हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 727, कुल 742 में से
संदर्भ में पढ़ेंस्रजश्च सर्वमाल्यानां कलशांस्तण्डुलान्वितान् ॥
सुप्रतिष्ठं भद्रपीठं मध्वर्धाल्पावलेपनम् ॥ २० ॥
दीर्घाग्रान्दरितो दर्भान्विमाषां चैव भोजनम् ॥
निव शर्वं च विधिवद्गजेन्द्रेपरमाहरेत् ॥ २१ ॥
भक्ष्यं तगरोशीरप्रियङ्गुं चैव योगवित् ॥
कुक्कुटं च वराहं च द्विखुरं च समाहरेत् ॥ २२ ॥
द्वे सूर्पे च तथा स्यातां द्वौ स्यातां व्यञ्जनौ तथा ॥
द्वे चापि पिटको(के) स्यातामष्टौ पटलकानि च ॥ २३ ॥
सर्वरत्नौषधींश्चापि धूपनं व्यञ्जनानि च ॥
रक्षाविधानं कुर्वीत गजानां स्वस्तिवाचनम् ॥ २४ ॥
तण्डुलाः स्वस्तिकाः पूता नवान्नं पायसं मधु ॥
पलाशशाखापि समिधः शिग्रुकोदुम्बरास्तथा ॥ २५ ॥
अच्छिन्नाग्राः कुशाश्चैव दीर्घाग्रा हरितास्तथा ॥
गर्भागमे च कर्तव्या शान्तिः संध्याद्वयेऽपि च ॥ २६ ॥
पुरोहितो दक्षिणे च जुहुयाद्धव्यवाहनम् ॥
उत्तराग्निं च जुहुयाद्धेमः शुचिरलंकृतः ॥ २७ ॥
अहतक्षौमवसनः शुचिर्भूत्वा कृताञ्जलिः ॥
अष्टौ देवाग्नमस्कृत्य गजानां स्वस्तिवाचने ॥ २८ ॥
प्रजापतिं च विष्णुं च सर्पभं च शचीपतिम् ॥
रुद्रं च बलदेवं च वरुणं धमरूं तथा ॥ २९ ॥
सेनापतिं नमस्यामि गजानां स्वामिनं प्रभुम् ॥
सर्वजयप्रियं यज्ञं यज्ञभूमिं प्रकल्पयेत् ॥ ३० ॥
…………रतो वाऽपि ब्राह्मणामुमते शिवे ॥
प्रागुदक्प्रणये(वणे) देशे स्निग्धो....विधिना शिवे ॥ ३१ ॥
प्रदक्षिणो....दके सर्वत्र सुपरिक्रमे ॥
निवर्तमानश्छायायां मुहूर्ते पूजिते तथा ॥ ३२ ॥
गोमयेनार्वलप्याथ यज्ञभूमिं निवेशयेत् ॥
तस्या स्थानान्तरं तत्र कुर्यादष्टावरत्नंपः ॥ ३३ ॥
तोरणे प्राङ्मुखे वाऽपि शतपान्ति च कारयेत् ॥
प्रागुदक्प्रवणे देशे शय्याभागं च कारयेत् ॥ ३४ ॥