हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
-[३] पांशुदानाध्यायः ] हस्त्यायुर्वेदः । ६९१
सुनिबद्धमदो दान्तो बलशौर्यसमन्वितः ॥
प्रभावितो यो यत्रासौ स पुराणे मतङ्गजः ॥ ८ ॥
वातारण्यं हन्तु तथा प्रमाथं पांशुमेव च ॥
धारयेत्सर्वदा नागं संज्ञानिग्रहकारणात् ॥ ९ ॥
दम्यमानस्य नागस्य क्रिया विश्रम्भकारणात् ॥
नागं दान्तं यथायोगमभिनिश्चित्य शास्त्रवित् ॥ १० ॥
कालाकालं प्रमाणं च पांशुं चैवाभिहारयेत् ॥
नवस्यैव पुराणस्य पांशुर्न प्रतिषिध्यते ॥ ११ ॥
कर्मान्तरे च दातव्यः प्रमाथः पांशुरेव च ॥
स पातात्मयतव्यश्च स भवेत्परिकर्मभिः ॥ १२ ॥
वर्षासु ग्रीष्मकालेषु प्रमाथाहरणं भवेत् ॥
एकेन बहुभिर्वाऽपि दोषैर्दुष्टस्य हस्तिनः ॥ १३ ॥
पांशुं चैव प्रमाथं च सततं प्रतिषेधयेत् ॥
मनसो हर्षजननः प्रमाथः पांशुरेव च ॥ १४ ॥
मनसः प्रभवश्चेवे --------------------- मनीषिभिः ॥
अथातः पांशुदानस्य वक्ष्यते गुणसंग्रहः ॥ १५ ॥
अथ श्रद्धां च कुरुते तथाऽऽहाराशमं भवेत् ॥
पांशुर्मत्तस्य नागस्य मनःसौख्यविवर्धनः ॥ १६ ॥
पांशुर्बलस्य जननो ------------------ विवर्धनः ॥
पांशुरुष्णामितप्तस्य जयसौख्यविवर्धनः ॥ १७ ॥
पांशुदानगुणोपेतो रसधातुर्विवर्धते ॥
रसतः शोणितं मांसं मेदोऽस्थीनि च दन्तिनाम् ॥ १८ ॥
क्रमान्मज्जा च शुक्रं च वर्धन्ते तेन धावतः ॥
पांशुदानगुणा ह्येते यथावत्समुदाहृताः ॥ १९ ॥
एवमेतत्प्रमाथस्य शृणु चान्यान्गुणानिमान् ॥
मलपङ्कापनयनं कण्डूविनयनानि च ॥ २० ॥
लिक्षायूकामशान्त्यर्थं व्रणानां तु हिताय वै ॥
केचित्प्रमाथं पांशुं च उक्तेन ---------- प्रदापयेत् ॥
इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन प्रचोदितः ॥ २१ ॥
इति श्रीपालकाप्ये चतुर्थस्थाने पांशुदानं नाम त्रिंशोऽध्यायः ॥ ३० ॥
१ क. ०व कथितश्च म०। २ क. ०नो-रेतसश्च वि०। ३ क. उक्तेनैव ।
६९२ पालकाप्यमुनिविरचितो- [ ४ उत्तरस्थाने-
अथैकत्रिंशोऽध्यायः ।
अङ्गो हि. राजा चम्पायां रोमपादः प्रतापवान् ॥
उवाच पालकाप्यं तु विनयेन कृताञ्जलिः ॥ १ ॥
सप्तधातूद्भवा वास्तु संग्रहे संप्रकीर्तिताः ॥
मदावस्था मुनिश्रेष्ठ तत्र मे संशयो महान् ॥ २ ॥
कतमं धातुमाश्रित्य प्रथमा संप्रवर्तते ॥
द्वितीया कतरं प्राप्य तृतीया च महामुने ॥ ३ ॥
(❊चतुर्थी पञ्चमी चापि षष्ठी चैवापि सप्तमी ॥
कं कं धातुं समाश्रित्य प्रवर्तेत महामुने ) ॥ ४ ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
रसाद्रक्ताच्च मांसाच्च मेदसोऽस्थ्नस्तथैव च ॥ ५ ॥
मज्ज्ञः शुक्राच्च राजेन्द्र मदावस्था प्रवर्तते ॥
यदा छविः प्रसन्ना स्यान्निश्वासः सुरभिस्तथा ॥ ६ ॥
सुमनाश्च भवेन्नागस्तथा रसगता नृप ॥
मदावस्थामिमां तां तु जानीयात्प्रथमां †बुधैः ॥ ७ ॥
एवमेव गुणाश्चास्य मुहुर्बृंहति च द्विपः ॥
आस्यं रक्तं च भवति ॰॰॰॰ ॰॰॰॰वमर्थेतिवै भृशम् ( ?.) ॥ ८ ॥
तस्यावस्था द्वितीया स्याद्रक्ता सार्द्रकपोलिका ॥
उज्जृम्भणपरश्चैव बृंहमाणः पुनः पुनः ॥ ९ ॥
स्वेदल्पं च कोशेन न च रक्तमदो भवेत् ॥
साऽथोऽवस्था निबद्धा स्यात्तृतीया मांससंभवा ॥ १० ॥
यदा च वर्धते क्रोधः स्याज्जृम्भणपरस्तथा ॥
नेत्रे च पृथुले स्यातां युद्धे शूरश्च जायते ॥ ११ ॥
गन्धे पटुत्वमायाति लाघवं चास्य वर्धते ॥
वेगेऽप्युत्तमतां याति का ॰॰॰॰श्च भवत्यति ॥ १२ ॥
चतुरङ्गबलं हर्षादभिद्रवति निर्भयः ॥
स्वाधीनश्च भवेद्धातुः वधेऽपि गजवाजिनाम् ॥ १३ ॥
❊ धनुर्द्वयान्तरगतो नास्ति पाठः कपुस्तके । † 'बुधः' इत्युचितम् ।
१ क. ॰ति वह्निमिश्र ।
३१ मदावस्थाध्यायः ] हस्त्यायुर्वेदः । ६९३
गजानां नृपमध्ये च तथा वाजिसमाजिषु ॥
विवादेष्वपि नागानां नान्यांकीडोपसंभ्रमे ॥ १४ ॥
अन्तरापणभूम्यां च बालक्रीडाविहारयोः ॥
उद्वहेद्राजमात्रांश्च मदे मेदोद्भवे गजः ॥ १५ ॥
सवश्याङ्गत्वचापिण्णां(?) चतुर्थ्यां नियतं गजः ॥
यदा त्वस्थीनि संप्राप्तो मदो भवति दन्तिनः ॥ १६ ॥
तदा भवेत्क्रोधपरः सर्वेषामेव भूमिप ॥
रथमश्वं नरं वाऽपि हस्तिनं वा विशेषतः ॥ १७ ॥
अन्यं वा किंचिदासाद्य सर्वं प्राणैर्वियोजयेत् ॥
अतिक्रामति मर्यादां वार्यमाणः प्रयत्नतः ॥ १८ ॥
किंचित्ससंज्ञो भवति निःसंज्ञश्च पुनर्द्विपः ॥
तां क्रोधनीं मदावस्थां जानीयात्तस्य दन्तिनः ॥ १९ ॥
अथ प्राप्ते तु मज्जानं तस्या वक्ष्यामि लक्षणम् ॥
