सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 728, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 728

३६ गजशान्तिरध्यायः ] हस्त्यायुर्वेदः । ७०१
चतुरस्रे सूपलिप्ते दक्षिणे उन्नते शुभे ॥
उत्सेधवृक्ष सुशुक्लमीशात्प्राणायतः शुभम् ॥ ३५ ॥
सुदृढं स्थापयेत्स्तम्भं चतुरस्रं समाहितं ॥
उत्सेधेन दशारत्निं दशरत्न्युत्तरे भवेत् ॥ ३६ ॥
तस्याग्रे क्षौमकं बद्ध्वा शितयासी तथा स्मृता ॥
गोमयेनोपलिप्ताय पूर्वमेव सदाचितः ॥ ३७ ॥
हिंसां न जनयेत्तत्र तथा जनजनाविधिः ॥१)
नोद्यानदेवोपहतान्नार्धशुष्का दृढात्मनः ॥ ३८ ॥
अनुगम्य नवान्वृक्षानृजुवृत्तान्शुभस्थितान् ॥
उत्सेधाद्द्वादशारत्नीन्कारयेत्तु विचक्षणः ॥ ३९ ॥
चन्दनेश्च यथोक्तेश्च स्नापयेदनुपूर्वशू ॥
युग्मानि तस्प नागस्य कारयेद्दहतानि तु ॥ ४० ॥
हरिद्रापिष्टमादाय कुर्यात्पञ्चाङ्गुलानथ ॥
मङ्गलानि च सर्वाणि कारयेत विचक्षणः ॥ ४१ ॥
रोचनायाः प्रियङ्गवा च सम्पहूनागं समालभेत् ॥
अद्भिश्चालंकृतं घृष्टं कुशाभिः सम्विस्तरेत् ॥
शोभितं वैजयन्तीभिर्निबद्धः पञ्चरज्जुभिः ॥ ४२ ॥
आरोग्याय च नागानां नृपस्य विजयाय च ॥
मध्ये च स्वस्तिकं कुर्यात्प्रशस्तांश्छत्रकुञ्जरान् ॥ ४३ ॥
अवकीर्णाय जलेश्च यज्ञभूमिं समन्ततः ॥
कुशोदुम्बरशाखाभिरुच्छिद्राग्राभिरेव च ॥ ४४ ॥
प्रागग्राभिरुदग्राभिर्जातवेदः परिस्तरम् ॥
सचन्दनाश्वानकुम्भान्पूरयित्वाऽथ वारिणा ॥ ४५ ॥
स्थापयित्वा यथाभागं यागं समवकल्पयेत् ॥
सर्वमेव च संयुक्तमनुपूर्वं च निक्षिपेत् ॥ ४६ ॥
ततो मैत्रे मुहूर्ते च बोधयेज्जातवेदसम् ॥
काष्ठैः पलाशकैश्चापि संयुक्तोदुम्बरैस्तथा ॥ ४७ ॥
ज्योतिः संजनयेत्तत्र पावकं जुहुयात्ततः ॥
गृहीत्वोदकपात्रं च प्रोक्षयेद्धव्यवाहनम् ॥ ४८ ॥
१ क. ॰थावजननावधिः ।