र is explained
as औषध.
कविरहस्ये चतुर्दशोऽध्यायः। ८१
उत्सेच्या कलशीभिरञ्जलिपुटैर्ग्राह्या मृणालाङ्कुरैः
पातव्या च शशिन्यमुग्धविभवे सा वर्त्तते चन्द्रिका ॥”
द्रव्यस्य सतोऽनिबन्धनम् । तद्यथा—कृष्णपक्षे सत्या अपि ज्यो-
त्स्नायाः, शुक्लपक्षे त्वन्धकारस्य । तयोः प्रथमम्—
“ददृशाते जनैस्तत्र यात्रायां सकुतूहलैः । 5
बलभद्रप्रलम्बघ्नौ पक्षाविव सितासितौ ॥”
द्वितीयम्—“मासि मासि समा ज्योत्स्ना पक्षयोः शुक्लकृष्णयोः ।
तत्रैकः शुक्लतां यातो यशः पुण्यैरवाप्यते ॥”
द्रव्यनियमः । तद्यथा—मलय एव चन्दनस्थानं, हिमवानेव भूर्-
जोत्पत्तिस्थानम् । 10
तत्र प्रथमः—“तापापहारचतुरो नागावासः सुरप्रियः ।
नान्यत्र मलयादद्रेर्दृश्यते चन्दनद्रुमः ॥”
द्वितीयः— “न्यस्ताक्षरा धातुरसेन यत्र
भूर्जत्वचः कुञ्जरबिन्दुशोणाः ।
व्रजन्ति विद्याधरसुन्दरीणा- 15
मनङ्गलेखक्रिययोपयोगम् ॥”
प्रकीर्णकद्रव्यकविसमयस्तु तद्यथा—क्षीरक्षारसमुद्रयोरैक्यं,
सागरमहासमुद्रयोश्च ।
तयोः प्रथमः—“शेतां हरिर्भवतु रत्नमनन्तमन्त-
र्लक्ष्मीप्रसूतिरिति नो विवदामहे हे(ऽब्धे) । 20
हा दूरदूरसपयस्तृषितस्य जन्तोः
३किं त्वन्न(न्न) कूपपयसः स मरोजंघन्यः ॥”
द्वितीयः—“रङ्गतत्तरङ्गभ्रूभङ्गैस्तर्जयन्तीमिवापगाः ।
स ददर्श पुरो गङ्गां सससागरवल्लभाम् ॥”
असतोऽपि क्रियार्थस्य निबन्धनम् । यथा—चक्रवाकमिथुनस्य 25
निशि भिन्नतटाश्रयणं, चकोराणां चन्द्रिकापानं च ।
१ V उत्सेक्या. २ V ऽद्भो. ३ V किन्वस्ति सिक्त.
११
८२ काव्यमीमांसायाम्
तत्र प्रथमः—"सङ्क्षिपता यामवतीस्तटिनीनां तनयता पयःपूरान् ।
रथचरणाव्हयवयसां किं नोपकृतं निदाघेन ॥"
द्वितीयः—"एतास्ता मलयोपकण्ठसरितामेणाक्षि रोधोभुव-
श्चापाभ्यासनिकेतनं भगवतः प्रेयो मनोजन्मनः ।
यासु श्यामनिशासु पीततमसो मुक्तामयीश्चन्द्रिकाः
पीयन्ते विधुतोर्ध्वचञ्चु विचलत्कण्ठं चकोराङ्गनाः ॥"
सतोऽपि क्रियार्थस्यानिनबन्धनम् । तद्यथा—दिवा नीलोत्पलाना-
मविकासो, निशानिमित्तश्च शेफालिकाकुसुमानामवस्रंसः ।
तत्र प्रथमः—"आलिख्य पत्रमसितागुरुणाभिरामं
रामामुखे क्षणसभाजिनचन्द्रबिम्बे ।
जातः पुनर्विकसनावसरोऽयमस्ये-
त्युक्त्वा सखी कुवलयं श्रवणे चकार ॥"