स्थानस्थो योऽपि गच्छन्वा जले मध्ये स्थितोऽपि वा ॥ २० ॥
स च नोत्सहते गन्तुं क्रोधेन कलुषीकृतः ॥
स्थानानि हस्तिनां याति बद्धानां क्रोधमूर्च्छितः ॥ २१ ॥
मदादीनवसंधाय श्रुत्वा घण्टास्वनं तथा ॥
अटित्वा सुप्रदेशान्वै स्थानमेवोपतिष्ठति ॥ २२ ॥
एतां षष्ठीं मदावस्थां जानीयादतिवाहिनीम् ॥
अथ शुक्रमनुप्राप्ते मदे रूपं निबोध मे ॥ २३ ॥
१अन्धो न पश्यत्यपि च न शृणोति न बुध्यते ॥
रात्रौ दिवा च स्रवति रोषश्चापि प्रजायते ॥ २४ ॥
गन्धमस्या न तिष्ठति न चात्र प्रतिहस्तिनः ॥
२निराहारस्य चाप्यस्य न भवेत्प्राणतः क्षयः ॥ २५ ॥
मन्यन्ते केचिदाचार्या रिष्टमेवेति हस्तिनाम् ॥
अवस्थां सप्तमीं प्राप्य नैव जीवति वारणः ॥ २६ ॥
संभिन्ना मदमर्यादा मदकाष्ठा परा नृप ॥
स कृत्वा सुचिरं नागो मदविच्छर्दिमुत्तमाम् ॥ २७ ॥
क्षीणतोये यथा मेघो ३विच्छायाति(?) नृपोत्तम ॥
तथा क्षीणमदो नागः प्रशान्तिमुपगच्छति ॥ २८ ॥
१ क. अंधो न यत्य० । २ ख. निरुहारस्य । ३ क. निर्गच्छति ।
६२२ ] पालकाप्यमुनिविरचितो— [ ४ उत्तरस्थाने-
तत्रावि'.......'तुं वक्ष्यामि यथा संमृ(न्नि)पते गजः ॥
अथ वायुः कफश्चैव पित्तं रुधिरमेव च ॥ २९ ॥
कुप्यन्ति सहिताः सर्वे स च कोपः सुदारुणम् (ः) ॥
ते तु शुक्रमनुप्राप्ता वातपित्तकफासृजः ॥ ३० ॥
शोणितं चापि ते सर्वे विनाशयन्ति वारणम् ॥
अस्थिप्राप्ते क्षयं याति मज्जाप्राप्ते तथैव च ॥ ३१ ॥
न तु शुक्रगते राजञ्जीवति द्विरदः कचित् ॥
सा सप्तमी मदावस्था स्वमूर्त्या विम्यसंभवा ॥ ३२ ॥
प्रभिन्ना वारेणेन्द्रस्य सहसा देहमाविशेत् ॥
न तां धारयितुं शक्ताः प्रतिदेहे मतङ्गजाः ॥ ३३ ॥
विशेषच्छाया यथा देहं सर्वेषामेव देहिनाम् ॥
देहं तथा द्विपमहो हस्तिनं प्रविशेन्नृप ॥ ३४ ॥
गजमैत्तविशेषेण धर्षयन्त्यपि सर्वशः ॥
आति'.......'तः समाभ्यश्च वर्धन्तेऽस्थीनि दन्तिनः ॥ ३५ ॥
मेदो मांसं च रक्तं च पित्तं श्लेष्मा च मारुतः ॥
उदीर्यन्ते प्रहर्षेण मेदस्तैनास्य जायते ॥ ३६ ॥
दशां तृतीयां संप्राप्ता ये माद्यन्ति मतङ्गजाः ॥
असंजातमदास्ते ते मदास्तेषु विपच्यते ॥ ३७ ॥
संप्राप्ता विंशतिं ये च मदं गृह्णन्ति दन्तिनः ॥
तान्न च ग्राहयेद्राजा द्विरदान्भिन्नविंशकान् ॥ ३८ ॥
यः पञ्चाशतमश्रित्य मदावस्थां(स्या) प्रवर्तते ॥
तत्र तत्र हि सा प्रोक्ता तव प्रीत्या मयाऽनघ ॥
इत्यमवीत्पालकाप्यो राज्ञाऽङ्गेन प्रचोदितः ॥ ३९ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचने उत्तराभिधानपरिखा-
श्चतुर्थस्थाने मदावस्थानामाऽध्याय एकत्रिंशः ॥ ३१ ॥
अथ द्वात्रिंशोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
ग्राह इत्युक्तितः पूर्वं तं मे व्याख्यातुमर्हसि ॥ १ ॥
१ क. ॰विधिं तु व॰ । २ संमृष्यते । ३ ख. ॰मत्तं वि॰ ।
३२ नागस्तन्तुकप्राप्ताध्यायः ] हस्त्यायुर्वेदः। १६५
ततः प्रोवाच भगवान्पालकाप्यो महामुनिः ॥
द्वौ ग्राहौ कीर्त्तितौ राजन्नागस्तन्तुक एव च ॥ २॥
तयोर्नागसमुत्पत्तिस्थानं रूपं च मे शृणु ॥
नागसत्त्वं महाराज गजं गृह्णात्यरिंदम ॥ ३ ॥
नागसत्त्वपरिज्ञानमिदं प्रोक्तं मनीषिभिः ॥
श्वसनः स्निग्धनीलाभः यश्चार्धतनुरायतः ॥ ४ ॥
नीलच्छविर्दीर्घहृत्तु निद्रालुः सूक्ष्मनिःस्वनः॥
सकल्माषायतकरस्ताम्रजिह्वायतच्छविः ॥ ५॥
उदग्रः स्थूलहस्तश्च पिङ्गरक्तान्तलोचनः ॥
वारिजानां सगन्धो यो यवगण्डप्रियश्च सः ॥ ६ ॥
पीनस्कन्धोऽल्पकर्णश्च चित्रपक्षोऽल्पपेचकः ॥
स्वप्नशीलस्तथाऽत्यर्थं स्वरे क्रूरे विशङ्कते ॥ ७ ॥
वृष्टिवाताशनिज्योत्स्नाधूमं चापि पिबेत्सदा ॥
नागसत्त्वः परिज्ञेयो नागस्य तरलो जयः ॥ ८ ॥
नागजात्यस्य नागस्य नित्यं नागजलाशयात् ॥
भयं भवति कालेन ततो नागत्वमिच्छति ॥ ९ ॥
नागपाशपरिक्षिप्तमवश्यं वशमागतम् ॥
तदा नागं हरत्याशु प्रत्यर्थं न तु विक्रमात् ॥ १० ॥
मणिरत्नोज्ज्वलशिरः स्वस्तिकाङ्कविभूषितः ॥
घोरो विद्युच्चलज्जिह्वस्तीक्ष्णदंष्ट्रो महाविषः ॥ ११ ॥
अनुगच्छति गच्छन्तं सुदीप्तो भाभिरव्ययः ॥
कषायमणिभिर्युक्तो ह्यमोघो ह्यजरामरः ॥ १२ ॥
तस्मात्प्रभ्रष्टेषु देशेषु नागानामालयेषु च ॥
(*दीप्ततोयासु वापीषु कूपेष्वारण्यकेषु च ॥ १३ ॥
सरस्सु च निर्भयेषु(?) गिरिप्रस्रवणेषु च ॥)
नीलगम्भीरतोयासु सावर्तासु नदीषु च ॥ १४ ॥
उत्पलं कुमुदं वाऽपि पद्मं कोकनदं तथा ॥
विवर्णं दृश्यते यत्र तत्र वाच्यो द्विमस्तकः ॥ १५ ॥
