सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 716, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 716

३२ नागन्तन्तुकग्राहाध्यायः ] [ हस्त्यायुर्वेदः । ६२७
गोक्षीरहिमसंकाशं वेगतन्तुकमव्ययम् ॥
मदेन मदसंकाशमत्यर्थबलतेजसम् ॥ ३१ ॥
महामेघनिकाशानां गजानां विनिपातनम् ॥
नदीषु नीलतोयासु पद्मोत्पललतासु च ॥ ३२ ॥
सुनिगूढासु रम्यासु नित्यं तिष्ठन्ति तन्तुकाः ॥
सलिलस्य तु यो देशः सेव्यते नापि पक्षिणा ॥ ३३ ॥
सजीवाः सकृदावर्ता दृश्यन्ते यत्र निम्नगाः ॥
विवर्णं वा जलं यत्र शब्दं (?) चापि न लक्ष्यते ॥ ३४ ॥
अत्युष्णं चातिशीतं च तन्तुकं तत्र निर्दिशेत् ॥
यस्माद्गृह्णात्यतो ग्राहः सूत्राभः सूत्रतन्तुवत् ॥ ३५ ॥
तन्तुवद्वर्धते यस्मात्तस्मात्तन्तुकमुच्यते ॥
अवध्यत्वादमोघस्तु दारुणः सलिलाशयात् ॥ ३६ ॥
नागराजमदोत्पन्नास्तेन नागा इति स्मृताः ॥
न तस्य दृश्यते वक्त्रं न लाङ्गूलं न चोदरम् ॥ ३७ ॥
लूतीकाजालवत्सूक्ष्मः सर्वतो वाऽपि लक्ष्यते ॥
तदर्थं तस्य बलिनो विनियोगगतस्य च ॥ ३८ ॥
मदोत्पन्नस्य सहसा विनयातिमदस्य च ॥
भोगप्राप्तस्य करिणः प्राणवत्परिवेपते ॥ ३९ ॥
नागस्य तन्तुको हन्ति स्पृशन्नेव बलान्नृप ॥
अदृष्टकायस्य जले तन्तुकस्य यदृच्छया ॥ ४० ॥
न वध्यो दृश्यते यस्मात्सर्वथा भोगमाचरेत् ॥
नाग्निना न च शस्त्रेण नौकाभिर्न बलेन च ॥ ४१ ॥
न शक्यः शङ्कुशङ्खैश्च तस्य मोक्षो विशां पते ॥
गृहीतशङ्खान्पुरुषान्निगृह्णांस्तंस्तथाऽपरान् ॥ ४२ ॥
छिद्यते नातिशस्त्रेण दह्यते दहनेन च ॥
दृष्ट्वा श्रुत्वाऽथ भो राजन्बहुशः परिवर्धते ॥ ४३ ॥
तस्मादेवं न कुर्वीत तन्तुकेनाार्दिते गजे ॥
स गजेन्द्रमदोत्पन्नो येन शाम्यति तच्छृणु ॥ ४४ ॥
मेषशृङ्गेण चोत्थाप्य कूर्मपृष्ठे निपात्य च ॥
आदित्यकिरणैः स्पृष्टस्तुषार इव शाम्यति ॥ ४५ ॥