सामग्री पर जाएँ
सर्वकोश
काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

Kavyamimamsa of Rajasekhara with Hindi Commentary

महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा

DevanagariSanskritpublished381 पृष्ठ

पृष्ठ 104, कुल 381 में से

संदर्भ में पढ़ें
पृष्ठ 104

कविरहस्ये दशमोऽध्यायः । ५१

विनीतः¹, कस्य वा चेतः संसजत इति बुद्ध्वा भाषाविशेषमाश्रयेत"
इत्याचार्याः । "एकदेशकवेरियं नियमतन्त्रणा, स्वतन्त्रस्य पुनरेक-
भाषावत्सर्वा अपि² भाषाः स्युः" इति यायावरीयः । देशविशेषव-
शेन च भाषाश्रयणं दृश्यते । तदुक्तम्—
"गौडाद्याः संस्कृतस्थाः परिचितरुचयः प्राकृते लाटदेश्याः
सापभ्रंशप्रयोगाः सकलमरुभुवष्टक्कभादानकाश्च ।
आवन्त्याः पारियात्राः सह दशपुरजैर्भूतभाषां भजन्ते
यो मध्येमध्यदेशं निवसति स कविः सर्वभाषानिषण्णः ॥"
जानीयाल्लोकसाम्मत्यं कविः कुत्र ममेति च ।
असम्रमतं परिहरेन्मतेऽभिनिविशेत च ॥
जनापवादमात्रेण न जुगुप्सेत चात्मनि ।
जानीयात्स्वयमात्मानं यतो लोको निरङ्कुशः ॥
गीतसूक्तिरतिक्रान्ते स्तोता देशान्तरस्थिते ।
प्रत्यक्षे तु कवौ लोकः सावज्ञः सुमहत्यपि ॥
³प्रत्यक्षकविकाव्यं च रूपं च कुलयोषितः ।
गृहवैद्यस्य विद्या च कस्मैचिद्यदि रोचते ॥
इदं महाहासकरं विचेष्टितं
परोक्तिपाटच्चरतारतोऽपि यत् ।
सदुक्तिरत्नाकरतां गतान्कवीन्
कवित्वमात्रेण समेन निन्दति ॥
वचः स्वादु सतां लेह्यं लेशस्वाद्वपि कौतुकात् ।
बालस्त्रीहीनजातीनां काव्यं याति मुखान्मुखम् ॥
कार्यावसरसज्जानां परिव्राजां महीभुजाम् ।
काव्यं सद्यः कवीनां च भ्रमल्यह्ना दिशो दश ॥
पितुर्गुरोर्नरेन्द्रस्य सुतशिष्यपदातयः ।
अविविच्यैव काव्यानि स्तुवन्ति च पठन्ति च ॥


१ A विनीतोऽस्मि. २ B omits अपि. ३ B प्रत्यक्षं तु कविकाव्यं.