नैव क्रीडेद्गजस्तेषु नागजातो विशेषतः ॥
स्थानेष्वेतेषु नियतं नागानामाल्यो भवेत् ॥ १६ ॥
- धनुश्चिह्नद्वयान्तःस्थो नास्ति पाठः कपुस्तके ।
चतुर्दश्याममावास्यां कृष्णाष्टम्यां तथैव च ॥
पञ्चम्यां चैव शुचिता नागाः क्रीडन्ति ते सदा ॥ १७ ॥
तस्मात्तेषु विशेषेण नागतीर्थं विवर्जयेत् ॥
अवश्यमवगाहस्तु कार्यः कार्यवशाद्यदि ॥
ग(गा)रुडेन विधानेन रक्षां कृत्वाऽवतारयेत् ॥ १८ ॥
हेमजैर्विविधैर्मन्त्रैर्द्विजोक्तैश्च विशेषतः ॥
भुजगेभ्यः समुद्दिश्य प्रयत्नश्च बलिं हरेत् ॥ १९ ॥
इति नागसत्त्वमृत्युर्नागानां तु प्रकीर्तितः ॥
एवं श्रुत्वाऽङ्गभूपतिः पुनः प्रष्टुमुपाब्रवीत् ॥ २० ॥
भवन्ति (?) तन्तुकस्यापि श्रोतुमिच्छामि तत्त्वतः ॥
उत्पत्तिं च प्रभावं च प्रभवं चैव कीदृशम् ॥ २१ ॥
सूत्राणां सूत्रकश्चैव किमर्थमभिधीयते ॥
नागसंज्ञाकृतं चास्य ग्राहत्वं वा महामुने ॥ २२ ॥
कः प्रजानामभावाय को धर्माननुवर्तते ॥
गजप्राणा हि दस्युभ्यः प्रजारक्षाश्च पार्थिवाः ॥ २३ ॥
महान्तोऽपि हि संघाता बलिनो बलवत्तराः ॥
नालमेकस्य करिणः सत्त्वस्यान्यर्थवेदिनः ॥ २४ ॥
दैत्यदानवसंघाताः प्राप्य द्विवारणाङ्गणे ॥
क्षयं नीत्वा मुखरतैः ससैन्यबलवाहनाः ॥ २५ ॥
प्राकारभूताः सपदि वारणाः शत्रुवारणाः ॥
जयन्ति परसैन्यानि प्रसङ्ग बलवत्तया ॥ २६ ॥
यथा ते नाभिभूयन्ते मुच्यन्ते ग्राहतो द्विपाः ॥
रहस्यमत्र यद्ब्रह्मन्प्रप्यार्ज(?)मिह तद्वद ॥ २७ ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
कदाचिदपि संदर्भात्संक्रुद्धस्य महात्मनः ॥ २८ ॥
सर्वलक्षणयुक्तस्य गजंस्यैरावणस्य वै ॥
मदवेगपरिभ्रष्टाः पतितास्तु महीतले ॥ २९ ॥
बिन्दवस्तेऽश्रुभिः श्लिष्टाः पवनेन समीरिताः ॥
शक्रगोपसवर्णाक्षा जनयन्त्यजरामरम् ॥ ३० ॥
१ ख. घ. ॰तिः मुनिप्रष्टम्॰ ।
३२ नागन्तन्तुकग्राहाध्यायः ] [ हस्त्यायुर्वेदः । ६२७
गोक्षीरहिमसंकाशं वेगतन्तुकमव्ययम् ॥
मदेन मदसंकाशमत्यर्थबलतेजसम् ॥ ३१ ॥
महामेघनिकाशानां गजानां विनिपातनम् ॥
नदीषु नीलतोयासु पद्मोत्पललतासु च ॥ ३२ ॥
सुनिगूढासु रम्यासु नित्यं तिष्ठन्ति तन्तुकाः ॥
सलिलस्य तु यो देशः सेव्यते नापि पक्षिणा ॥ ३३ ॥
सजीवाः सकृदावर्ता दृश्यन्ते यत्र निम्नगाः ॥
विवर्णं वा जलं यत्र शब्दं (?) चापि न लक्ष्यते ॥ ३४ ॥
अत्युष्णं चातिशीतं च तन्तुकं तत्र निर्दिशेत् ॥
यस्माद्गृह्णात्यतो ग्राहः सूत्राभः सूत्रतन्तुवत् ॥ ३५ ॥
तन्तुवद्वर्धते यस्मात्तस्मात्तन्तुकमुच्यते ॥
अवध्यत्वादमोघस्तु दारुणः सलिलाशयात् ॥ ३६ ॥
नागराजमदोत्पन्नास्तेन नागा इति स्मृताः ॥
न तस्य दृश्यते वक्त्रं न लाङ्गूलं न चोदरम् ॥ ३७ ॥
लूतीकाजालवत्सूक्ष्मः सर्वतो वाऽपि लक्ष्यते ॥
तदर्थं तस्य बलिनो विनियोगगतस्य च ॥ ३८ ॥
मदोत्पन्नस्य सहसा विनयातिमदस्य च ॥
भोगप्राप्तस्य करिणः प्राणवत्परिवेपते ॥ ३९ ॥
नागस्य तन्तुको हन्ति स्पृशन्नेव बलान्नृप ॥
अदृष्टकायस्य जले तन्तुकस्य यदृच्छया ॥ ४० ॥
न वध्यो दृश्यते यस्मात्सर्वथा भोगमाचरेत् ॥
नाग्निना न च शस्त्रेण नौकाभिर्न बलेन च ॥ ४१ ॥
न शक्यः शङ्कुशङ्खैश्च तस्य मोक्षो विशां पते ॥
गृहीतशङ्खान्पुरुषान्निगृह्णांस्तंस्तथाऽपरान् ॥ ४२ ॥
छिद्यते नातिशस्त्रेण दह्यते दहनेन च ॥
दृष्ट्वा श्रुत्वाऽथ भो राजन्बहुशः परिवर्धते ॥ ४३ ॥
तस्मादेवं न कुर्वीत तन्तुकेनाार्दिते गजे ॥
स गजेन्द्रमदोत्पन्नो येन शाम्यति तच्छृणु ॥ ४४ ॥
मेषशृङ्गेण चोत्थाप्य कूर्मपृष्ठे निपात्य च ॥
आदित्यकिरणैः स्पृष्टस्तुषार इव शाम्यति ॥ ४५ ॥
६९८ पालकाप्यमुनिविरचितो— [ ४ उत्तरस्थाने—
इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचने क्षुद्रपाठे चतुर्थे उत्तरस्थाने
नागतन्तुक्रग्राहव्याध्युपशमस्त्रिंशत्तमः ॥ ३२ ॥
अथ त्रयस्त्रिंशोऽध्यायः ।
॰अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ।
हितार्थमब्रवीद्वाक्यं गजार्थं तत्त्वदर्शनः ॥ १ ॥
भगवञ्श्रूयते मृत्युर्गजानां जलजो गजः ॥
तन्न वेदितुमिच्छामि भगवन्संशयो हि मे ॥ २ ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
शृणु राजञ्जले यादृग्यस्मिंस्तिष्ठेज्जलाद्विपः ॥ ३ ॥
अगाधमतिसंस्निग्धं जलं यच्च सफेनिलम् ॥
सबुद्बुदं सनिर्घोषं पक्षिभिर्नित्य सेव्यते ॥ ४ ॥
असौम्यं दर्शने यच्च तस्मिंस्तिष्ठेज्जलाद्विपः ॥