द्वितीयः— "त्वद्विप्रयोगे किरणैस्तथोग्रै-
र्दग्धाऽस्मि कृत्स्नं दिवसं सवित्रा ।
इतीव दुःखं शशिने गदन्ती
शेफालिका रोदिति पुष्पबाष्पैः ॥"
नियमस्तु तद्यथा—ग्रीष्मादौ सम्भवतोऽपि कोकिलानां विरुतस्य
वसन्त एव, मयूराणां वर्षास्वेव विरुतस्य नृत्तस्य च निबन्धः ।
तयोः प्रथमः—"वसन्ते शीतभीतेन कोकिलेन वने रुतम् ।
अन्तर्जलगताः पद्माः श्रोतुकामा इवोत्थिताः ॥"
द्वितीयः—"मण्डलीकृत्य बर्हाणि कण्ठैर्मधुरगीतिभिः ।
कलापिनः प्रनृत्यन्ति काले जीमूतमालिनि ॥"
कवीनां समयः सोऽयं जातिद्रव्यक्रियागतः ।
गुणस्थोऽथ ततः स्वर्ग्यः पातालीयश्च कथ्यते ॥
इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे
जातिद्रव्यक्रियासमयस्थापना चतुर्दशोऽध्यायः ॥
१ A भवि. २ C गुणस्थैष.
कविरहस्ये पञ्चदशोऽध्यायः । ८३
पञ्चदशोऽध्यायः गुणसमयस्थापना ।
असतो गुणस्य निबन्धनम् । यथा—यशोहासप्रभृतेः शौक्ल्यम्,
अयशसः पापप्रभृतेश्च कार्ष्ण्यं, क्रोधानुरागप्रभृतेश्च रक्तत्वम्। तत्र
यशःशौक्ल्यम्—
"स्तेमः स्तोकोऽपि नाङ्गे श्वसितमविकलं चक्षुषां सैव वृत्ति-
र्मध्येक्षीराब्धि मग्नाः स्फुटमथ च वयं कोऽयमीदृक्प्रकारः।
इत्थं दिग्भित्तिरोधक्षतविसरतया मांसलैस्त्वद्यशोभिः
स्तोकावस्थानदुःस्थैस्त्रिजगति धवले विस्मयन्ते मृगाक्ष्यः॥"
हासशौक्ल्यम्—"अट्टहासच्छलेनास्याद्यश्स्यं फेनौघपाण्डुराः।
जगत्क्षय इवापीताः क्षरन्ति क्षीरसागराः॥"
अयशःकृष्णत्वम्—
"प्रसरन्ति कीर्त्तयस्ते तव च रिपूणामकीर्त्तयो युगपत्।
कुवलयदलं संवलिताः प्रतिदिनमिव मालतीमालाः॥"
पापकार्ष्ण्यम्—"उत्खातनिर्मलमयूखकृपाणलेखा-
श्यामायिता तनुरभूद्द्यकन्धरस्य।
सद्यःप्रकोपकृतकेशववंशनाश-
सङ्कल्पसंजनितपापमलीभसैव ।"
क्रोधरक्तता—"आस्थानकुट्टिमतलप्रतिबिम्बितेन
कोपप्रभाप्रसरपाटलविग्रहेण।
भौमेन मूर्च्छितरसातलकुक्षिभाजा
भूमिश्चचाल चलतोर्दरवर्त्तिनेव ॥"
अनुरागस्परक्तता यथा—"गुणानुरागमिश्रेण यशसा तव सर्पता।
दिग्वधूनां मुखे जातमकस्मादार्द्रकुङ्कुमम्॥"
सतोऽपि गुणस्यानिवन्धनम् । कुन्दकुद्मलांनां कामिदन्तानां च
रक्तत्वं, कमलमुकुलप्रभृतेश्च हरितत्वं, प्रियङ्गुपुष्पाणां च पीतत्वम्।
१ V स्याः पश्य. २ V प्रतिदिशमिव. ३ V चलनो.