हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 724, कुल 742 में से
संदर्भ में पढ़ें३९ उपसर्गनिरूपणाध्यायः ] हस्त्यायुर्वेदः । ७०५
व्याधिं दृष्ट्वैव हरिणास्ततोद्विग्ना विचेतसः ॥
अश्रूणि मूत्रं लालां च सकृन्मूत्रन्ति चासकृत् ॥ ४० ॥
विमुच्य आरवं घोरं वेपमाना ज्वरातुराः ॥
मदान्धा इव मातङ्गा गच्छन्ति विषमेष्वपि ॥ ४१ ॥
प्रपतन्ति भयाच्चापि म्रियन्ते मारयन्ति च ॥
दिव्ययोगं समास्थाय ज्वरे योऽनुपसर्पति ॥ ४२ ॥
पुनर्नष्टः पुनः सृष्टः प्रहृष्टः पार्श्वतोऽग्रतः ॥
भूमावाकाशसंस्थश्च घोरा माया विदश्यते ॥ ४३ ॥
एवं क्रूरो वैष्णवस्तु सर्वभूतवशंकरः ॥
यदा स्पृशति मातङ्गं तदा शय्यां विनाशयेत् ॥ ४४ ॥
चतुर्थे च महाराज पाकलो गजमाविशेत् ॥
गृह्णात्याकलयत्यन्नः(त्रं) स्पृशत्युच्छ्वासयत्यपि ॥ ४४ ॥
गृहीतो म्रियते सद्यो महापातं नयत्यपि ॥
दर्शयेत्सर्वरूपाणि क्रमेणानुमितो गजः ॥ ४६ ॥
संस्पृष्टश्छायया त्यक्तश्शिराद्रूपाणि दर्शयेत् ॥
॰॰॰॰ ॰॰॰॰सहसा भूत्वा सद्यः स्वस्थो भवेत्पुनः ॥ ४७ ॥
तमुन्नासितमित्याहुः पाकलेन मतङ्गजम् ॥
बृंहते हस्तिरूपाणि हस्तं निष्पिष्य भूतले ॥ ४८ ॥
द्रुतं च पथि गच्छन्ति वीक्ष्य(क्ष)माणाः समन्ततः ॥
प्रस्तब्धकर्णलाङ्गूलाः सर्वतोद्विग्नचेतसः ॥ ४९ ॥
न च स्थानेषु तिष्ठन्ति निर्वाणं न भवन्ति च ॥
ज्वरस्तत्रोपसर्गाय चरतीत्यभिलक्षयेत् ॥ ५० ॥
व॰॰॰न्स कुञ्जरान्हन्ति श्रेष्ठं वाऽपि मतङ्गजम् ॥
तत्र क्रियां प्रकुर्याच्च शोभार्थी भिषजां वरः ॥ ५१ ॥
पूजयेच्चमतो रुद्रं विष्णुं सर्वांश्च देवताः ॥
रात्रौ भूतबलिश्चापि कर्तव्यो मांसशोणितैः ॥ ५२ ॥
सर्वासु राजशालासु चत्वरेष्ववटेषु च ॥
नगरात्स महामात्राभिनयेद्दारणान्बहिः ॥ ५३ ॥
दिशि प्राच्यामुदीच्यां वा स्थानं जनमनोहरम् ॥
मनोरमतरान्देशानपरान्दन्तिनां ततः ॥ ५४ ॥
१ ॰नुगतो ।