वदनं वारणस्येव दन्तान्तिककरमस्तकाः ॥ ५ ॥
पादाश्चास्य समास्तस्य अष्टनाभिनखास्तथा ॥
स्थूलायतो महावंशः पृथुकर्णो महोदरः ॥ ६ ॥
छविश्च कण्टकाकीर्णा मुखं दंष्ट्राकुलं महत् ॥
शेषं च मकरस्येव स ज्ञेयो जलवारणः ॥ ७ ॥
श्रुत्वाऽस्य गर्जितं सद्यः पीत्वा च तज्जलं गजाः ॥
आयुःसत्त्वबलोपेता वयस्था नीरुजाः स्मृताः ॥ ८ ॥
यस्मान्निह्रायन्ते तस्मात्तं देशं क्लेशेन वर्जयेत् ॥
अष्टम्यां च चतुर्दश्याममावास्यां च धार्मिकः ॥ ९ ॥
नदीयज्ञविधानेन बलिं कुर्यात्प्रयत्नतः ॥
महीपालाज्ञा विद्वांसम्यग्ग्राह्यजलसत्तमः ॥ १० ॥
पानेऽवगाहे मातङ्गो यदि तद्गोचरो भवेत् ॥
मृत्पिण्ड इव निर्वीर्यो विलयं यात्यसौ क्षणात् ॥ ११ ॥
उच्यतेऽत्र क्रिया येन मुक्तो नागो भवेत्सुखी ॥
पी भिषग्जलमातङ्गाद्ग्राहयेत्तं नरोत्तम ॥ १२ ॥
[३४ जलौकाध्यायः ] हस्त्यायुर्वेदः । ६९९
सम्यक्संपूजयेद्राजा वैद्यं वस्त्रान्नभूषणैः ॥
- इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन प्रणोदितः ॥ १३ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचने उत्तराभिधानपरिवारचतुर्थे
स्थाने जलहस्तिलक्षणं नाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥
─────────•─────────
अथ चतुस्त्रिंशोऽध्यायः ।
─────────
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
जलौकालाबुशृङ्गाद्यैर्यदुक्तं रक्तमोक्षणम् ॥ १ ॥
तदशेषेण भगवन्सम्यगाख्यातुमर्हसि ॥
ततः प्रोवाच भगवान्पालकाप्यो महामुनिः ॥ २ ॥
जलौकानां विधानं तु यथाशास्त्रमुपायतः ॥
शोणितस्थापनार्थाय यथोक्तान्यौषधानि च ॥ ३ ॥
द्वादशैव जलौकानां जातयः परिकीर्तिताः ॥
षडत्र सविषा ज्ञेया निर्विषास्तु षडेव हि ॥ ४ ॥
पुष्करेषु प्रजायन्ते मघुराम्लं हि तज्जलम् ॥
अवन्तिविषये चान्या वत्सं(?) भूमीचरन्ति च ॥ ५ ॥
कलिङ्गेष्वपरान्ते च मध्यदेशे तथा परः ॥
कुशमुष्करसोनेषु जायन्ते ऊषरेषु च ॥ ६ ॥
पाञ्चाले यवने चैव सङ्गे पाण्ड्ये तथैव च ॥
एते देशाः समाख्यातास्तव राजन्यथाक्रमम् ॥ ७ ॥
षडत्र सविषा उक्तास्तासां वक्ष्यामि लक्षणम् ॥
कृष्णाञ्जननिभा या च कृष्णवक्त्रा च या भवेत् ॥ ८ ॥
मस्तकश्चातिविःपीनो (?) विज्ञेया विषमाहिताः ॥
दीर्घायता यथा वल्ली विज्ञेया कर्बुरा नृप ॥ ९ ॥
मण्डूककुक्षिर्भवति स्वल्पेन पिसि(शि)तेन च ॥
तृतीया बलवा नाम विमुखी पापलक्षणा ॥ १० ॥
भवेत्सुसमुस्त्री पार्श्वी तथा रोमशमस्तका ॥
मुखं च कृष्णं भवति ..... ..... ..... लामतिः ॥ ११ ॥
──────────────────────────────────────────
• * 'प्रत्यन्तरोल्लिखितं सूक्तिरत्नाकरात् ' इति त्रिष्वप्यादर्शपुस्तकेषु संदर्भमध्य
एवेतः प्राक्समुपलभ्यते ॥
७०० पालकाप्यमुनिविरचितो— [ ४ उत्तरस्थाने—
इन्द्रायुधनिभप्ररूपा ऊर्ध्वराजीमुखा च या ॥
यस्मिन्वसति तोये वं. साऽतिभास्करवर्चसा ॥ १२ ॥
˙˙˙˙ ˙˙˙˙ ˙˙˙˙ ˙˙˙˙ ˙˙˙˙मसाध्यां तां विनिर्दिशेत् ॥
इन्द्रायुधनि˙˙˙˙ ˙˙˙˙ज्ञा शृणु सामुद्रिका ह्यपि ॥ १३ ॥
पित्तला भवति सक˙˙˙˙ ˙˙˙˙ ˙˙˙˙ ˙˙˙˙ ˙˙˙˙ ॥
या पुष्पाश्रितसर्वाङ्गी विज्ञेया पञ्चमी तु सा ॥ १४ ॥
गोविन्दना भवेत्षष्ठी शृणु तस्यापि लक्षणम् ॥
भवेद्गोवृष ˙˙˙˙ ˙˙˙˙ ˙˙˙˙ ˙˙˙˙रस्या नरेश्वर ॥ १५ ॥
कायश्च वृत्तो भवति सविषा तु विनिन्दिता ॥
षडेताः सविषा ज्ञेया निर्विषास्तु निबोध मे ॥ १६ ॥
पिङ्गला प्रथमा ज्ञेया बहु मुञ्चति शोणितम् ॥
हरिद्वर्णा प्रशस्ता च प्रशस्तां तां विनिर्दिशेत् ॥ १७ ॥
शङ्कुवक्त्रा द्वितीया च मृतगन्धमुखी भवेत् ॥
कायश्च वृत्तो भवति विद्यात्तामपि निर्विषाम् ॥ १८ ॥
कोटीकाभा भवेदन्या स्निग्धवर्णा च या भवेत् ॥
मूषिकाभा चतुर्थी च ˙˙˙˙पतो वर्णतश्च या ॥ १९ ॥
स्पृष्टा भवति दुर्गन्धा पुण्डरीकमुखीं शृणु ॥
पुण्डरीकपलाशामं मुखं यस्माद्विजायते ॥ २० ॥
एषाऽपि निर्विषा राजञ्शृणु शावरिकामपि ॥
मनःशिलाभा रुचिरा व्याविद्धा वा प्रदृश्यते ॥ २१ ॥
कठिनमृद्वी च भवति कपिशां तां विनिर्दिशेत् ॥
हरिता पत्रवर्णाभा व्यङ्गुमष्टादशाङ्गुला ॥ २२ ॥
˙˙˙˙ ˙˙˙˙ ˙˙˙˙ ˙˙˙˙ ˙˙˙˙केष्विन्न न संशयः ॥
न तां मनुष्यः सहते गजानामुत्तमा हि सा ॥ २३ ॥
इत्येता निर्विषाश्चैव व्याहृताश्च जलौकसः ॥
जातीस्तासां प्रवक्ष्यामि यथावदनुपूर्वशः ॥ २४ ॥
पाण्डुदेशे तथा सङ्गे जाताश्च पवनेषु याः ॥
एता विशेषतः श्रेष्ठास्त्ववकाशाश्च सर्वशः ॥ २५ ॥ .
