सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 729, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 729

७१० पालकाप्यमुनिविरचितो— [ ४ उत्तरस्थाने-
अदिते नमस्तोऽद्युमते नमस्ते देवसवितुर्नमस्ते ॥
उत्तिष्ठाग्ने विबुध्यस्व स्वभीतं चरितं मया ॥ ४९ ॥
विबोधयन्त्यप्सरसो बहवस्ताश्च ब्राह्मणाः ॥
यामं च मम पृच्छस्व प्रसन्नो हव्यवाहनः ॥ ५० ॥
शु(स्रु)वेणाऽऽज्यं गृहीत्वाऽथ शान्तिर्भवतु हस्तिनाम्, स्वाहा॥
समिधे स्वाहा, भूः स्वाहा, भुवः स्वाहा, स्वः स्वाहा, भूर्भुवःस्वः स्वाहेति॥५१॥
बुद्धो बोधय भूतानि ब्राह्मणं वाऽमितौजसम् ॥
सहस्राक्षं भूपतिं च कुबेरं वरुणं यमम् ॥ ५२ ॥
विष्णुं चैव महात्मानं तथा नारदपर्वतौ ॥
उद्दालं काश्यपं कालं मरीचिं भृगुमेव च ॥ ५३ ॥
ऋषिमुख्यान्नमिष्यामि* सर्वानैव कृताञ्जलिः ॥
आशिं चास्याऽऽहुतिं तेषां भूयः स्वस्ति गजे पुनः ॥ ५४ ॥
भवन्त्यरोगाश्च गजाः समृद्धिं तद्धि याजकाः ॥
द्विरदानां प्रयच्छन्तु बलारोग्ययशांसि च स्वाहा ॥ ५५ ॥
यक्षा भूतानि गन्धर्वा ओषध्यश्च दिशां गजाः ॥
आदित्या मरुतश्चैव अश्विनौ च तथा ग्रहाः ॥ ५६ ॥
गजानां संप्रयच्छन्तु वर्णारोग्ययशांसि च ॥
ऐरावतं पुष्पदन्तं कुमुदं वामनं तथा ॥ ५७ ॥
पुण्डरीकं नीलवर्णं सार्वभौमं सुतेजसम् ॥
सुप्रतीकं च नागौ द्वौ पर्वमालिनमेव च ॥ ५८ ॥
महागजास्तथैवान्ये तानमस्मे (?) कृताञ्जलिः ॥
आशिं चास्याऽऽहुतिं चैव भूपः स्वस्ति गजे पुनः ॥ ५९ ॥
भवन्त्वरोगाश्च गजाः समृद्धिं यान्तु याजकाः ॥
प्रयच्छन्तु च नागानां वर्णारोग्ययशांसि च ॥ ६० ॥
अङ्गिरोजमदग्नी च वसिष्ठं पुलहं क्रतुम् ॥
दीप्तं परिवरं चैव पुलस्त्यं च्यवनं तथा ॥ ६१ ॥
•वेभ्यः सद्यः स्थितास्स्वांपस्तंथा पर्वतमालिनम् ॥
हिमवत्प्रमुखांश्चापि तथैव कुलपर्वतान् ॥ ६२ ॥

  • 'नमस्यामि' इति भवेत् ।