एता महाशनाः प्रोक्ता विशिष्टाः सर्वकर्मसु ॥
नवपङ्काशया ज्ञेयाः संकीर्णे न चरन्ति तु ॥ २६ ॥
३४ जलौकाध्यायः ] हस्त्यायुर्वेदः । ७०१
स्थूलमध्याल्पकायाश्च परिक्लिन्ना तु या भवेत् ॥
अध्य(ध्या)यता तु या राजंश्जलौकास्तां विनिर्दिशेत् ॥ २७ ॥
मृत्तिकां शालिपिष्टां च माषचूर्णमथापि वा ॥
विरूक्षयेज्जलोकार्थमर्दयेत्सन्तृजास्तु या ॥ २८ ॥
शुक्रेन चापि वस्त्रेण सर्वतः परिवेष्टयेत् ॥
निबद्धाः सर्वतः कृष्णां मुखमूलमपाशृणोत् ॥ २९ ॥
ततः शरावमध्ये च काञ्चने वाऽथ भाजने ॥
तत्रैतां निक्षिपेदाशु वस्त्रमासाद्य तत्त्वतः ॥ ३० ॥
जलैर्निर्वापयित्वा तु जलौकास्ता भिषग्वरः ॥
क्षीरेण श्वयथुं लिम्पेदथवा शोणितोक्षिताम् ॥ ३१ ॥
दद्याच्छस्त्रपदं चापि तस्मिन्ग्रहणहेतुकः ॥
जलौकाभिर्गृहीते तु शोणिते तस्य हस्तिनः ॥ ३२ ॥
कृते दोषापहरणे शोणितं न विदह्यते ॥
कृत्वाऽश्वखुरसंकाशं मुखं निवसति .... .... ॥ ३३ ॥
.... .... .... ....पित्वा तु तदा गृह्णात्यसंशयम् ॥
आदंशस्तुद्यते यस्तु कण्डूमांश्चैव जायते ॥ ३४ ॥
शुद्धवारि .... .... .... ....नाक्षिप्तं तमवगाहयेत् ॥
दंशं शोणितगन्धेन या तु नैव विमुञ्चति ॥ ३५ ॥
ततः सैन्धवचूर्णेन प्रतिसार्य जलायुकाम् ॥
हस्तेन तां ग्राहयित्वा ततो निष्पीडयेद्रजम् ॥ ३६ ॥
ये च वर्णाः समारुपाताः शोणितस्य पृथक्पृथक् ॥
तान्वर्णान्वा निरीक्षेत निःसृते शोणिते भिषक् ॥ ३७ ॥
इन्द्रगोपकवर्णं तु शुद्धं स्याद्यदि चेतरम् ॥
तस्मात्तं निःसृतं कुर्याद्रक्तमाशु विजानता ॥ ३८ ॥
न ह्यल्पे प्रकोपे च .... .... .... .... .... .... ॥
ईषज्जातं तु रुधिरं न व्याधिरतिवर्तते ॥ ३९ ॥
दोषोवेशं च शमयेच्छीतैर्लेपैर्मधुरैस्तथा ॥
.... ....पूर्वमम्लाभिः कीर्तितास्ते जलौकसः ॥ ४० ॥
यदि वा कुशलो वैद्यः सविषामवतारयेत् ॥
विकारस्तत्र कार्त्स्न्येन यथावदुपदेक्ष्यते ॥ ४१ ॥
१ °येज्जसम् । २ क °षावशेषं श° ।
६०२ पालकाप्य[संहितायां] ४ उत्तरस्थाने-
मासं षण्मासमासं वा... ... ... ... ॥
पूर्णे शशिनि [संप्राप्ते] रोहिण्यां संयतापि वा ॥ ३४ ॥
भेषजं हविषा तत्र कारयेत्कुशलो भिषक् ॥
अनेन विधिना वैद्यो यः क्रियां कुरुते सदा ॥
अप्रमत्तश्च दक्षश्च स गजः पुष्टिमावहेत् ॥ ३५ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदे उत्तराभिधाने परिवारचतुर्थस्थाने जलोका-
व्यापञ्चतुस्त्रिंशः ॥ ३४ ॥
अथ पञ्चत्रिंशोऽध्यायः ।
पालकाप्यमुपासीनं पप्रच्छाङ्गो महायशाः ॥
उपसर्गो हि नागानां कथं भवति दारुणः ॥ १ ॥
कथमाशु विपद्यन्ते बहवो वारणा मुने ॥
साध्येरपि मदेर्युक्ता रिष्टेरपि विना क्षता(:) ॥ २ ॥
श्रेष्ठो वा म्रियते सद्यः कथमेको मतङ्गजः ॥
महाकायेषु मरणं सद्य एव यथा मुने ॥ ३ ॥
एतन्मे पृच्छतो ब्रूहि सर्वमेतन्महामुने ॥
स पृष्टस्त्वङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ ४ ॥
शृणु राजन्यथातथ्यं यन्मां त्वं पृष्टवानसि ॥
यदाऽऽक्रम्य मृगशिरस्तिष्ठत्यन्यतमो ग्रहः ॥ ५ ॥
राज्ञो वा जन्मनाक्षत्रं ग्रहः कश्चित्प्रबाधते ॥
यस्मिन्देशे पशुपतिर्विष्णुश्चापि न पूज्यते ॥ ६ ॥
देवतानि च सर्वाणि भूतानि विविधानि च ॥
उपसर्गस्तदा राजञ्जायते गजनाशनः ॥ ७ ॥
यदा च मद्यशाखासृङ् मांसरुधिरो बलिः ॥
पक्षच्छिद्रेषु सर्वेषु भूतानां न निवेद्यते ॥ ८ ॥
शान्तिर्न क्रियते यत्र सर्वपापप्रशान्तये ॥
भूतानि तत्र विविधेर्व्याधिभिर्बाधन्ति हि ॥ ९ ॥
* 'राज्ञः' इति त्रुटितम् ॥
१ क ॰द्देशे यस्तु चापरः ।
?
Wait:
हु - ता - श - ना - र्चि - ष्प्र - ति - मै - र्व्या - प्पै - रूर्ध्व - मूर्ध - जैः
Wait! Look at "हुताशनाचींष्":
It has 'ना', then 'र्वि' or 'र्चि'?
It has: 'चि' with a repha! But wait, is there an anusvara? There is a repha 'र्' on चि: 'र्चि'!
Wait, look above 'चि': there is a hook, which is the repha of र्चि!
So it is "हुताशनाचिंष्प्रतिमैर्व्याप्तैरूर्ध्वमूर्धजैः" or "हुताशनाचिष्प्रतिमैर्व्याप्तैरूर्ध्वमूर्धजैः"? There is a dot or blob, let's write "हुताशनाचिष्प्रतिमैर्व्याप्तैरूर्ध्वमूर्धजैः" or "हुताशनाचिंष्प्रतिमैर्व्याप्तैरूर्ध्वमूर्धजैः".
Wait, look at 'र्व्याप्तै':
Is it 'र्व्याप्तै' or 'र्व्यापै'? It's 'र्व्याप्तै' (va + ya with repha, then pta with ai-matra).
Then 'रूर्ध्वमूर्धजैः' - र्ध्व + मूर्ध + जैः.
लम्बभ्रूर्वक्त्रमांसश्च
सशिरस्कं महाचर्म कृत्वा गजमयं ध्वजम् ॥
हरिच्छ्मश्रुमुखैर्घोरैर्विधैः रोमभिराचितः ॥ २५ ॥
व्याविद्धवक्त्राग्निशिखैर्जीवितं दन्तिनां दहन् ॥
वैष्णवैश्चापरैर्भीमैर्युतो वै घोरदर्शनैः ॥ २६ ॥
ज्वररूपी स्वयं मृत्युः सद्यो गजविनाशनः ॥
स तेन रूपेण यदा गजान्विशति पाकळः ॥ २७ ॥
–दृष्ट्वा तादृशं रूपं पाकळस्य भयानकम् ॥
वातः श्लेष्मा च पित्तं च दन्तिनो रक्तमेव च ॥ २८ ॥
सर्वं भयेन देहस्थं भयाधिक्यात्प्रकुप्यति ॥
यदा मुखेन चाऽऽगत्य जघनेनावतिष्ठते ॥ २९ ॥
गजदेहं च सहसा यदा विशति पाकळः ॥
गजस्योभयतो वाऽपि धातवो भयपीडिताः ॥ ३० ॥
भिन्दन्ति हृदयं देहात्ततो नागो न जीवति ॥
यदा मुखेन चाऽऽगम्य मुखेनैव
३९ उपसर्गनिरूपणाध्यायः ] हस्त्यायुर्वेदः । ७०५
व्याधिं दृष्ट्वैव हरिणास्ततोद्विग्ना विचेतसः ॥
अश्रूणि मूत्रं लालां च सकृन्मूत्रन्ति चासकृत् ॥ ४० ॥
विमुच्य आरवं घोरं वेपमाना ज्वरातुराः ॥
मदान्धा इव मातङ्गा गच्छन्ति विषमेष्वपि ॥ ४१ ॥
प्रपतन्ति भयाच्चापि म्रियन्ते मारयन्ति च ॥
दिव्ययोगं समास्थाय ज्वरे योऽनुपसर्पति ॥ ४२ ॥
पुनर्नष्टः पुनः सृष्टः प्रहृष्टः पार्श्वतोऽग्रतः ॥
भूमावाकाशसंस्थश्च घोरा माया विदश्यते ॥ ४३ ॥
एवं क्रूरो वैष्णवस्तु सर्वभूतवशंकरः ॥
यदा स्पृशति मातङ्गं तदा शय्यां विनाशयेत् ॥ ४४ ॥
चतुर्थे च महाराज पाकलो गजमाविशेत् ॥
गृह्णात्याकलयत्यन्नः(त्रं) स्पृशत्युच्छ्वासयत्यपि ॥ ४४ ॥
गृहीतो म्रियते सद्यो महापातं नयत्यपि ॥
दर्शयेत्सर्वरूपाणि क्रमेणानुमितो गजः ॥ ४६ ॥
संस्पृष्टश्छायया त्यक्तश्शिराद्रूपाणि दर्शयेत् ॥
॰॰॰॰ ॰॰॰॰सहसा भूत्वा सद्यः स्वस्थो भवेत्पुनः ॥ ४७ ॥
तमुन्नासितमित्याहुः पाकलेन मतङ्गजम् ॥
बृंहते हस्तिरूपाणि हस्तं निष्पिष्य भूतले ॥ ४८ ॥
द्रुतं च पथि गच्छन्ति वीक्ष्य(क्ष)माणाः समन्ततः ॥
प्रस्तब्धकर्णलाङ्गूलाः सर्वतोद्विग्नचेतसः ॥ ४९ ॥
न च स्थानेषु तिष्ठन्ति निर्वाणं न भवन्ति च ॥
ज्वरस्तत्रोपसर्गाय चरतीत्यभिलक्षयेत् ॥ ५० ॥
व॰॰॰न्स कुञ्जरान्हन्ति श्रेष्ठं वाऽपि मतङ्गजम् ॥
तत्र क्रियां प्रकुर्याच्च शोभार्थी भिषजां वरः ॥ ५१ ॥
पूजयेच्चमतो रुद्रं विष्णुं सर्वांश्च देवताः ॥
रात्रौ भूतबलिश्चापि कर्तव्यो मांसशोणितैः ॥ ५२ ॥
सर्वासु राजशालासु चत्वरेष्ववटेषु च ॥
नगरात्स महामात्राभिनयेद्दारणान्बहिः ॥ ५३ ॥
दिशि प्राच्यामुदीच्यां वा स्थानं जनमनोहरम् ॥
मनोरमतरान्देशानपरान्दन्तिनां ततः ॥ ५४ ॥
१ ॰नुगतो ।
७०१ पालकाप्यमुनिविरचितो- [४ उत्तरस्थाने-
प्रचार्य वारणाञ्श्वभ्रम्लक्ष्मतृणाशनान् ॥
अधिष्ठिता महाराजैरेकैकाहारैः सुसंस्कृतैः ॥ ५५ ॥
सप्ताहमेवं संचार्य जपहोमपरायणैः ॥
पुरोहितैस्तु कुर्वीत शान्तिं पापप्रणाशिनीम् ॥ ५६ ॥
तर्पयित्वा द्विजानन्नैर्दक्षिणाभिश्च पूजयेत् ॥
वासयेत्सहवत्सेषु वृषभाधिष्ठितास्तु गाः ॥ ५७ ॥
संमृष्टालंकृतं कृत्वा सर्वसंभारसंभृतः ॥
प्रवेश्या वारणा राजन्हस्त्यारोहैर्विशारदैः ॥ ५८ ॥
वैद्यैरहतवासोभिः सह व्याहृतिशोभिभिः ॥
आलानीयास्ततस्तम्भे बन्धेनानेन वारणाः ॥ ५९ ॥
यथा शतक्रतुः पूर्वं दृश्यते गर्भदारितः ॥
भूयःस्वात्मा यथा वत्स पुनः प्रविश स्वं गृहम् ॥ ६० ॥
भरद्वाजो मरुद्भिश्च हुतो भूय उदाहृतः ॥
तथा पुनः स्वशालायां क्षेमं वा लभ संभृतः ॥ ६१ ॥
प्रविशंस्तु निरुद्धस्तु स्तम्भे तिष्ठ शरच्छतम् ॥
अरोगो बलवान्भूयो राज्ञश्च विजयावहः ॥ ६२ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदे उत्तराभिधाने परिवारचतुर्थस्थाने
महाप्रवचने वृद्धोपदेशे उपसर्गनिरूपणं नाम
पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥
अथ षट्त्रिंशोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
चातुर्मासीषु सर्वासु कथं नीराजयोद्द्गजान् ॥ १ ॥
लोहाभिराख्यपुंजे कथं यज्ञो विधीयते ॥
को विधिः कोऽत्र नियमः को यज्ञः का च देवता ॥ २ ॥
प्रब्रूहि पृच्छतस्तन्मे यथावन्मुनिसत्तम ॥
स पृष्टस्त्वङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ ३ ॥
इदं शृणु महाराज यन्मां त्वं परिपृच्छसि ॥
.लोहाभिराख्यपुंजे योजयन्माक्रमप्रयोजयेत् ॥ ४ ॥
३६ गजशान्त्यध्यायः ] हस्त्यायुर्वेदः । ७०७
जयाय नृपतेर्यस्माद्यज्ञं यत्नेन कारयेत् ॥
अयं हि प्रथमो यज्ञो नागानां संप्रवर्तते ॥ ५ ॥
सोऽयं संवत्सरे साध्यो यज्ञे नात्र विधीयते(?) ॥
तदा लोहितयशिखरे संशृङ्गह्यश्चाऽऽयुधन्ति च ॥ ६.॥ .
तदा नीराजनाकालं वाहकाले प्रयोजयेत् ॥
नीराजना वाऽऽश्वयुजे गजानां संप्रचक्षते ॥ ७ ॥
रोगाणां तु निवृत्त्यर्थं तथा रक्षांसि पन्नगाः॥
पिशाचा गुह्यकाश्चैव गन्धर्वा यक्षराक्षसाः ॥ ८ ॥
दानवाश्चैव सर्वेऽपि कौमाराश्चापि ये ग्रहाः ॥
ये घोरा राजयक्ष्माणो रुद्ररौद्राश्च देवताः ॥ ९ ॥
उपसर्गाश्च पापाश्च पीडा नक्षत्रजा च या ॥
बलिं वा भोक्तुकामाश्च (*हन्तुकामास्तथा परे ॥ १० ॥
तथा क्रीडितुकामाश्च ) घोररूपा महाग्रहाः ॥
देवोपघाता ये चान्ये तत्र शान्तिं व्रजन्ति ते ॥ ११ ॥
एतदर्थं महीपाल गजनीराजना स्मृता ॥
कार्तिकी प्रथमा राजन्द्वितीया फाल्गुनी तथा ॥ १२ ॥
आषाढी तु तृतीया स्यात्तिस्रो नीराजनाः स्मृताः ॥
चातुर्मासी भवेत्कार्या गजानां हितमिच्छता ॥ १३ ॥
तत्र यागं प्रवक्ष्यामि तन्मे शृणु नराधिप ॥
अश्वयुक्श्रवणं चित्राहस्ताश्विन्यः पुनर्वसुः ॥ १४ ॥
एष नक्षत्रयोगस्तु प्रशस्तो गजकर्मसु ॥
तिथिं तृतीयामिच्छन्ति तथा चैवात्र पञ्चमीम् ॥ १५ ॥
.... .... .... .... सप्तमीं चैव तथा चैकादशीमपि ॥
सावित्रं विजयो मैत्रो ध्रुवश्चाभिजितस्तथा ॥ १६ ॥
एते मुहूर्ता पञ्च स्युः कर्मारम्भेषु हस्तिनाम् ॥
अथ पुण्याहघोषेण मुहूर्ता ये प्रकीर्तिताः ॥ १७॥
तेषामन्यतमे कुर्याद्विद्वान्यज्ञविधिं शुभम् ॥
यथाहं देवतानां च भूतानां च बलिं हरेत् ॥ १८ ॥
उल्लोपिकाश्च लाजाश्च धान्यं दधि घृतं मधु ॥
पायसं मत्स्यकुलमाषलोहितान्नं गुडौदनम् ॥ १९ ॥
*धनुश्चिह्नद्वयान्तःस्थो नास्ति पाठः कपुस्तके ।
स्रजश्च सर्वमाल्यानां कलशांस्तण्डुलान्वितान् ॥
सुप्रतिष्ठं भद्रपीठं मध्वर्धाल्पावलेपनम् ॥ २० ॥
दीर्घाग्रान्दरितो दर्भान्विमाषां चैव भोजनम् ॥
निव शर्वं च विधिवद्गजेन्द्रेपरमाहरेत् ॥ २१ ॥
भक्ष्यं तगरोशीरप्रियङ्गुं चैव योगवित् ॥
कुक्कुटं च वराहं च द्विखुरं च समाहरेत् ॥ २२ ॥
द्वे सूर्पे च तथा स्यातां द्वौ स्यातां व्यञ्जनौ तथा ॥
द्वे चापि पिटको(के) स्यातामष्टौ पटलकानि च ॥ २३ ॥
सर्वरत्नौषधींश्चापि धूपनं व्यञ्जनानि च ॥
रक्षाविधानं कुर्वीत गजानां स्वस्तिवाचनम् ॥ २४ ॥
तण्डुलाः स्वस्तिकाः पूता नवान्नं पायसं मधु ॥
पलाशशाखापि समिधः शिग्रुकोदुम्बरास्तथा ॥ २५ ॥
अच्छिन्नाग्राः कुशाश्चैव दीर्घाग्रा हरितास्तथा ॥
गर्भागमे च कर्तव्या शान्तिः संध्याद्वयेऽपि च ॥ २६ ॥
पुरोहितो दक्षिणे च जुहुयाद्धव्यवाहनम् ॥
उत्तराग्निं च जुहुयाद्धेमः शुचिरलंकृतः ॥ २७ ॥
अहतक्षौमवसनः शुचिर्भूत्वा कृताञ्जलिः ॥
अष्टौ देवाग्नमस्कृत्य गजानां स्वस्तिवाचने ॥ २८ ॥
प्रजापतिं च विष्णुं च सर्पभं च शचीपतिम् ॥
रुद्रं च बलदेवं च वरुणं धमरूं तथा ॥ २९ ॥
सेनापतिं नमस्यामि गजानां स्वामिनं प्रभुम् ॥
सर्वजयप्रियं यज्ञं यज्ञभूमिं प्रकल्पयेत् ॥ ३० ॥
…………रतो वाऽपि ब्राह्मणामुमते शिवे ॥
प्रागुदक्प्रणये(वणे) देशे स्निग्धो....विधिना शिवे ॥ ३१ ॥
प्रदक्षिणो....दके सर्वत्र सुपरिक्रमे ॥
निवर्तमानश्छायायां मुहूर्ते पूजिते तथा ॥ ३२ ॥
गोमयेनार्वलप्याथ यज्ञभूमिं निवेशयेत् ॥
तस्या स्थानान्तरं तत्र कुर्यादष्टावरत्नंपः ॥ ३३ ॥
तोरणे प्राङ्मुखे वाऽपि शतपान्ति च कारयेत् ॥
प्रागुदक्प्रवणे देशे शय्याभागं च कारयेत् ॥ ३४ ॥
३६ गजशान्तिरध्यायः ] हस्त्यायुर्वेदः । ७०१
चतुरस्रे सूपलिप्ते दक्षिणे उन्नते शुभे ॥
उत्सेधवृक्ष सुशुक्लमीशात्प्राणायतः शुभम् ॥ ३५ ॥
सुदृढं स्थापयेत्स्तम्भं चतुरस्रं समाहितं ॥
उत्सेधेन दशारत्निं दशरत्न्युत्तरे भवेत् ॥ ३६ ॥
तस्याग्रे क्षौमकं बद्ध्वा शितयासी तथा स्मृता ॥
गोमयेनोपलिप्ताय पूर्वमेव सदाचितः ॥ ३७ ॥
हिंसां न जनयेत्तत्र तथा जनजनाविधिः ॥१)
नोद्यानदेवोपहतान्नार्धशुष्का दृढात्मनः ॥ ३८ ॥
अनुगम्य नवान्वृक्षानृजुवृत्तान्शुभस्थितान् ॥
उत्सेधाद्द्वादशारत्नीन्कारयेत्तु विचक्षणः ॥ ३९ ॥
चन्दनेश्च यथोक्तेश्च स्नापयेदनुपूर्वशू ॥
युग्मानि तस्प नागस्य कारयेद्दहतानि तु ॥ ४० ॥
हरिद्रापिष्टमादाय कुर्यात्पञ्चाङ्गुलानथ ॥
मङ्गलानि च सर्वाणि कारयेत विचक्षणः ॥ ४१ ॥
रोचनायाः प्रियङ्गवा च सम्पहूनागं समालभेत् ॥
अद्भिश्चालंकृतं घृष्टं कुशाभिः सम्विस्तरेत् ॥
शोभितं वैजयन्तीभिर्निबद्धः पञ्चरज्जुभिः ॥ ४२ ॥
आरोग्याय च नागानां नृपस्य विजयाय च ॥
मध्ये च स्वस्तिकं कुर्यात्प्रशस्तांश्छत्रकुञ्जरान् ॥ ४३ ॥
अवकीर्णाय जलेश्च यज्ञभूमिं समन्ततः ॥
कुशोदुम्बरशाखाभिरुच्छिद्राग्राभिरेव च ॥ ४४ ॥
प्रागग्राभिरुदग्राभिर्जातवेदः परिस्तरम् ॥
सचन्दनाश्वानकुम्भान्पूरयित्वाऽथ वारिणा ॥ ४५ ॥
स्थापयित्वा यथाभागं यागं समवकल्पयेत् ॥
सर्वमेव च संयुक्तमनुपूर्वं च निक्षिपेत् ॥ ४६ ॥
ततो मैत्रे मुहूर्ते च बोधयेज्जातवेदसम् ॥
काष्ठैः पलाशकैश्चापि संयुक्तोदुम्बरैस्तथा ॥ ४७ ॥
ज्योतिः संजनयेत्तत्र पावकं जुहुयात्ततः ॥
गृहीत्वोदकपात्रं च प्रोक्षयेद्धव्यवाहनम् ॥ ४८ ॥
१ क. ॰थावजननावधिः ।
७१० पालकाप्यमुनिविरचितो— [ ४ उत्तरस्थाने-
अदिते नमस्तोऽद्युमते नमस्ते देवसवितुर्नमस्ते ॥
उत्तिष्ठाग्ने विबुध्यस्व स्वभीतं चरितं मया ॥ ४९ ॥
विबोधयन्त्यप्सरसो बहवस्ताश्च ब्राह्मणाः ॥
यामं च मम पृच्छस्व प्रसन्नो हव्यवाहनः ॥ ५० ॥
शु(स्रु)वेणाऽऽज्यं गृहीत्वाऽथ शान्तिर्भवतु हस्तिनाम्, स्वाहा॥
समिधे स्वाहा, भूः स्वाहा, भुवः स्वाहा, स्वः स्वाहा, भूर्भुवःस्वः स्वाहेति॥५१॥
बुद्धो बोधय भूतानि ब्राह्मणं वाऽमितौजसम् ॥
सहस्राक्षं भूपतिं च कुबेरं वरुणं यमम् ॥ ५२ ॥
विष्णुं चैव महात्मानं तथा नारदपर्वतौ ॥
उद्दालं काश्यपं कालं मरीचिं भृगुमेव च ॥ ५३ ॥
ऋषिमुख्यान्नमिष्यामि* सर्वानैव कृताञ्जलिः ॥
आशिं चास्याऽऽहुतिं तेषां भूयः स्वस्ति गजे पुनः ॥ ५४ ॥
भवन्त्यरोगाश्च गजाः समृद्धिं तद्धि याजकाः ॥
द्विरदानां प्रयच्छन्तु बलारोग्ययशांसि च स्वाहा ॥ ५५ ॥
यक्षा भूतानि गन्धर्वा ओषध्यश्च दिशां गजाः ॥
आदित्या मरुतश्चैव अश्विनौ च तथा ग्रहाः ॥ ५६ ॥
गजानां संप्रयच्छन्तु वर्णारोग्ययशांसि च ॥
ऐरावतं पुष्पदन्तं कुमुदं वामनं तथा ॥ ५७ ॥
पुण्डरीकं नीलवर्णं सार्वभौमं सुतेजसम् ॥
सुप्रतीकं च नागौ द्वौ पर्वमालिनमेव च ॥ ५८ ॥
महागजास्तथैवान्ये तानमस्मे (?) कृताञ्जलिः ॥
आशिं चास्याऽऽहुतिं चैव भूपः स्वस्ति गजे पुनः ॥ ५९ ॥
भवन्त्वरोगाश्च गजाः समृद्धिं यान्तु याजकाः ॥
प्रयच्छन्तु च नागानां वर्णारोग्ययशांसि च ॥ ६० ॥
अङ्गिरोजमदग्नी च वसिष्ठं पुलहं क्रतुम् ॥
दीप्तं परिवरं चैव पुलस्त्यं च्यवनं तथा ॥ ६१ ॥
•वेभ्यः सद्यः स्थितास्स्वांपस्तंथा पर्वतमालिनम् ॥
हिमवत्प्रमुखांश्चापि तथैव कुलपर्वतान् ॥ ६२ ॥
- 'नमस्यामि' इति भवेत् ।